भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

८४ ··शिवदृष्टिः [ आ०-३ विशिष्टेच्छावशाच्चाभीष्टे यज्जगल्लक्षणकार्यसंपत्त्या हेतुभूतया इच्छा- कारणविरतौ पुनः स्थितिप्रलयादौ पटादिविज्ञाने वा इच्छान्तरोद्गमे को हेतुः कः प्रयोजको यत्प्रेरितस्य शिवस्य पूर्वस्वभावनिवृत्तावपूर्वस्वभावान्त- रोदये चेच्छा नवनवा प्रवर्तते। सर्ववस्तूनां च शिवैकरूपत्वे सत्थत्वं स्यात्, एवं च मायेन्द्रजालोपमत्वं जगतः पारमेश्वरैरेव शास्त्रैैर्यद्वर्ण्यते तद्विरुद्धं स्यात् ।। ३२ ।। अत्राह-- इत्याक्षेपर्क्षणार्थमत्र प्रतिविधीयते । ईदृशात्परकृतान्महाक्षेपात् स्वदर्शनस्य रक्षणार्थमस्य वाक्षेपस्य रक्षणार्थं निवारणार्थमत्राक्षेपे सति स्वदर्शनेऽत्र वा समर्थनं क्रियते ॥ चिदात्मनो१ हि स्थूलस्य सूक्ष्मस्याथ विकारिता ।। ३३ ।। क्षीरमायाप्रकृतिवत्तस्य चेच्छैव यादृशी । परस्य तादृगात्मत्वमुत्पद्येतात्र योगिवत् ।। ३४ ।। चिदात्मनः स्थूलत्वे२ क्षीरस्येव दधिनिष्पत्तौ जगन्निर्माणे विकारिता १ इत्याक्षेपर्क्षणार्थमित्युक्तं, तत्र यत्तावदुक्तं आदौ तावदित्यादिनैष एव प्रथमो महान्दोष इति । तत्रैव जडतासाव- यवत्वपरधीनत्वादीनामन्तर्भावात्तदेव तावन्निर्दलयितुम् अधिकरण- सिद्धान्तनयेन तस्मिन् महादोषे विगतशक्तिके सति तदुपपरिवर्तिनोऽन्ये स्वयमेवोपशाम्यन्तीत्याह--तदात्मनो हीत्यादि । तदिति सर्वनाम्ना प्रसिद्धताद्योतकेन विश्वात्मतायामप्रच्युतप्राच्यस्वरूपं ध्वनितम् । हिशब्दः परकृताक्षेपे समर्थनतां द्योतयति । अथ पक्षान्तरे । अयं भावः--यावत इति स्थूले सूक्ष्मे वा कारणे परिणामादियोगो यत्र संभवति तत्र कार्यतापत्तौ परिणामादावपि विकारिताऽवश्यं संभवत्येव क्षीरस्य स्थूलत्वाद्दधिरूपेण परिणामेऽपि विकारिता, मायाप्रकृत्यादेश्च सूक्ष्मस्य जडस्य त्रिगुणात्मकस्य कार्यतापत्तावपि तादृशमेव रूपं, तदेतत्सिद्धम्, यादृशं कारणं तादृशमेव कार्यं, कारणरूपतापत्तिरेव कार्ये न तु कार्येण कारणमनुगच्छतीति । २ पक्षे सति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८५ स्यात् । सूक्ष्मत्वेऽपि¹ वा मायाप्रकृतितवत् । तत्तयोरिव² यावता न स्थूलो नापि सूक्ष्मः परमेश्वरश्चिदात्मा, अपि तु ततः परं, सर्वतोऽपि जडस्यैव हि स्थौल्यादिपरिणामयोगो न चिन्मयस्य, तस्य³ तु परस्य यादृगात्मत्वमभीष्टं तथावस्थानमेवोत्पत्तिर्योर्गिनामिव⁴ ॥ ३४ ॥ तदेवाह-- इच्छया⁵ सर्वभावत्वमनेकात्मत्वमेव च। नात्र स्वात्मविकारेण जनयेद्भावमण्डलम् ॥ ३५ ॥ तदिच्छासामनन्तर्ये तथाभूतात्मता यतः। उभयोरप्यत्र⁶ निर्देशः। यथा योगिनां सर्वभावत्वमिच्छया- नेकात्मत्वं वा भवतीति इष्टं⁷ तथा परमेश्वरस्यापि मन्तव्यम् । न ह्यसौ योगी स्वात्मनो मृत्पिण्डस्येव शिबिकस्तूपकादिरूपविकारपरिणाम- क्रमेण कुम्भकार इव घटमिव भावमण्डलं जनयति, अपि तु तस्य यादृशीच्छा तत्समनन्तरमेवेष्टकार्यात्माभिलाषात्मतया स्थितिः, तथा चिदात्मनोऽपि ॥ ३५ ॥ १ यथा सूक्ष्मा कारणभूता माया जडा तत्कार्यमपि तादृशमेव, यथा सूक्ष्मा त्रिगुणात्मिका प्रकृतिस्तत्कार्यमपि त्रिगुणात्मकमवयव- विकारापन्नं चेत्यर्थः । २ तयोस्तत्कार्यविकारयोः । ३ ननु यदि तस्य न परिणामादियोगः तत्किमत्र तदनुगतता नाम येनोक्तं शिवात्मकमिदं सर्वमिति । तदेतदाशङ्क्याह तस्य त्विति । अयं भावः--न जडतादिकमत्र शिवत्वं तस्य तस्येच्छामात्ररूपत्वात् । शिवात्मकत्वं च तादृगवस्थानात्म- कत्वादुत्पत्तेः । ४ न तु तदेव तथेति वक्तुं शक्यमित्यर्थः । ५ इच्छया च निर्माणं स्वप्नसंकल्पादौ दृष्टमेव, घटादेः प्रसिद्धकारणपरम्परा- पराकरणेन तदत्रासत्यं घटादीति चेत्, अस्तु तावदेतत्, तथापि योगी पुरसेनादिनिर्माणमिच्छावशादेव करोतीति सिद्धमेतत् । तत्र हि तदि- च्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घट- संपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादिकारणकलापोऽभ्युपेयते तत्कुलालविशेष एवायं योगीत्यायातं, तृणमात्रेणापि तु प्रसिद्धयुल्लङ्घने स्वप्नसंकल्पकामशोकादिविषयपरिदृष्ट- भावाभासनिर्माणसामर्थ्यं संविद एवेति । ६ उभयोश्चिदात्मयोगिनोः । ७ स्वप्नसंकल्पादाविष्टं माभूत् ।

८६ शिवदृष्टिः [ आ०-३ पुनराह— यथा$^१$ न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥ ३६ ॥ विभागस्तद्वदीशस्य मध्योत्कृष्टनिकृष्टकैः । भावैर्नास्ति विभेदित्वमथवाम्बुधिवीचिवत्$^२$ ॥ ३७ ॥ तत्र वीचित्वमापन्नं न जलं जलमुच्यते । न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥ ३८ ॥ निश्चलत्वेऽपि हि जलं वीचित्वे जलमेव तत् । वीचिभिस्तद्विशिष्टं चेत्तन्नैश्चल्यविशेषकम् ॥ ३९ ॥ यथा न योगिनो नानासैन्यशरीरकैर्गजरथतुरगपदातिरूपैरवस्थि- तस्यात्मविभागस्तथा परमेश्वरस्य मध्योत्कृष्टनिकृष्टकैर्देवमनुष्यतिर्य- गादिरूपैर्विभेदः सर्वशक्तिबोधमात्ररूपस्यैकत्वनियमात् । अथवात्यन्त- प्रसिद्धोऽयं दृष्टान्तः । यथाम्बुधेस्तरङ्गाणां चैक्येऽपि व्यवहारभेदस्तथा शिवस्य विश्वस्य च । तत्र हि व्यवहारे वीचितां प्राप्तं जलं न जलमित्युच्यते, न च तत्र वीचिरूपे जलता विनष्टा । तथाहि निश्चलत्वे चलवीचित्वे च जलमेव जलविशेषत्वाद्वीचेः, अथ जलं तद्वीचित्वविशिष्टं न जलमात्रम्, तदेतदस्तु वीचिताविशिष्टत्वेऽपि न क्षतिर्जलस्य तादवस्थ्यात् । वीचि- विशिष्टत्वे जलत्वाभावो निश्चलत्वविशिष्टेऽपि जलता न स्यात्, एवं भावरूपत्वेऽपि शिवता स्थितैव ॥ ३६ ॥ अत एव परेच्छातो न जडत्वमवस्थितम् । पृथिव्यादितत्त्वगणे जडत्वं चेत्प्रतीयते ॥ ४० ॥ न$^३$ यथा जडता क्वापि तथाग्रे सुविचारितैः ।


