भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 106, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 106

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८६ कल्पितः, तथा च तस्यानुवर्तनं कल्पितम्। ततस्तदिच्छात्मकमेतद्रूपमेव१ नाशुद्धिं भेदं वा शिवतत्त्वस्योपस्थापयति ॥ हेमपिण्डे२ हेमतैव स्याच्चेन्न मुकुटादिके ॥ ४९ ॥ युज्यते वक्तुमेतत्तदनित्यत्वं३ च यत्स्मृतम्। सत्कृतौ तद्विनिर्णयं या चोल्लङ्घनचोदना ॥ ५० ॥ नियमानुप्रवेशाय शिवे चोल्लङ्घनेन किम्। भेदश्च जगद्रूपत्वे युज्येत वक्तुं, यदि हेमपिण्ड४ एव हेमता स्यात् न तु मुकुटादौ५। एवकारो हेमपिण्डस्यानन्तरं द्रष्टव्यः। यच्च भावानां नाशित्वात्तदात्मनः शिवतत्त्वस्य नाशित्वं चोद्यत्वेन स्मृतं तत्सत्कार्य६- वादसमर्थनात् निर्णेष्यते। यच्च पादलङ्घननिष्ठीवनादि सर्वत्रात्मनि शिवे परिहार्यत्वेन चोदितं तत्तदात्मकनियतिशक्तिकृतनियमरूपधर्माधर्मानु- प्रवेशफलसंसारव्यवहारसंपादनाय। वस्तुतश्च शिवतत्त्वे७ तेनोल्लङ्घनेन किं दुष्यति न किंचिदित्यर्थः ॥ १ तदिच्छात्मकमेतद्रूपमेवेति पक्षद्वयप्रधानमभेदमेकमेव वस्त्विति मन्तव्यम्। २ ननु चास्तु यत्राहंपरामर्शो 'गोः स्तनापातातः क्षीर' इत्यादिनीत्याऽनवच्छिन्न एव तत्राभेदे शिवाद्वयत्वं, यत्र तु स्फुट- मिदन्तानिर्देशे सावयवत्वादिविकारवत्त्वं तत्र कथमित्याशङ्काशान्त्यर्थ- माह हेमपिण्ड इत्यादि। ३ ननु च यदि सर्वं भावमण्डलं तदात्मक- मेव यच्छिवतत्त्वस्यानित्यकार्यपेक्षया नित्यत्वं तत्कथं तथा तन्ममत्वे तस्याप्यनित्यतेत्यत आह तदनित्यत्वमिति। ४ अवयवविकारमप्राप्ते। ५ अवयवविकारमापन्ने। ६ अयं भावः--यदि कार्यमुत्पत्त्यनन्तरमेव सत्स्यात् पूर्वं चासत्स्यात् तर्हि चासत्कार्यत्वात्तस्यासत्त्वे शिवतत्त्वस्य विनाशित्वं प्रसज्येत, पूर्वं च तत्सदेवेति कस्य विनाशित्वं, तदेतदीश्वर- प्रत्यभिज्ञायामुक्तम्-- 'चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः। योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥' इति। ७ शिवतत्त्वे हि धर्माधर्मयोरभाव एव, तच्च लङ्घनादिकमधर्माय ततो न कर्तव्यं, धर्मोत्पत्तिर्हि तथा स्यात्। धर्माधर्मसंसारव्यवहाराभावे यथाऽलङ्घनेन न धर्मेण तस्योपयोगस्तथा लङ्घनेनाधर्मेणापि।