शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 108, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६१ अथैवं चोद्यते-पूर्वं १ शान्तरूपत्वमजगद्रूपत्वं पश्चाज्जगद्रूपतेत्य- पूर्वताया निमित्तं वाच्यमिति । तन्न, यत्राभ्युपगमे, शान्तेऽपि शिवत्वं स्थूलेऽपि जगद्रूपत्वे शिवत्वमेव वर्णितं तत्र शान्तता शिवरूपता का स्यात्, ब्रूष्ट्येतत् । शान्तमपि हि तव वस्तु, वस्तु च सत्तामयं, सत्ता भवत्ता भवनकर्तृता, स्वातन्त्र्यात्मकं च कर्तृत्वं चिद्रूपस्येच्छादिशक्तिमत इति सर्वं वस्तु शिवः ॥ ५६ ॥ अङ्गाररूपे १ किं वह्नौ वह्निता न क्रियात्मके । ज्वालादिकेऽथ सावस्था २ निष्क्रियाज्ञानरूपिणी ॥ ५७ ॥ निरिच्छा न च शक्येत वक्तुमेवं कदाचन । अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥ ५८ ॥ नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् । निर्ज्ञाने वा ततो ज्ञेयं नाशक्तः काचन स्थितिः ॥ ५९ ॥ अङ्गाररूप एव वह्नौ किं वह्निता न तु ज्वलनसंतपनादिक्रिया- विष्टे । अथ तत्र ३ वह्निरेवं शिवोऽपि तद्भावभेदाविष्टोऽपि शिव एव । क्रियावस्थामुखेनैतत्कथितम् । अथ सक्रिये शक्तिसंभवात् शिवतास्तु शान्तता ४ तु निष्क्रिया ज्ञेयज्ञानरहिता कार्याकरणात् चिकीर्षालक्षणेच्छा- शून्या च तेन न शिवः, नैवं शक्यते वक्तुं कदाचन सर्वदा भवनक्रिया- विरहात् । स्थूलक्रियाविरहे शान्तावस्थायामपि यदि शिवः स्थितोऽभ्युप- गम्यते तदस्ति स्थित इत्येषा भावस्थानादिरूपा क्रिया किं न भवति, भव- त्येव । क्रिया च कर्तृस्वरूपभूता, कर्ता च स्वतन्त्रः चेतन एव, स्वेच्छात्तः प्रवृत्तिः स्वातन्त्र्यं यतः, यतोऽस्ति स्थित इत्यत्र बुभूषातिष्ठासालक्षणेच्छा- १ यथा ज्वलनसंतापादिवत्त्वमेव वह्नित्वं तदभावे न वह्नित्वमिति स्थितं तथा भावशक्तिमत्त्वमेव शिवत्वं न तदभाववत्त्वमित्यर्थः । २ अन्ये शक्ति- मत्त्वे सक्रियत्वे शिवत्वं यतोऽस्ति ततश्च ततोऽन्या सूक्ष्माऽविकल्पा दशा- वश्यं गवेषणीया, अन्यथा हि ज्ञानज्ञेयसहितत्वाद्विकल्प्यमेव परतत्त्वमपि स्यात् इत्यतस्तत्र शिवत्वमपि नानुमन्तव्यम् । मतं चेद्विकल्पमध्य एव पतेदित्याह सावस्थेति । ३ तत्र ज्वलनक्रियाविशिष्टे । ४ यदुक्तं 'शान्तेऽपि शिवत्वं स्थूलेऽपि शिवत्वं तेन नात्र निमित्तकलना' इति । शान्तत्वे शिवत्व- मुत्पुंसयितुमाह निमित्ततापादनात्थं शान्तता त्विति ।