भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 100, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 100

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८३ ततश्च शिवधर्मादेर्वेदादेरकृतार्थता । निमित्तसमवाय्यादिकारणेषु समानता ॥ २९ ॥ सर्वशिवत्ववादे सर्वदर्शनैः स्वसिद्धान्तेन च सह विरोधः । तत्रैवम- निष्टत्वात् तेषामपि चान्यार्था(भावा)च्छैवत्वम् । स्वसिद्धान्तेऽपि च मायाप्रधानकर्मादेः पृथग्भूतस्य जगत्कारणत्वेनोक्तेः । सर्वेषां च भावानां शिवत्वाभ्युपगमे प्राणिनोऽपि सर्वशक्तित्वात् नित्यनिर्मुक्ता इति बन्ध- मोक्षाभावः । ततश्च हेयोपादेयादिविभागाभावात् देवगुरुशास्त्रलक्षण- पुरुषार्थप्राप्त्युपायोच्छेदो लोकायताधिक्येन भवेत्, तस्य हि कदाचित् दृष्टार्थे तदभ्युपगमः स्यात्, सर्वशिवत्वे तु कः कस्योपायः । तथा च शास्त्रस्य करणे निरूपणे व्याख्याने श्रवणे च निरर्थकत्वम् । सर्वेषामेव शिवत्वेन मुक्तत्वात् कस्य शास्त्रस्योपदिश्यमानता । धर्मार्थमपि शास्त्रम- युक्तं शिवस्य कार्ममलाभावान्न धर्माधर्मौ समवेतौ, न तु तयोः शिवे करणं मिथ्याज्ञानरागादिकारणत्वात् प्रवृत्तीनाम् । एवं च शिवधर्मा- दीनां वेदस्य च धर्मार्थत्वाभावादकृतप्रयोजनता । तथा समवाय्य- समवायिनिमित्तकारणेषु शिवत्वेन विशेषः शास्त्रान्तरोक्तः परिदृश्यमानश्च न स्यात् ॥ २६ ॥ किं च-- पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् । शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥ ३० ॥ इच्छावत्कार्यनिष्पत्त्या पुनरिच्छान्तरोद्गमे । शिवस्य हेतुर्वक्तव्यो यदर्थं सा नवोद्गता ॥ ३१ ॥ विश्वस्यासत्यरूपत्वं यैर्वाक्यैर्वर्णितं क्वचित् । शिवोक्तैस्तैर्विरोधः स्यात्सर्वसत्यत्ववादिनः ॥ ३२ ॥ पृथिव्यादिरूपतयात्मानं परिकल्प्य तथास्ते इति मते कल्पनावान् शिवभट्टारकः प्राप्नोति । निर्विकल्पश्च स इष्यते, विकल्पानां भिन्नवस्तु- शून्यत्वेनाविद्यारूपत्वात् । अथ न सविकल्पं शिवतत्त्वम्, अपि तु सानु- भवम्, अनुभवो हि नाऽयथार्थो भवति । एवंरूपे तस्मिन् किमसावनुभवति, किमात्मानमुत परात्मानमपि, किमननुभूतमुतानुभूतम् । अनुभाव्यानु- भावकयोश्च भेद एव, इत्येवमादिपश्यन्तीविषयोक्तदूषणावसरस्