१ ननु भवतु चेच्छया सर्वकार्यकारित्वं योगिन इव, तथा पुनः स्थित्य- वस्थायां स्फुटमेव विलक्षणरूपत्वादेषां कात्र व्यवस्था तदेकरूपत्व इत्यत आह यथा नेत्यादि । २ ननु मास्तु योगिनः सैन्यशरीरकाणां भेद इत्यत्र यथा परमेश्वरस्यापि भेदव्यवहारश्च स्फुटमवभासमानस्तस्मात्तेषां चान्योन्यं कथमपह्नुयत इति कुतर्कमोहान्ध्यविलुप्तविज्ञानदृष्टीन्प्रति स्फुटताप्रतीतये पुनरन्यदृष्टान्तेन द्रढयति अथवेत्यादि । ३ नशब्दोऽत्र काकाक्षिगोलकन्यायेन योज्यः ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८७ वर्णयिष्याम एवात्र न चः सावयवः क्वचित् ॥ ४१ ॥ कश्चिदस्तीह वक्ष्याम एतदप्यग्रतः स्फुटम् । अत एव योगिन इव परमेश्वरस्येच्छावशादेव तथावस्थाने पृथि- व्यादितत्त्वगणे जडता नास्ति इच्छाविशेषरूपत्वात्, न तु प्रधानादिजडो- पादनतास्य । अथ तत्रेदन्तानिर्देश्यतारूपा जडता प्रतीयते । तन्न, यथा न क्वचिदिदन्तानिर्देश्यत्वेऽपि तत्त्वतो जडता तथोत्तरत्र सुष्ठु विचारणाभि- र्वक्ष्यामः । सर्वात्मत्वे शिवतत्त्वस्य सावयवत्वप्रसङ्गदूषणमपि अग्रे निरा- करिष्यामो यथा न कश्चित् कस्यामप्यवस्थायां सावयवः स्यात् । स्वयं शिवात्मतावस्थाने स्वयं विश्वात्मतयावस्थाने च किमपेक्षया भोग्यता यया सावयवत्वं स्यात् ॥ स्वेच्छातो भावरूपत्वे पराधीना कुतः स्थितिः ॥ ४२ ॥ क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् । एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥ ४३ ॥ अभग्नेस्वस्य रूपत्वे शुद्धन्यूनादिकं कुतः । एतद्ग्रहादिके हेम्नि हेमत्वं मुकुटादिके ॥ ४४ ॥ स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता । चण्डालसङ्गो वह्निर्न वह्निर्यदि कथ्यते ॥ ४५ ॥ तदेवं स्यादथोच्येत वह्नेः संस्कारचोदना । शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥ ४६ ॥ न स्वरूपविभागोऽत्र स्वरूपे तत्स्वरूपता । परापरादिभेदोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥ ४७ ॥ स्वेच्छावशाद्विश्वभावरूपस्य पराधीना न स्थितिरपि तु स्वेच्छा- यत्तैव । विश्वरूपता क्षीरायत्ता दधिरूपतेव कारणपरिणामसापेक्षा यदि कथ्येत पराधीनो विश्वात्मा तदा जडः स्यात् चिद्रूपस्यापेक्षानुपपत्तेः, यावता विश्वरूपत्वे चिद्रूपतैव । अनयैव चिद्रूपताहानिदिशा शुद्धाशुद्धत्वो- पचयापचयवत्त्वादिदोषः परिहार्यः । स्वं रूपं यस्य स स्वरूपस्तस्य भावे

८८ शिवदृष्टिः [ आ०-३' चिद्रूपत्वे तदवस्थे शुद्धन्यूनादिदोषाभावात् । मुकुटपतद्ग्रहयोः सुवर्णसाम्येन सुवर्णत्वम् । तथाहि चण्डालगृहस्थोऽग्निर्यदि नाग्निः स्यात् तदेतदपि स्यात् । अथ वह्नेर्यदि अशुद्धता न स्यात् तत्तस्य कुतो मन्त्रैः संस्कार- योगः कार्यसंपादनार्थं शास्त्रे चोच्यते तस्मात् तस्याशुद्धता संभवेत् । नैवं, कार्यमेवानुष्ठेयमेव तद्व्यवहाराय न तु स्वरूपे वह्ने`विभागः, स्वरूपे निजरूपे स्थिते तु वह्नावुपगम्यमाने तत्स्वरूपता वह्निरूपतैव सर्वत्र, तद्वत् शिवरूपता जगतस्तस्य, तथा ईश्वरस्य तन्मात्रपृथिव्यादिरूपतया व्यवस्था- नात् परस्थूलसूक्ष्मतादिभेदः । तथा च सर्वत्रैक्ये संसारव्यवहाराय संज्ञामात्रं तत्कल्पितं भवति ॥ ४७ ॥ व्य१वहारोऽप्यविद्या२ नो तथात्वेनेश्वरस्थितेः । तेनैव वा तथा क्लुप्तस्तथा तदनुवर्तनम् ॥ ४८ ॥ न तत्स्वरूपभेदाय शास्त्रं यद्व्यवहारगम् । संसारव्यवहारोऽप्यविद्या नाम न पदार्थान्तरं भवति, ईश्वरस्यैव तथात्वेन लोकयात्रामतया तथावस्थानात् । शास्त्रमपि३ वा व्यवहार- गामिसंस्कारोपदेशकं न शिवतत्त्वभेदाय, तेनैवेश्वरेण४ तथाग्निसंस्कारादिः १ ननु चास्तु सर्वत्र तस्यैव व्यवस्थितत्वादैक्यम्, अस्तु च व्यव- हाराय संज्ञाकरणमात्रं, तथापि यदुपरोधात्संज्ञाकरणमात्रमायाति सोऽपि कश्चिद्यद्यपि आभासमानत्वात्तन्मयमेव तथापि नाममात्रभेदोऽस्त्येवेत्यत आह व्यवहार इत्यादि । २ यत्राविद्या नो इति पर्युदासाश्रयेण न निषेधे तात्पर्यं किंतु स्वयं व्यवहारात्मकाविद्यालक्षणं न भवतीत्यर्थः, तदाह तथात्वेति । ३ ननु चास्तु संसारव्यवहारस्तदात्मकत्वादपृथग्भूतं व्यव- हारार्थं पृथग्भूतं कल्पितं विपर्यस्तैरिति च यद्यप्यस्ति तथापि तदर्थं शास्त्र- नियमेनालं, कृतश्च संसारव्यवहारं सत्यमिति गमयति इत्याशंक्याह शास्त्र- मिति । अयं भावः—यावद्धि व्यवहारः सत्यभूतस्तावत्तदर्थं शास्त्रमपि सत्यमेव तन्निरासे तस्यापि न नियम इत्यर्थः । ४ ननु च किमिदमुच्यते ,तथात्वेनेश्वरस्थितिः' इति । यदि च तथात्वमेव तर्हि न व्यवहार- व्यपदेशोऽपि, व्यवहारव्यपदेशे च न तथात्वव्यपदेश इति पक्षान्तरं समर्थयति तेनैवेश्वरेणेति । इदं हि स्वातन्त्र्यवादमाश्रित्य समर्थितं, स्वातन्त्र्याद्यथा संस्कारादि कल्पितं न परमार्थसत्, तथा तदनुवर्तनमपीति पूर्वस्मात्पक्षा- दाधिक्यमत्र सूक्ष्मधियामेवागन्तव्यम् ॥

