शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 103, कुल 188 में से
संदर्भ में पढ़ें८६ शिवदृष्टिः [ आ०-३ पुनराह— यथा$^१$ न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥ ३६ ॥ विभागस्तद्वदीशस्य मध्योत्कृष्टनिकृष्टकैः । भावैर्नास्ति विभेदित्वमथवाम्बुधिवीचिवत्$^२$ ॥ ३७ ॥ तत्र वीचित्वमापन्नं न जलं जलमुच्यते । न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥ ३८ ॥ निश्चलत्वेऽपि हि जलं वीचित्वे जलमेव तत् । वीचिभिस्तद्विशिष्टं चेत्तन्नैश्चल्यविशेषकम् ॥ ३९ ॥ यथा न योगिनो नानासैन्यशरीरकैर्गजरथतुरगपदातिरूपैरवस्थि- तस्यात्मविभागस्तथा परमेश्वरस्य मध्योत्कृष्टनिकृष्टकैर्देवमनुष्यतिर्य- गादिरूपैर्विभेदः सर्वशक्तिबोधमात्ररूपस्यैकत्वनियमात् । अथवात्यन्त- प्रसिद्धोऽयं दृष्टान्तः । यथाम्बुधेस्तरङ्गाणां चैक्येऽपि व्यवहारभेदस्तथा शिवस्य विश्वस्य च । तत्र हि व्यवहारे वीचितां प्राप्तं जलं न जलमित्युच्यते, न च तत्र वीचिरूपे जलता विनष्टा । तथाहि निश्चलत्वे चलवीचित्वे च जलमेव जलविशेषत्वाद्वीचेः, अथ जलं तद्वीचित्वविशिष्टं न जलमात्रम्, तदेतदस्तु वीचिताविशिष्टत्वेऽपि न क्षतिर्जलस्य तादवस्थ्यात् । वीचि- विशिष्टत्वे जलत्वाभावो निश्चलत्वविशिष्टेऽपि जलता न स्यात्, एवं भावरूपत्वेऽपि शिवता स्थितैव ॥ ३६ ॥ अत एव परेच्छातो न जडत्वमवस्थितम् । पृथिव्यादितत्त्वगणे जडत्वं चेत्प्रतीयते ॥ ४० ॥ न$^३$ यथा जडता क्वापि तथाग्रे सुविचारितैः ।
१ ननु भवतु चेच्छया सर्वकार्यकारित्वं योगिन इव, तथा पुनः स्थित्य- वस्थायां स्फुटमेव विलक्षणरूपत्वादेषां कात्र व्यवस्था तदेकरूपत्व इत्यत आह यथा नेत्यादि । २ ननु मास्तु योगिनः सैन्यशरीरकाणां भेद इत्यत्र यथा परमेश्वरस्यापि भेदव्यवहारश्च स्फुटमवभासमानस्तस्मात्तेषां चान्योन्यं कथमपह्नुयत इति कुतर्कमोहान्ध्यविलुप्तविज्ञानदृष्टीन्प्रति स्फुटताप्रतीतये पुनरन्यदृष्टान्तेन द्रढयति अथवेत्यादि । ३ नशब्दोऽत्र काकाक्षिगोलकन्यायेन योज्यः ।