शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 107, कुल 188 में से
संदर्भ में पढ़ें६० शिवदृष्टिः [ आ०-३ एवं¹ प्रवर्त्तने तस्य न निमित्तसमुद्गमः ॥ ५१ ॥ यदि स्वरूपविभ्रंशाच्छाक्तरूपादिकल्पना । तद्वक्तव्यं निमित्तत्वं किमर्थं रूपमुज्झति ॥ ५२ ॥ यावता सर्वरूपाणां तत्स्वरूपस्वरूपिता । जननपरिणामादिरूपतां विनैवैवमवस्थानमात्रलक्षणजगत्स्थिति- प्रवर्त्तने तस्य न निमित्तं² चोद्यम्पूर्वकार्याभावात् । यदि हि शान्तरूपस्य शाक्तादिरूपान्तरग्रहणं शिवतत्त्वत्यागे स्यात् तत्कस्यचिदर्थस्यात्र निमित्तं वक्तव्यं प्रष्टव्यं किमर्थमयं रूपमुज्झतीति । यावता शान्तिरूपतायां शिवे जगद्रूपतयापि च शिवस्वरूपेणैव स्वरूपवत्त्वम् ॥ शक्तित्रयस्वरूप³ त्वं सर्वं यस्यास्त्यवस्थितम् ॥ ५३ ॥ निमित्तं⁴ कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् । अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥ ५४ ॥ पुरा शान्तस्वरूपत्वं पश्चात्तादृगवस्थितिः । शान्ते⁵ शिवत्वं स्थूलेऽपि शिवत्वं यत्र वर्णितम् ॥ ५५ ॥ तत्र का शान्तता ब्रूहि शान्ते किं वस्तुता न ते । वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥ ५६ ॥ इच्छादिशक्तित्रयमयचिदात्मकत्वं सर्वस्यामवस्थितौ⁶ यस्याव- स्थितमस्ति तत्र निमित्तं कल्प्येत, काक्वा योज्यते किं कल्प्येत नैव कल्पनीयमित्यर्थः । तत्र हि कल्प्यतां निमित्तं यत्रातद्रूपत्वे तद्रूपतोद्भवः । १ ‘तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ।’ इति, तत्समर्थयति एवमिति । अयं भावः—प्रवृत्तिकारी हि तदा प्रवृत्तिं करोति यदि स्वस्मात्किंचिदाधिक्यादिकमनुभवति, यदि च स्वयमेव स तथाभूतः केन निमित्तेन प्रवृत्तिं करोतीति । २ स्थितिप्रवर्त्तनेऽपि यतस्त- स्यैवमवस्थानमेव न जननपरिणामादिविकारस्ततो न निमित्तकलना कापि, यदि ह्याधिक्यं स्यात्तर्हि निमित्तकलनापि स्यात् । ३ इच्छादिसामरस्या- त्मकं । ४ भ्रूक्षेपपूर्वाभाषणेन योज्यम् । ५ अजगद्रूपे, शिवत्वं पञ्चशक्ति- सामरस्यात्मकमभेदतत्त्वम् । स्थूले—जगद्रूपे । ६ जगद्रूपस्पन्दक्षोभेऽपि ।