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८६ कल्पितः, तथा च तस्यानुवर्तनं कल्पितम्। ततस्तदिच्छात्मकमेतद्रूपमेव१ नाशुद्धिं भेदं वा शिवतत्त्वस्योपस्थापयति ॥ हेमपिण्डे२ हेमतैव स्याच्चेन्न मुकुटादिके ॥ ४९ ॥ युज्यते वक्तुमेतत्तदनित्यत्वं३ च यत्स्मृतम्। सत्कृतौ तद्विनिर्णयं या चोल्लङ्घनचोदना ॥ ५० ॥ नियमानुप्रवेशाय शिवे चोल्लङ्घनेन किम्। भेदश्च जगद्रूपत्वे युज्येत वक्तुं, यदि हेमपिण्ड४ एव हेमता स्यात् न तु मुकुटादौ५। एवकारो हेमपिण्डस्यानन्तरं द्रष्टव्यः। यच्च भावानां नाशित्वात्तदात्मनः शिवतत्त्वस्य नाशित्वं चोद्यत्वेन स्मृतं तत्सत्कार्य६- वादसमर्थनात् निर्णेष्यते। यच्च पादलङ्घननिष्ठीवनादि सर्वत्रात्मनि शिवे परिहार्यत्वेन चोदितं तत्तदात्मकनियतिशक्तिकृतनियमरूपधर्माधर्मानु- प्रवेशफलसंसारव्यवहारसंपादनाय। वस्तुतश्च शिवतत्त्वे७ तेनोल्लङ्घनेन किं दुष्यति न किंचिदित्यर्थः ॥ १ तदिच्छात्मकमेतद्रूपमेवेति पक्षद्वयप्रधानमभेदमेकमेव वस्त्विति मन्तव्यम्। २ ननु चास्तु यत्राहंपरामर्शो 'गोः स्तनापातातः क्षीर' इत्यादिनीत्याऽनवच्छिन्न एव तत्राभेदे शिवाद्वयत्वं, यत्र तु स्फुट- मिदन्तानिर्देशे सावयवत्वादिविकारवत्त्वं तत्र कथमित्याशङ्काशान्त्यर्थ- माह हेमपिण्ड इत्यादि। ३ ननु च यदि सर्वं भावमण्डलं तदात्मक- मेव यच्छिवतत्त्वस्यानित्यकार्यपेक्षया नित्यत्वं तत्कथं तथा तन्ममत्वे तस्याप्यनित्यतेत्यत आह तदनित्यत्वमिति। ४ अवयवविकारमप्राप्ते। ५ अवयवविकारमापन्ने। ६ अयं भावः--यदि कार्यमुत्पत्त्यनन्तरमेव सत्स्यात् पूर्वं चासत्स्यात् तर्हि चासत्कार्यत्वात्तस्यासत्त्वे शिवतत्त्वस्य विनाशित्वं प्रसज्येत, पूर्वं च तत्सदेवेति कस्य विनाशित्वं, तदेतदीश्वर- प्रत्यभिज्ञायामुक्तम्-- 'चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः। योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥' इति। ७ शिवतत्त्वे हि धर्माधर्मयोरभाव एव, तच्च लङ्घनादिकमधर्माय ततो न कर्तव्यं, धर्मोत्पत्तिर्हि तथा स्यात्। धर्माधर्मसंसारव्यवहाराभावे यथाऽलङ्घनेन न धर्मेण तस्योपयोगस्तथा लङ्घनेनाधर्मेणापि।

६० शिवदृष्टिः [ आ०-३ एवं¹ प्रवर्त्तने तस्य न निमित्तसमुद्गमः ॥ ५१ ॥ यदि स्वरूपविभ्रंशाच्छाक्तरूपादिकल्पना । तद्वक्तव्यं निमित्तत्वं किमर्थं रूपमुज्झति ॥ ५२ ॥ यावता सर्वरूपाणां तत्स्वरूपस्वरूपिता । जननपरिणामादिरूपतां विनैवैवमवस्थानमात्रलक्षणजगत्स्थिति- प्रवर्त्तने तस्य न निमित्तं² चोद्यम्पूर्वकार्याभावात् । यदि हि शान्तरूपस्य शाक्तादिरूपान्तरग्रहणं शिवतत्त्वत्यागे स्यात् तत्कस्यचिदर्थस्यात्र निमित्तं वक्तव्यं प्रष्टव्यं किमर्थमयं रूपमुज्झतीति । यावता शान्तिरूपतायां शिवे जगद्रूपतयापि च शिवस्वरूपेणैव स्वरूपवत्त्वम् ॥ शक्तित्रयस्वरूप³ त्वं सर्वं यस्यास्त्यवस्थितम् ॥ ५३ ॥ निमित्तं⁴ कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् । अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥ ५४ ॥ पुरा शान्तस्वरूपत्वं पश्चात्तादृगवस्थितिः । शान्ते⁵ शिवत्वं स्थूलेऽपि शिवत्वं यत्र वर्णितम् ॥ ५५ ॥ तत्र का शान्तता ब्रूहि शान्ते किं वस्तुता न ते । वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥ ५६ ॥ इच्छादिशक्तित्रयमयचिदात्मकत्वं सर्वस्यामवस्थितौ⁶ यस्याव- स्थितमस्ति तत्र निमित्तं कल्प्येत, काक्वा योज्यते किं कल्प्येत नैव कल्पनीयमित्यर्थः । तत्र हि कल्प्यतां निमित्तं यत्रातद्रूपत्वे तद्रूपतोद्भवः । १ ‘तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ।’ इति, तत्समर्थयति एवमिति । अयं भावः—प्रवृत्तिकारी हि तदा प्रवृत्तिं करोति यदि स्वस्मात्किंचिदाधिक्यादिकमनुभवति, यदि च स्वयमेव स तथाभूतः केन निमित्तेन प्रवृत्तिं करोतीति । २ स्थितिप्रवर्त्तनेऽपि यतस्त- स्यैवमवस्थानमेव न जननपरिणामादिविकारस्ततो न निमित्तकलना कापि, यदि ह्याधिक्यं स्यात्तर्हि निमित्तकलनापि स्यात् । ३ इच्छादिसामरस्या- त्मकं । ४ भ्रूक्षेपपूर्वाभाषणेन योज्यम् । ५ अजगद्रूपे, शिवत्वं पञ्चशक्ति- सामरस्यात्मकमभेदतत्त्वम् । स्थूले—जगद्रूपे । ६ जगद्रूपस्पन्दक्षोभेऽपि ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६१ अथैवं चोद्यते-पूर्वं १ शान्तरूपत्वमजगद्रूपत्वं पश्चाज्जगद्रूपतेत्य- पूर्वताया निमित्तं वाच्यमिति । तन्न, यत्राभ्युपगमे, शान्तेऽपि शिवत्वं स्थूलेऽपि जगद्रूपत्वे शिवत्वमेव वर्णितं तत्र शान्तता शिवरूपता का स्यात्, ब्रूष्ट्येतत् । शान्तमपि हि तव वस्तु, वस्तु च सत्तामयं, सत्ता भवत्ता भवनकर्तृता, स्वातन्त्र्यात्मकं च कर्तृत्वं चिद्रूपस्येच्छादिशक्तिमत इति सर्वं वस्तु शिवः ॥ ५६ ॥ अङ्गाररूपे १ किं वह्नौ वह्निता न क्रियात्मके । ज्वालादिकेऽथ सावस्था २ निष्क्रियाज्ञानरूपिणी ॥ ५७ ॥ निरिच्छा न च शक्येत वक्तुमेवं कदाचन । अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥ ५८ ॥ नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तः काचन स्थितिः ॥ ५९ ॥ अङ्गाररूप एव वह्नौ किं वह्निता न तु ज्वलनसंतपनादिक्रिया- विष्टे । अथ तत्र ३ वह्निरेवं शिवोऽपि तद्भावभेदाविष्टोऽपि शिव एव । क्रियावस्थामुखेनैतत्कथितम् । अथ सक्रिये शक्तिसंभवात् शिवतास्तु शान्तता ४ तु निष्क्रिया ज्ञेयज्ञानरहिता कार्याकरणात् चिकीर्षालक्षणेच्छा- शून्या च तेन न शिवः, नैवं शक्यते वक्तुं कदाचन सर्वदा भवनक्रिया- विरहात् । स्थूलक्रियाविरहे शान्तावस्थायामपि यदि शिवः स्थितोऽभ्युप- गम्यते तदस्ति स्थित इत्येषा भावस्थानादिरूपा क्रिया किं न भवति, भव- त्येव । क्रिया च कर्तृस्वरूपभूता, कर्ता च स्वतन्त्रः चेतन एव, स्वेच्छात्तः प्रवृत्तिः स्वातन्त्र्यं यतः, यतोऽस्ति स्थित इत्यत्र बुभूषातिष्ठासालक्षणेच्छा- १ यथा ज्वलनसंतापादिवत्त्वमेव वह्नित्वं तदभावे न वह्नित्वमिति स्थितं तथा भावशक्तिमत्त्वमेव शिवत्वं न तदभाववत्त्वमित्यर्थः । २ अन्ये शक्ति- मत्त्वे सक्रियत्वे शिवत्वं यतोऽस्ति ततश्च ततोऽन्या सूक्ष्माऽविकल्पा दशा- वश्यं गवेषणीया, अन्यथा हि ज्ञानज्ञेयसहितत्वाद्विकल्प्यमेव परतत्त्वमपि स्यात् इत्यतस्तत्र शिवत्वमपि नानुमन्तव्यम् । मतं चेद्विकल्पमध्य एव पतेदित्याह सावस्थेति । ३ तत्र ज्वलनक्रियाविशिष्टे । ४ यदुक्तं 'शान्तेऽपि शिवत्वं स्थूलेऽपि शिवत्वं तेन नात्र निमित्तकलना' इति । शान्तत्वे शिवत्व- मुत्पुंसयितुमाह निमित्ततापादनात्थं शान्तता त्विति ।

