शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 104, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८७ वर्णयिष्याम एवात्र न चः सावयवः क्वचित् ॥ ४१ ॥ कश्चिदस्तीह वक्ष्याम एतदप्यग्रतः स्फुटम् । अत एव योगिन इव परमेश्वरस्येच्छावशादेव तथावस्थाने पृथि- व्यादितत्त्वगणे जडता नास्ति इच्छाविशेषरूपत्वात्, न तु प्रधानादिजडो- पादनतास्य । अथ तत्रेदन्तानिर्देश्यतारूपा जडता प्रतीयते । तन्न, यथा न क्वचिदिदन्तानिर्देश्यत्वेऽपि तत्त्वतो जडता तथोत्तरत्र सुष्ठु विचारणाभि- र्वक्ष्यामः । सर्वात्मत्वे शिवतत्त्वस्य सावयवत्वप्रसङ्गदूषणमपि अग्रे निरा- करिष्यामो यथा न कश्चित् कस्यामप्यवस्थायां सावयवः स्यात् । स्वयं शिवात्मतावस्थाने स्वयं विश्वात्मतयावस्थाने च किमपेक्षया भोग्यता यया सावयवत्वं स्यात् ॥ स्वेच्छातो भावरूपत्वे पराधीना कुतः स्थितिः ॥ ४२ ॥ क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् । एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥ ४३ ॥ अभग्नेस्वस्य रूपत्वे शुद्धन्यूनादिकं कुतः । एतद्ग्रहादिके हेम्नि हेमत्वं मुकुटादिके ॥ ४४ ॥ स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता । चण्डालसङ्गो वह्निर्न वह्निर्यदि कथ्यते ॥ ४५ ॥ तदेवं स्यादथोच्येत वह्नेः संस्कारचोदना । शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥ ४६ ॥ न स्वरूपविभागोऽत्र स्वरूपे तत्स्वरूपता । परापरादिभेदोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥ ४७ ॥ स्वेच्छावशाद्विश्वभावरूपस्य पराधीना न स्थितिरपि तु स्वेच्छा- यत्तैव । विश्वरूपता क्षीरायत्ता दधिरूपतेव कारणपरिणामसापेक्षा यदि कथ्येत पराधीनो विश्वात्मा तदा जडः स्यात् चिद्रूपस्यापेक्षानुपपत्तेः, यावता विश्वरूपत्वे चिद्रूपतैव । अनयैव चिद्रूपताहानिदिशा शुद्धाशुद्धत्वो- पचयापचयवत्त्वादिदोषः परिहार्यः । स्वं रूपं यस्य स स्वरूपस्तस्य भावे