शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 101, कुल 188 में से
संदर्भ में पढ़ें८४ ··शिवदृष्टिः [ आ०-३ विशिष्टेच्छावशाच्चाभीष्टे यज्जगल्लक्षणकार्यसंपत्त्या हेतुभूतया इच्छा- कारणविरतौ पुनः स्थितिप्रलयादौ पटादिविज्ञाने वा इच्छान्तरोद्गमे को हेतुः कः प्रयोजको यत्प्रेरितस्य शिवस्य पूर्वस्वभावनिवृत्तावपूर्वस्वभावान्त- रोदये चेच्छा नवनवा प्रवर्तते। सर्ववस्तूनां च शिवैकरूपत्वे सत्थत्वं स्यात्, एवं च मायेन्द्रजालोपमत्वं जगतः पारमेश्वरैरेव शास्त्रैैर्यद्वर्ण्यते तद्विरुद्धं स्यात् ।। ३२ ।। अत्राह-- इत्याक्षेपर्क्षणार्थमत्र प्रतिविधीयते । ईदृशात्परकृतान्महाक्षेपात् स्वदर्शनस्य रक्षणार्थमस्य वाक्षेपस्य रक्षणार्थं निवारणार्थमत्राक्षेपे सति स्वदर्शनेऽत्र वा समर्थनं क्रियते ॥ चिदात्मनो१ हि स्थूलस्य सूक्ष्मस्याथ विकारिता ।। ३३ ।। क्षीरमायाप्रकृतिवत्तस्य चेच्छैव यादृशी । परस्य तादृगात्मत्वमुत्पद्येतात्र योगिवत् ।। ३४ ।। चिदात्मनः स्थूलत्वे२ क्षीरस्येव दधिनिष्पत्तौ जगन्निर्माणे विकारिता १ इत्याक्षेपर्क्षणार्थमित्युक्तं, तत्र यत्तावदुक्तं आदौ तावदित्यादिनैष एव प्रथमो महान्दोष इति । तत्रैव जडतासाव- यवत्वपरधीनत्वादीनामन्तर्भावात्तदेव तावन्निर्दलयितुम् अधिकरण- सिद्धान्तनयेन तस्मिन् महादोषे विगतशक्तिके सति तदुपपरिवर्तिनोऽन्ये स्वयमेवोपशाम्यन्तीत्याह--तदात्मनो हीत्यादि । तदिति सर्वनाम्ना प्रसिद्धताद्योतकेन विश्वात्मतायामप्रच्युतप्राच्यस्वरूपं ध्वनितम् । हिशब्दः परकृताक्षेपे समर्थनतां द्योतयति । अथ पक्षान्तरे । अयं भावः--यावत इति स्थूले सूक्ष्मे वा कारणे परिणामादियोगो यत्र संभवति तत्र कार्यतापत्तौ परिणामादावपि विकारिताऽवश्यं संभवत्येव क्षीरस्य स्थूलत्वाद्दधिरूपेण परिणामेऽपि विकारिता, मायाप्रकृत्यादेश्च सूक्ष्मस्य जडस्य त्रिगुणात्मकस्य कार्यतापत्तावपि तादृशमेव रूपं, तदेतत्सिद्धम्, यादृशं कारणं तादृशमेव कार्यं, कारणरूपतापत्तिरेव कार्ये न तु कार्येण कारणमनुगच्छतीति । २ पक्षे सति ।