६२ शिवदृष्टिः [ आ०-३ स्त्येव। यावच्च तथा कर्तुं भवितुं स्थातुं वा न जानाति तावत् किं क्रिया भवति। भवतीत्यादि तिङन्तनिर्देशः। तस्मात् ज्ञातव्यं यदुत नेच्छादिशक्ति- रहिता काचन स्थितिः कस्यचित्। इच्छादिशक्तिमत्ता च शिवता, घटोऽस्ति हिमालयोऽस्ति, जगदस्तीति च यथा नाधिक्यं शिवतायाः करोस्ति तथेश्वरप्रत्यभिज्ञायां विचारितम् ॥ ५६ ॥ अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥ ६० ॥ अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता । सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥ ६१ ॥ अथात्र भावानां परस्परतो वैचित्र्यं दृश्यते तच्छिवे चिदेकरूपे कथं संभवेत् । तत्रापि शिवस्यैव तद्विचित्रस्वरूपत्वं भावानां यदन्योन्य- वैचित्र्यं, तेषां च घटपटादीनां वैचित्र्यमपेक्ष्य तस्य तेभ्यस्तद्वशात् विचित्रता भाति चिदेकरूपस्यापि सतः । सर्वं च चित्स्वरूपत्वेन शिवात्मकं यथा न्यायानुसारेण तथाग्रतो वक्ष्यते ॥ ६१ ॥ जलाहरणशक्तश्च घटो यदि न भण्यते । घटः केवल एवात्र तदेवंविधमुच्यताम् ॥ ६२ ॥ यदि चात्र जगत्युदकाहरणशक्तो घटो नोच्यते अपि तु केवलस्त- त्क्रियावेशशून्य एव घटः, तदेतत्सद्दशमेवं केवल एव शिवो न जगद्रूप इत्येतदप्युच्यतां, यावता नैवं¹ तत्सर्वदापि शिव एव ॥ ६२ ॥ नानावादैर्नो विरोधः कथनीयमिहाग्रतः । उक्तं² वा कालपादादावागोपालाङ्गनादिना ॥ ६३ ॥ १ उदकाहरणशक्त एव । २ आदौ स्वशास्त्रत आह उक्तं वेति । ननु कथं नानावादैरविरोधः सर्वत्र भिन्नभिन्नार्थकल्पनात् ततश्चाह उक्तं वेति । अयं भावः--आप्तप्रणीतत्वं ह्यागमत्वं, तच्चादौ तन्त्रागमानां साक्षाद्भगवच्छिवभट्टारकोक्तत्वात्, श्रुतीनामप्यनादित्वकथनादस्त्येव, इतिहासपुराणादिषु तदर्थविधारणादस्त्येव प्रमाणत्वं, तस्मादेकस्यैवा- शेषजगत्प्रसूतिहेतोर्महाविभूतेरीश्वरस्य सृष्टिस्थितिप्रलयकार्यविभागयोगा- द्ब्रह्मेति विष्णुरिति रुद्र इति व्यपदेशः, अन्येषां पुनरनाप्तप्रणीतत्वान्न प्रामाण्यम् । तदेतत्त्रिधैवागमप्रामाण्यं संवादयति उक्तं वेत्यादिना ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६३ तदैक्यं¹ खेटपालोऽपि प्राह या काचन स्थिता । शक्तिः पदार्थजातस्य देवदेवस्य साखिला ॥ ६४ ॥ शक्तिशक्तिमतोरुक्ता सर्वत्रैव ह्यभेदिता । एको³ रुद्र इतीत्यादि श्रुतावुक्तं तथा परः ॥ ६५ ॥ पुरुषः सर्वमेवेदमितिहासादिषूदितम्⁴ । महेशस्याष्टमूर्तित्वं यावत्पार्थिवमूढता ॥ ६६ ॥ साऽरोदीदिति⁵ वेदेऽस्ति नार्थवादो निरर्थकः । विध्यङ्गत्वेन चेत्सत्या नासत्यस्याङ्गता स्थिता ॥ ६७ ॥ अर्थवादादपि फलं रात्रिक्रतुषु दर्शितम् । नानादर्शनैश्चास्मिन् शैवाद्वैते नो विरोध इत्यग्रे कथनीयम् । स्व- सिद्धान्त एव वा श्रीकालोत्तरादावुक्तमेतत्-- 'आगोपालाङ्गनाबाला⁶ नित्यमेव ब्रुवन्ति तम् ।' इत्यादिना मन्त्रात्मशिवरूपत्वं जन्तूनाम् । गुरवोऽपि शिवैक्यमुपदिशन्ति । तथा च खेटपालगुरुः प्राह 'या काचन' इत्यादि । यतश्च देवदेवशक्तिरेव पदार्थशक्तिरुक्ता, शक्तिशक्तिमतोश्च न भेदस्ततो देवदेव एव पदार्थ १ गुरुत आह तदैक्यमित्यादिना । २ सर्वेषामत्राविरोधमाह । ३ श्रुतिप्रमाणमाह । ४ अविगीतशिष्टप्रामाण्यमाह । ५ विधिरूपस्य वाक्यस्य साक्षादनुष्ठेयेपरत्वादस्तु प्रामाण्यमर्थवादरूपस्य पुनः साक्षात्तत्रा- संबन्धान्न तत्र प्रामाण्यमिति केषांचिद्विधिपरत्वात्केषांचिदर्थवादपरत्वान्न परस्परं तयोः संबन्ध इति कथं सर्वत्रैक्यवाद इत्याशङ्क्याह सोरोदीदिति । ६ 'उतेनं गोपा अदृशन्नुतेनम उदहार्यः ।' इति श्रुतिश्च । महार्थमञ्जर्यां च-- 'यं जानन्ति जडा अपि जलहार्योऽपि यं विजानन्ति । यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः ॥' इति ।

