भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 105, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 105

८८ शिवदृष्टिः [ आ०-३' चिद्रूपत्वे तदवस्थे शुद्धन्यूनादिदोषाभावात् । मुकुटपतद्ग्रहयोः सुवर्णसाम्येन सुवर्णत्वम् । तथाहि चण्डालगृहस्थोऽग्निर्यदि नाग्निः स्यात् तदेतदपि स्यात् । अथ वह्नेर्यदि अशुद्धता न स्यात् तत्तस्य कुतो मन्त्रैः संस्कार- योगः कार्यसंपादनार्थं शास्त्रे चोच्यते तस्मात् तस्याशुद्धता संभवेत् । नैवं, कार्यमेवानुष्ठेयमेव तद्व्यवहाराय न तु स्वरूपे वह्ने`विभागः, स्वरूपे निजरूपे स्थिते तु वह्नावुपगम्यमाने तत्स्वरूपता वह्निरूपतैव सर्वत्र, तद्वत् शिवरूपता जगतस्तस्य, तथा ईश्वरस्य तन्मात्रपृथिव्यादिरूपतया व्यवस्था- नात् परस्थूलसूक्ष्मतादिभेदः । तथा च सर्वत्रैक्ये संसारव्यवहाराय संज्ञामात्रं तत्कल्पितं भवति ॥ ४७ ॥ व्य१वहारोऽप्यविद्या२ नो तथात्वेनेश्वरस्थितेः । तेनैव वा तथा क्लुप्तस्तथा तदनुवर्तनम् ॥ ४८ ॥ न तत्स्वरूपभेदाय शास्त्रं यद्व्यवहारगम् । संसारव्यवहारोऽप्यविद्या नाम न पदार्थान्तरं भवति, ईश्वरस्यैव तथात्वेन लोकयात्रामतया तथावस्थानात् । शास्त्रमपि३ वा व्यवहार- गामिसंस्कारोपदेशकं न शिवतत्त्वभेदाय, तेनैवेश्वरेण४ तथाग्निसंस्कारादिः १ ननु चास्तु सर्वत्र तस्यैव व्यवस्थितत्वादैक्यम्, अस्तु च व्यव- हाराय संज्ञाकरणमात्रं, तथापि यदुपरोधात्संज्ञाकरणमात्रमायाति सोऽपि कश्चिद्यद्यपि आभासमानत्वात्तन्मयमेव तथापि नाममात्रभेदोऽस्त्येवेत्यत आह व्यवहार इत्यादि । २ यत्राविद्या नो इति पर्युदासाश्रयेण न निषेधे तात्पर्यं किंतु स्वयं व्यवहारात्मकाविद्यालक्षणं न भवतीत्यर्थः, तदाह तथात्वेति । ३ ननु चास्तु संसारव्यवहारस्तदात्मकत्वादपृथग्भूतं व्यव- हारार्थं पृथग्भूतं कल्पितं विपर्यस्तैरिति च यद्यप्यस्ति तथापि तदर्थं शास्त्र- नियमेनालं, कृतश्च संसारव्यवहारं सत्यमिति गमयति इत्याशंक्याह शास्त्र- मिति । अयं भावः—यावद्धि व्यवहारः सत्यभूतस्तावत्तदर्थं शास्त्रमपि सत्यमेव तन्निरासे तस्यापि न नियम इत्यर्थः । ४ ननु च किमिदमुच्यते ,तथात्वेनेश्वरस्थितिः' इति । यदि च तथात्वमेव तर्हि न व्यवहार- व्यपदेशोऽपि, व्यवहारव्यपदेशे च न तथात्वव्यपदेश इति पक्षान्तरं समर्थयति तेनैवेश्वरेणेति । इदं हि स्वातन्त्र्यवादमाश्रित्य समर्थितं, स्वातन्त्र्याद्यथा संस्कारादि कल्पितं न परमार्थसत्, तथा तदनुवर्तनमपीति पूर्वस्मात्पक्षा- दाधिक्यमत्र सूक्ष्मधियामेवागन्तव्यम् ॥