शिव संहिता (भगवान् शिव प्रणीत - हठयोग एवं राजयोग सटीक)
Shiva Samhita with Hindi Commentary
भगवान् शिव / पं. मिहिरचन्द्र द्वारा
पृष्ठ 209, कुल 216 में से
संदर्भ में पढ़ेंश्रीः। उमामहेश्वरमाहात्म्यम्। उमा भगवतीयेयं ब्रह्मविद्येति कीर्तिता। रूपयौवनसम्पन्ना वधूर्भूत्वात्र सा स्थि- ता ॥१॥ नानाजातिवधूनां हि बिंबभूताम- हेश्वरी ॥२॥ यस्याः प्रसादतः सर्वः स्वर्गं मोक्षं च गच्छति॥इह लोके सुखं तद्द्रज्जं- तुर्देवाधिकोपि वा ॥ ३ ॥ ब्रह्मा विष्णुस्त- था रुद्रः शक्राद्याःसर्वदेवताः ॥ कटाक्षपा- ततो यस्या भवंति न भवंति च॥४॥पीनो- न्नतस्तनी प्रौढजघना च कृशोदरी॥चंद्रा- नना मीननेत्रा केशभ्रमरमंडिता ॥ ५ ॥ सर्वांगसुंदरी देवी धैर्यपुंजविनाशिनी ॥ कांचीगुणेन चित्रेण वलयांगदनूपुरैः॥६॥ हारैर्मुक्तादिसंजातैः कंठाद्याभरणैरपि ॥ मुकुटेनापि चित्रेण कुंडलाद्यैः सहस्र- शः ॥ ७ ॥विराजिता ह्यनौपम्यरूपा भूष- णभूषणा ॥ जननी सर्वजगतो द्व्यष्टव- र्षा चिरंतनी ॥८॥ तया समेतं पुरुषं तत्प-