३. पञ्चम-षष्ठ आह्निक: वैशेषिक, सांख्य, बौद्ध एवं वेदान्त मत समीक्षा

६४ शिवदृष्टिः [ आ०-३ इत्युक्तं भवति । यदिदं "इदं स एको१ रुद्रः" इति च रुद्रैक्यम् । तथा 'परः पुरुष२ एवेदं सर्वं' इति चोक्तं वेदे । पुराणेतिहासादिषु३ चाष्टमूर्तित्वमुक्तं महेश्वरस्य यत्रात्यन्ततामसपार्थिवतत्त्वरूपेण मूढतापि स्वरूपमेव ॥ "सोऽरोदीत्४" इति च रुद्रशक्तिनिर्वचनेऽपि वेदेनोक्तं तदैक्‍यम् । अर्थवादोऽयमसत्यार्थो५ विध्यनुष्ठानतात्पर्यादित्येतदपि न युक्तम् । अर्थ६- १ 'एको रुद्रोऽवतस्थे न वै द्वितीयो कश्चन ।' इति । तथा— 'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु । यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः ॥' २ 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।' इति । ३ यथा सिद्धस्तुतौ— त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेव त्वयि परिणतां बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥' इति । अत्रापि भगवतो महेश्वरस्यैकात्म्यमेव सर्वत्र दर्शितम् । तथाहि पञ्चभूतान्येव सर्वं विकारावस्थापन्नं जगदिति स्थितम् । तत्र यत्सूक्ष्मं प्रमाणप्रमेयात्मकमवस्थायुगलं तदर्कसोमशब्दाभ्यामुक्तं, यतोऽत्रैवाहन्ते- दन्तायुगलकमपि सदाशिवादिव्यपदेशेन विश्राम्यति किं पुनरन्यत्र कथनीयं यत्र संहृतं पार्थिवं घनं तत्त्वमपि शिव एव अत एव तस्यान्तेऽत्र व्यपदेशः । अभेदमेवैषामाहात्मेति, एषां सर्वेषां स्पन्दविशेषाणां यदभेदात्मकं प्रत्यग्रूपं तदेव भवानस्तीति किमन्यद्यत्र भवत्स्वरूपापह्नवः । ४ 'सोऽरोदीद्यदस्य रुद्रस्य रुद्रत्वम्' इति । अयमर्थः—यत्तस रुद्रोऽरोदीत् सुस्राव शक्तिद्वारेण विश्वरूपतयास्थात् तदस्य रुद्रस्य रुद्रत्वं रुद्राभेदमयत्वम् । ५ अप्रवृत्त- प्रवर्तनं विधिः, तथा साक्षादुपदेशकत्वं विधिः । प्रवृत्तस्यान्वाख्यानमर्थवादः, तथा परम्परोपदेशकत्वमर्थवादः । अत्रार्थवादे साक्षादुपदेशाभावमा- शङ्क्यार्थवादोऽयमिति । विध्यनुष्ठितस्यैव ह्यर्थस्यार्थवादः समर्थकस्ततश्च साक्षादनुष्ठानाभावान्नार्थवादस्य सत्यत्वम् । ६ यद्यर्थवादस्य विध्यङ्गतया सत्या तर्हि कथं स्वयमसत्यार्थपरत्वमित्यर्थः । यथाहि 'वायव्यं श्वेतमज-

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६५ वादस्य या विध्यङ्गता सत्या सा कथमसत्यार्थस्य स्यात् । स्वार्थमभिदधान एव हि अर्थवादो भवति, न च वेदेऽपि मिथ्यार्थता, रात्रिक्रतुषु¹ चार्थवाद- प्रामाण्येनैवानुष्ठेयत्वात् फलं प्रदर्शितं जैमिनीयैः ॥ ६७ ॥ बन्धमोक्षौ न विद्येते सर्वत्रैव शिवत्वतः ॥ ६८ ॥ विज्ञानमीदृक्सर्वस्य² कस्मान्न स्याद्विमोहिता । सैवैषा सा च संसारो बन्धमोक्षावतः स्थितौ ॥ ६९ ॥ मालभेत भूतिकामः’ इति विधिः । ‘वायुर्वे क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यर्थवादः । तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति, अर्थवाद- शब्दाश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते, क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागं प्रदायैश्वर्यं प्रयच्छतीत्युक्ते रामायणभारतादाविव कश्चित्प्रतीयते न त्वनुष्ठेयं किंचित्, अत एकवाक्यत्वाभावान्नास्त्यर्थ- वादस्य प्रामाण्यमिति विधिप्रामाण्यवादिन आहुः । अत्राहुर्जैमिनीयाः, माभूद्विध्यर्थवादयोः पदैकवाक्यता, वाक्यैक- वाक्यता तु भवत्येव । विधिवाक्यं तावत्पुरुषं प्रेरयितुं विधेयार्थस्य प्राश- स्त्यमपेक्षते, अर्थवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरि- गृहीतत्वेन पुरुषार्थमपेक्षते, ततः पुरुषार्थपर्यवसितविध्यपेक्षितप्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते, यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेतेति वाक्ययोरन्वयः, तस्मादर्थवादः प्रमाणमिति । १ रात्रिक्रतुष्विति, तत्र ह्यर्थवादेनैवार्थः पूर्यते इति न प्रतीत्यङ्गत्वमेवार्थवादस्य कार्याङ्गत्वमपि । यथा ‘प्रतिष्ठन्ति ह वा एता रात्रीरासत’ इत्यश्रूयमाणाधिकारस्य रात्रिमात्रविधेरधिकारांशोऽ- र्थवादादेव लभ्यते । तत्र हि ‘प्रतिष्ठाकामाः सत्रमासीरन्’, इत्यर्थवाद- वशाद्वाक्यार्थः । क्वचिद्विधिवाक्यस्यार्थसन्देहेऽर्थवादात्मकाद्वाक्यशेषात्त- न्निश्चयो भवति । यथाक्ताः शर्करा उपदधातीत्यञ्जनद्रव्ये घृततैलवसादि- भेदेन संदिह्यमाने ‘तेजो वै घृतम्’ इत्यर्थवादाद्घृतेनाक्ताः शर्करा उपाधेया इति गम्यते । २ यदुक्तं-- ‘सर्वभावशिवत्वेन नास्तिता बन्धमोक्षयोः ।’ इति दूषणं तदपि दूषयति विज्ञानमित्यादि । अयंभावः--सर्वभावशिवत्वे

६६ शिवदृष्टिः [ आ०-३ सर्वस्य शिवत्वे बन्धमोक्षाभावात् शिवोऽहमिति सर्वस्यैव किमिति ज्ञानं न भवतीति। अत्राप्युच्यते-यथा सैवैषा विमोहिता, एवं-- 'अज्ञानलक्षणा सा च संसारो बन्ध उच्यते' इति स्थितावज्ञानरूपौ बन्धमोक्षौ ॥ ६६ ॥ विभिन्नशिवपक्षे १ तु सत्ये दार्ढ्यं २ परत्र नो। प्रतीतिमात्रमेवात्र तावता बन्धमोक्षता ॥ ७० ॥ यदा तु सर्व एव भावाः कर्तृत्वादेच्छादिशक्तियोगात् प्रत्येकं शिवरूपा इति पक्षः, तदा तत्र विभिन्नशिवपक्षे सत्ये यथा स्थितस्यार्थभेदस्य दार्ढ्यम्। यदा त्वेकशिवत्वमेव तत्त्वं तदा तस्मिन् पक्षे न दार्ढ्यं भेदस्य, अपि तु शिवाभेदप्रतीतिमात्रं मोक्षस्तदप्रतीतिस्तु ३ बन्ध इति तावता प्रतीतिमात्रेण, न तु वस्त्वन्यथात्वे बन्धमोक्षयोर्बन्धमोक्षता ॥ ७० ॥ बन्धमोक्षयोरभेद इति पक्षे समर्थयति ईदृग्विज्ञानं सर्वस्य कस्मात् न भव- तीति, शिवोऽहमिति सर्वस्यैव प्रतीतावस्त्वेव बन्धमोक्षाभाव इति पृष्टे सिद्धान्तवादी एनमेव पक्षं तदुक्तिदोषोद्भावनपूर्वमर्धोक्तयैवोत्तरपक्षेण समर्थयति--यथा 'विज्ञानमेतत्सर्वस्य कस्मान्न स्याद्विमोहिता।' अय- म्भावः--यत्सर्वस्य शिवोहमिति भेदज्ञानं सैव विमोहिताज्ञानलक्षणो भ्रमः, तथा च बन्धनिरासार्थं मोक्ष एव ॥ १ ननु किमिदं भवद्भिरपूर्वदोषारोपणं क्रियते-- 'विज्ञानमीदृक्सर्वस्य कस्मान्न स्याद्विमोहिता।' इति। सर्वस्याहमित्यखण्डपरिपूर्णाहन्तापरामर्शे विमोहिता क्वान्यत्रा- विमोहित्वं स्यादित्यस्यैव तात्पर्यं तावद्विवेचयति विभिन्नेति। इदमत्र तात्पर्य- यदि सर्वस्येत्यत्र भिन्नापेक्षया सर्वनामनिर्देशस्तर्हि भेदेनानेकत्वेऽर्थभेदोऽ- स्त्येव तदपेक्षया मोक्षः इति बन्धमोक्षव्यवस्था स्थितैव। अथ सर्वशब्दो न भिन्नप्रमात्रपेक्षया किंतु सर्वस्यैकमेव विज्ञानात्मकमभेदसारमहमिति विमर्शनं तच्छिवाभेदप्रत्यवमर्शस्य मोक्षप्रतीत्या बन्धस्याप्यनुषङ्गोऽस्त्ये- वेति सिद्धं समीहितमस्माकं, परमार्थतो वस्तुवृत्त्या न किंचनापि बन्धमोक्ष- व्यपदेशः प्रतीतिमात्रेणास्तीति ॥ २ परमार्थभेदेऽर्थभेदस्यैव दार्ढ्यं भेद- दार्ढ्यं। परत्र एकत्वपक्षे। ३ तदयमर्थः--प्रतीतप्रतीतिभ्यां मोक्षबन्ध- व्यवस्थाया व्यवस्थितत्वाद्यदुक्तं नास्तिता 'बन्धमोक्षयोः' इति, तदसिद्धं।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६७ नासत्ये१ सत्यबुद्धित्वखण्डनान्नास्ति काचन । कथनं सर्वसाम्याय विवादिहननाय च ॥ ७१ ॥ न चाप्यत्र भेदेष्वसत्येषु सत्यबुद्ध्या भ्रान्तिरूपा खण्डनास्ति वेदोक्तवत्२, यतो भावानां सर्वेषामेव शिवरूपत्वे स्थिते बहुत्वमेकत्वं३ वा । यत्पुनः४ शिवतत्त्वेनैक्यस्य कथनं तत्सर्वेषां शिवतत्त्वेन साम्यायो- त्कर्षापकर्शनिवारणाय, यदि वा ये शिवत्वं भावानां न प्रतिजानते तद्विवादि- पराजयाय ॥ ७१ ॥ तथा५ तथा शिवावस्था स्वेच्छात्तः स तदात्मकः । तदात्मत्वे नास्ति बन्धस्तदभावान्न६ मोक्षणम् ॥ ७२ ॥ भेदेऽपि तथा भेदरूपेण शिवस्यावस्थानं स्वेच्छावशात्, स च भेदः शिवात्मकः । एवं७ च भेदस्य शिवात्मकत्वे नास्ति बन्धस्तदभावात् तदपेक्षो न मोक्षोऽपि ॥ ७२ ॥ न च बन्धमोक्षव्यवस्थानच्छिन्नाद्वयतात्पर्यं खण्ड्यते प्रतीतिमात्ररूपत्वाद- बन्धमोक्षयोर्न वस्त्वन्यत्वसंभवः । १ अस्तु प्रतीतिमात्ररूपत्वमेव बन्ध- मोक्षयोरस्तु च वस्तुतः शिवाद्धयमयत्वमेव तथापि यदि प्रतीतिमात्रसत्त्वं तदेव र्तहि प्रमाणीकर्तव्यं, यदि च शिवाद्धयमयत्वमेव तर्हि तदेव कोऽयं नयः वस्तुद्वयत्वकथने इत्याशङ्कां निवर्तयितुमाह नासत्य इति । २ वेद- प्रक्रियायां हि संकोचतारतम्यकथनात् 'नेह नानास्ति किंचन' इत्यादि- वाक्यैरसत्येषु भेदेषु सत्यबुद्धिर्भ्रान्तिरेवोक्ता । अयं भावः--अस्मन्मते सर्वथा शिवैकरूपत्वं प्रतिपादनीयं तच्च भावानामेकत्वमस्तु अनैकत्वं वास्तु न केनापि खण्ड्यत इति । ३ यद्यपि वस्तुतः शिवरूपत्वे सर्वेषां बहुत्वमेकत्वं वा न विरोधावहमिति तथात्वकथने न कोऽपि दोषः । तथाप्य- द्वयवादोक्तिः, शिवतत्त्वे न कस्यचिदुत्कर्षः नापि कस्यचिदपकर्ष इति कथनार्थम् । तथा बहुत्वैकत्वकथने पदार्थस्वरूपमेव तथा तथा स्यादिति पदार्थवाद एवाभ्युपगतो भवेदित्यर्थः । ४ ननु यदि बहुत्वैकत्वकथनं तुल्यमेव र्तहि कृतमद्वयवादेनेत्याह । ५ तदेवं वाद्युन्मथनपूर्वं बन्धमोक्ष- व्यवस्था दृढीकृता, शिवाभेदतात्पर्यं च तेनैव सिद्धान्तितम् । अथेदानों परमार्थतो व्यवहारेऽपि शिवाभेदं समर्थयति तथा तथेत्यादिना । ६ बन्ध- पूर्वत्वान्मोक्षस्य । ७ अत्रापि च स्फुटं बन्धमोक्षनिषेधेऽपि बन्धमोक्ष- व्यवस्था व्यवस्थितैवेति बोध्यं तथा तथेति कथनात्, स्फुटीभविष्यति चेतत् ।

६८ .शिवदृष्टिः [ आ०-३ किमर्थं गुरुशास्त्रादि चेत्थं१ तदवस्थितेः२ । देवस्य३ शास्त्राद्बोधेत किं प्रयोजनमेव च ॥ ७३ ॥ किमर्थं४ भवतारब्धं शास्त्रं बोधाय कस्य वा । तथा भेदरूपतया शिवस्यैवावस्थितेर्हेतोर्मोक्षाभावात् किमर्थं गुरुशास्त्रानुष्ठानादिकम्५ । नहि देवस्य नित्यप्रबुद्धस्य शास्त्रेणोद्बोधनं सप्रयोजनम् । आस्तामन्यानि शास्त्राणि, त्वमेव शिवैक्यवादी वा किमर्थं शास्त्रमारब्धवान् कस्य बोधाय ॥ ७३ ॥ स एवेत्थं स्वेच्छयास्ते तत्कर्तृत्वेन बोध्यतः ॥ ७४ ॥ स एव बुद्धरूपत्वे तथा भवति तत्क्षणम् । स एव संप्रजायेत तदनुष्ठानतत्परः ॥ ७५ ॥ फलं वा तदनुष्ठाने स एव हि तदा भवेत् । देव एवानेन प्रकारेण स्वेच्छया निष्प्रयोजनमास्ते । तदेव दर्शयति— तदस्मदादिशास्त्रकर्तृत्वेन तथा बोध्यतो बोध्यं शिष्यरूपमासाद्यास्ते । तथा तस्मिन्नेव काले प्रबुद्धरूपत्वे वा स्थितो भवति । तथा शास्त्रा- नुष्ठानपरः संपद्यते । तथार्थकामादिफलरूपत्वेनापि स एव स्वकाले भवति ॥ ७५ ॥ वादित्वप्रतिवादित्वे कस्माच्चेतस्य तत्स्थितेः ॥ ७६ ॥ व्यवहाराय वा सर्वं व्यवहारो न वस्तुगः । स्वरूपं वस्तुगं विद्धि व्यवहारो न जातुचित् ॥ ७७ ॥ तदीश्वरो व्यवस्थानाद्वस्त्वभासरूपतः । ३ तथेति भेदरूपतयापि तस्य शिवभट्टारकस्य । ४ दीव्यति क्रीड- तीति देवः, हर्षानुसारी स्पन्दः क्रीडा । तथा सदा द्योतमानोऽपि देवः । ५ अपूर्वबोधनार्थं हि शास्त्रप्रवृत्तिः, तथा च सप्रयोजनता । ६ अन्येषां हि द्वैतकथनाज्ज्ञानार्थमस्तु तत्र प्रवृत्तिः, भवतां तु तदभावान्न युक्तेत्याह किमर्थमिति । ७ न च भवतां तत्प्रकटीकरणार्थमपि तत्र प्रवृत्तिः, तथा च स्वतन्त्रस्य देवस्य स्वातन्त्र्य हानिः स्यात् ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६६ तवैक्ये दर्शनभेदाभावात् वादित्वं प्रतिवादित्वं च कुतः, यदुक्तं ‘विवादिहननाय’ इति, तदेतदपि तस्यैव तथा स्थितेः । लोकव्यवहाराय वा सर्वं शास्त्रवादिप्रतिवाद्यादि । लोकव्यवहारश्च तद्भेदाख्यातिमयो न वस्तुगतः । यत्पुनः स्वरूपेण प्रकाशते तच्छिवरूपवस्तुवात्मकमेव, व्यवहारस्तु न कदाचित् वास्तवोऽपि तु भ्रम एव, अवस्त्वपि ईश्वरात्मैवा- वस्त्वभासरूपेण तस्यावस्थानात् । अत एव ईश्वरप्रत्यभिज्ञोक्तनीत्या तदवस्त्वपि प्रकाशमानं चिद्रूपमेव, केवलं बाह्ये१ प्रकाशनाभावादवस्तु उच्यते ॥ ७७ ॥ तदाह— सर्वमेकेन रूपेण यद्विचायं तथाग्रतः ॥ ७८ ॥ सर्वं वस्तु अवस्तु च शिवरूपं यतस्तथाग्रे विचारणीयमेव ॥ ७८ ॥ धर्माधर्मैश्च२ संबन्धस्तथा तच्छिवसंस्थितेः । तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः३ ॥ ७९ ॥ तयोः फलेन न्यूनतया४ वा विपरीतेन फलेनाफलेन योगः । अथवा फलेनायोगोऽथवापि अधर्मस्याफलेनानिष्टेन फलेन योगः, तेन हेतुना युक्तता न्याय्या शिवस्य तथा स्थितेर्हेतोः, सर्वथा यद्यत्प्रतिभासते तच्चिद्रूपशिवात्मकमेव ॥ ७६ ॥ निमित्तसमवायादिवैचित्र्यात्तद्विचित्रता । कारणस्यैकरूपत्वे न दोषस्त्रितयात्मता ॥ ८० ॥ न राजाज्ञा समादिष्टा स्वयं वा स निमित्तकम् । समवायि तदिच्छैव तद्योगः सहकारणम् ॥ ८१ ॥ तस्यैव वा त्रिरूपत्वं व्यपदेशात्तथाविधम् । १ बाह्य इत्यनेन बाह्य एव तस्य भ्रमतवमवस्तुत्वं वास्तु स्वरूपे न भ्रमतवं नाप्यवस्तुत्वमित्यर्थः । २ यच्चोक्तं— ‘धर्माधर्मौ न संबद्वौ शिवस्य न तयोः कृतिः । ततश्च शिवमद्वैतं बाध्येताकृतार्थता ॥’ इति, तच्च परिहरति धर्मैत्यादिना । अत्रापि पूर्वोक्तं सर्वं व्यवहारादिक- मनुसर्तव्यम् । ४ ‘अभावे स्वल्पभावे’ इति नञर्थमाश्रित्य विवृणोति न्यूनतया वा विपरीतेति ।

शिवस्यैवैकस्य कारणत्वे निमित्तसमवाय्यसमवायित्ववैचित्र्येण तस्य विचित्रता त्रितयात्मताख्या न दोष उक्तन्यायेन, यतो राजाज्ञा न समा तुल्योपदिष्टा, अपि तु राजाज्ञारूपसाम्येऽप्यन्यथा भेदः। तद्वत् तन्तुरूपेण संयोगरूपेण च स निमित्तमप्यास्ते। अथ वा स्वयं स ताव- न्निमित्तकारणं, तदिच्छा समवायिकारणं, घटादिवस्तुनः सत्तेच्छान्वयात् स एव चावयवसंयोगः सहकार्यसमवायिकारणमित्यर्थः। अथवा तस्यै- कत्वेऽपि त्रित्वं यथोक्तप्रकारं व्यपदेशात् व्यवहारात् सर्वभेदव्यवहारस्या- भेदाख्यातिरूपत्वम् ।। ८१ ।। न¹ पृथिव्यादिके तस्मिन्² कल्पना संप्रवर्तते ।। ८२ । तथात्वेनैव³ क्लृप्तत्वात्तदेतत्कल्पना⁴ भवेत् । तदेव⁵ तत्कल्पितं किं सत्ये नामास्तु⁶ कल्पना ।। ८३ ।। न च पृथिव्यादिरूपतया प्रतीयमाने भावजाते शिवरूपिता कल्पिता भवति⁷, वस्तुस्थित्यैव⁸ पृथिव्यादिरूपेण९ वा शिवतत्त्वस्यैव क्लृप्तत्वात्१०। अतद्रूपं¹¹ तद्रूपं यदावसीयते यथा मनोराज्यादि, तदा १ यदुक्तं 'पृथिव्यादिकल्पनया कल्पनावान्' इति । यदि मायापरमाण्वादिकारणभावेन तत्तत्कर्तृत्वमस्याभ्युपेयते, तदा भिन्नवस्तुसद्भावात्केन विकल्पतास्य भण्यते। यदि तु तदभावेन कल्पना तर्हि भिन्नवस्तुशून्यत्वेन विकल्प एव, तच्च शून्यप्रायं तदात्मकत्वे शिवतत्त्वमपि शून्यप्रायमेव संबोभवीतीति पूर्वाशयः, तदेतत्समर्थयति नेत्यादिना। २ तस्मिन् शिवतत्त्वे । ३ तस्यैव तत्तद्वैचित्र्येणापि व्यवहारे स्थितत्वात् । ४ अप्रतीयमाने प्रतीयमानत्वम् । ५ शिवतत्त्वनेव पृथिव्यादि कल्पितम् । ६ नामेति परतोषार्थमनुमतिः । ७ यतः-- 'स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥' इति प्रत्यभिज्ञोक्तनीत्या यतस्तत्तद्विभिन्नाभासभावराश्यभावेऽपि सर्वमस्त्येव ततश्च कस्यातद्रूपस्य तद्रूपाभासनं नाम नवमाभासनं कल्पना कल्पितं भवेदिति भावः। ८ परमार्थनयेन । ९ व्यवहारदृशा । १० स्वयं संपन्नत्वात् । ११ पूर्वमनतद्रूपमधुना तद्रूपम् । ननु क्वान्यत्र कल्पितत्वं नामेत्यत आहात- द्रूपमिति, मनोराज्यादावपि संविद एव तत्तदाभासाभासनसामर्थ्यमिति,

अ. ०–३ ] उत्पलदेवकृतवृत्त्योपेता १०१ तत्कल्पना कल्प्यमानं भवेत् । यावता १ साक्षाच्छिव एव सर्वमिति वस्तु- स्थित्या पृथिव्यादि शिव एव, शिवत्वेन किं२ कल्पितं भवति न भवत्ये- वेत्यर्थः । अथ सत्यतस्तस्मिन्नेव३ कल्पनेति कथ्यते तद्वस्तु, अतस्तत्र कल्पनेति नामकृतिः४ ॥ ८३ ॥ तदेवोदाहरति— कटकेऽस्ति५ सुवर्णत्वं कुण्डले कल्पनास्ति किम् । चित्रवह्नावशोकादौ कल्पना राजते क्वचित् ॥ ८४ ॥ क्लृप्तकल्पनयोर्भेदं ये न जानन्ति नौमि तान् । कटके किं सुवर्णत्वं सत्यं कुण्डले तु कल्पितं, नैवेत्यर्थः । चित्रगते वह्नौ, अशोकपुष्पादौ रक्ते वह्निकल्पना शोभते क्वचिदवसरे७ पृथिव्यादि- रूपेण६ शिवः क्लृप्तः संपन्नः स्वयं स्थित इत्यर्थः । कल्पितं पुनः स्वयं स तथा केवलमिष्यते तेन रूपेणेति क्लृप्तस्य स्वयंकॢप्तेस्तथा संपत्तेः, कल्पनायाश्च स्वयमतथाभूतस्य तथा संभावनामात्ररूपाया ये शब्दार्थत्वे न भेदरूढास्ते वन्द्या इत्युपहासः ॥ ८४ ॥ शिवतत्त्वे८ सानुभवे पश्यन्त्या९ न समानता ॥ ८५ ॥ तत्रापि यदि कल्पितत्वं नास्ति तथाप्येतादृङ्नये तत्र कल्पितत्वं वादि- वादसमर्थनार्थमुपगतम् । १ एकान्तनिश्चयेन । २ यदि हि पृथिव्यादि पूर्वं न समभविष्यत्तदतद्रूपत्वात्तद्रूपावभासे मनोराज्यादिवद्वस्तुशून्यतया कल्पित- मेवाभविष्यत्, न तु पूर्वं नास्तीति संभावनाप्यस्तीति पूर्वमपि तद्रूपत्वाद- धुनापि तद्रूपत्वं कल्पितं न भवेदित्यर्थः । ३ तस्मिन्नेव शिवतत्त्वे । ४ परमार्थतो नात्र भेद इत्यर्थः । ५ कटक इव सुवर्णत्वं तदन्तः स्थितं विश्वं, कुण्डल इव पृथ्व्यादिरूपतया स्थितम् । ६ अयं भावः,—असत्ये सत्यसंभावना क्वचिदवसरे शोभते, किं पुनर्वक्तव्यं तद्रूप एव सत्ये संभावनेति । ७ ननु किं यथाऽशोकादावसत्ये सत्यवह्निसंभावना, तथात्रापि यदि, सिद्धमस्मदिष्टमित्यत आह पृथिव्यादीति । ८ ननु चास्तु पृथिव्यादिकल्पनायामपि तस्याविकल्पता तद्रूपतावभासनाभावात्, पूर्वमपि तस्य तद्रूपत्वेनैव स्थितत्वात् । अथेदानों तदेव पूर्वभावि शिवतत्त्वं समर्थ- नीयं येनाधरमपि तस्य सिद्ध्यति तत्र चाहंपरामर्शो नाम वाग्रूपत्वाद्वि- कल्प एवेति कथं तत्राविकल्पत्वमित्याशङ्क्याह शिवतत्त्व इति । तथा यत्पुनः पूर्वपक्षे प्रत्यवस्थितं 'शिवतत्त्वे सानुभवे पश्यन्ती तुल्यता तदा ।' इति, तदपि समर्थयति शिवतत्त्व इत्यादिना । ९ अत्र पश्यन्त्येति कारणे कार्योपचार इति दृष्टा पश्यन्तीदूषणेरित्यर्थः ।

१०२ शिवदृष्टिः [ आ०-३ यतो गान्धिकसौगन्ध्यवत्पश्यन्नविकल्पकः । शिवतत्त्वे¹ चिदात्मनि विश्वनिर्भरे विश्वानुभवरूपे पश्यन्त्या पूर्वोक्तदूषणया² न समानता । यतो यथा गा³न्धिकोऽनन्तगन्धद्रव्यसौगन्ध्य- मियत्तया अनवधारयन्नक्रमेण सर्वमवधारयन्नास्ते, तथा विश्वान् भावान् देशकालक्रमशून्यान्⁴ वाच्यवाचकात्मनः पश्यन्नविकल्पः शिवो भवति, अहमित्येव⁵ पूर्णाहंभावेनैषां प्रकाशनात् । अहंपरामर्शवानप्यविकल्पको १ 'यान्युक्तानि पुराप्यभूनि विविधैर्भेदैर्भवैश्चान्वितं रूपं भाति परप्रकाशिनिविडं देवः स एकः शिवः ।' इति नीत्या यदनुस्यूतं महासामान्यनीत्या तच्छिवतत्त्वम् । उक्तं च भाषासूत्रेषु, 'यद्विश्वं तत्तस्याभ्यन्तरता' इति । २ पूर्वोक्तदूषणयेति । किमसावनुभवति ? किमात्मानमुत परात्मानं ? किमनुभूतमुताननुभूतं ? किं क्रमिकमुताक्रमिकमित्यादि ? । ३ अत्र गान्धिक इति दृष्टान्तकथनं तत्तदनन्तवस्तुगन्धस्याक्रमावबोधनार्थं तेन च विकल्पताहानिः फलं तस्य वस्तुद्वयसापेक्षत्वात् । ४ देशकालक्रमशून्यानिति, भेदस्याभाससदसत्त्वरूपत्वात् क्रमस्य च भेदाश्रयत्वात् तच्चाभाससदसत्त्वं प्रभोः प्राभवी शक्तिः, तदना- भासे कथमत्र देशकालयॊग इत्यर्थः । क्रमस्वरूपपर्यालोचनया तदवभासकारी महेश्वर एव कालशक्तिमुपकल्पत इत्यर्थः । उक्तं चेश्वरप्रत्यभिज्ञायां— 'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥' तथा— 'सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः । घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥' इति । ५ प्रकाशस्य ह्यात्मन्यहमिति परामर्शः परावाग्रूपत्वात्स्वभाव- भूतोऽतश्च न विकल्पः । स हि प्रतियोगिनिषेधपूर्वो, न चात्र प्रतियोगी नाम कश्चिदस्ति । तथाहि प्रकाशाद्धि प्रतियोग्यन्योऽप्रकाशसंज्ञः स स्वयम- सिद्धः कस्य प्रतियोगित्वम् । अनाभासने प्रकाशेतरत्वाभावात् । अवभासे तु तथापि कः प्रतियोगी नाम, तथा च तस्यानवभासने व्यपोहनीया- भावात्कथं विकल्पत्वम् । तदुक्तमीश्वरप्रत्यभिज्ञायाम्--

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०३ यथा, तथा ईश्वरप्रत्यभिज्ञातोऽवधार्यम्। गान्धिकस्यान्यस्य¹ च तुल्ये गन्धानामित्यत्यानुभवे गान्धिकस्य गन्धामोदवत्तया अन्यस्यैव तु तच्छून्य- स्यैव। अनेन विश्वनिर्भरता समर्थिता, तावन्मात्रेऽयं² दृष्टान्तः ॥ ८५ ॥ सत्यानि³ स्वात्मरूपाणि पश्यतो न समानता ॥ ८६ ॥ पश्यन्त्याथो⁴ शिभावस्था क्रियाफलसमाप्तिः । क्रियाया वाथ प्रारम्भे कल्पनीया प्रशान्तता ॥ ८७ ॥ अस्तु सापि न भेदाय यथा तत्प्रविनिश्चितम् । सादाख्येश्वरदशयोरपि न पश्यन्त्या समानता, सर्वमहमित्येव- मात्माविभेदेनात्मविश्रान्तानि सत्यान्येव वस्तूनि तथा पश्यति प्रमाता। पश्यन्त्यां तु सुषुप्तावस्थायामिव भिन्नान्येव संसारदशोचितानि बीज- भावेनास्ते, सुषुप्तोत्तीर्णेऽपि पश्यन्त्या अविद्यामयान्येव तद्दर्शने इति 'अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः । नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः । प्रकाशस्येव नान्यस्य भेदिनस्तवभासनम् ॥' इति । १ ननु सर्वेषामेवानन्तगन्धावभासोऽक्रममेवास्ति किमर्थं गान्धिक- स्येति व्यपदेश इत्यत आह गान्धिकस्येति, अन्येषां हि अनन्तावभासेऽपि क्रमेण ग्रहणमस्य सममेवेति भावः । गन्धामोदरहितस्य । २ तावन्मात्र इति, ‘स यदास्ते' इत्यादिना लक्षितलक्षणायामित्यर्थः । ननु चास्त्वेवमत्र हि न किंचन अस्माकं दूषणमदूषणं वा महासामान्यतयास्य भवद्भिरुपगतत्वात् । या पुनः सदाशिवेश्वरदशा, तत्र कथमन्वभवतीत्यत आह सत्यानीत्यादि । ३ परावस्थायां हि स्वभावभूतत्वात्सर्वस्य न तत्रानुभवाद्यसंभावना- संभावनादिशङ्कापीदन्ताभासाभावात् सदाशिवादाविदन्ताभासस्य भास- यिष्यमाणत्वात्कथं तत्रानुभव इति तत्र पश्यन्तीसाम्यमायातीत्याशङ्क्याह सत्यानीत्यादि । ४ ननु चास्तु पश्यन्त्यामहमित्यात्माभेदेन सत्यान्येव वस्तूनि, अहमित्यत्र 'ज्ञानक्रिये सादाख्यम्' इति नीत्या ज्ञानरूपत्वात्सदा- शिवस्य, क्रियारूपत्वाच्चेश्वरस्य तयोरेव विशेषत्वेऽनुभवतीति युज्यते, विशेषस्य तु सामान्यपूर्वभावित्वात्पूर्वावस्था निरनुभवा सिद्धयतीत्यत आहाथो इति ।