शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 109, कुल 188 में से
संदर्भ में पढ़ें६२ शिवदृष्टिः [ आ०-३ स्त्येव। यावच्च तथा कर्तुं भवितुं स्थातुं वा न जानाति तावत् किं क्रिया भवति। भवतीत्यादि तिङन्तनिर्देशः। तस्मात् ज्ञातव्यं यदुत नेच्छादिशक्ति- रहिता काचन स्थितिः कस्यचित्। इच्छादिशक्तिमत्ता च शिवता, घटोऽस्ति हिमालयोऽस्ति, जगदस्तीति च यथा नाधिक्यं शिवतायाः करोस्ति तथेश्वरप्रत्यभिज्ञायां विचारितम् ॥ ५६ ॥ अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे । शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥ ६० ॥ अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता । सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥ ६१ ॥ अथात्र भावानां परस्परतो वैचित्र्यं दृश्यते तच्छिवे चिदेकरूपे कथं संभवेत् । तत्रापि शिवस्यैव तद्विचित्रस्वरूपत्वं भावानां यदन्योन्य- वैचित्र्यं, तेषां च घटपटादीनां वैचित्र्यमपेक्ष्य तस्य तेभ्यस्तद्वशात् विचित्रता भाति चिदेकरूपस्यापि सतः । सर्वं च चित्स्वरूपत्वेन शिवात्मकं यथा न्यायानुसारेण तथाग्रतो वक्ष्यते ॥ ६१ ॥ जलाहरणशक्तश्च घटो यदि न भण्यते । घटः केवल एवात्र तदेवंविधमुच्यताम् ॥ ६२ ॥ यदि चात्र जगत्युदकाहरणशक्तो घटो नोच्यते अपि तु केवलस्त- त्क्रियावेशशून्य एव घटः, तदेतत्सद्दशमेवं केवल एव शिवो न जगद्रूप इत्येतदप्युच्यतां, यावता नैवं¹ तत्सर्वदापि शिव एव ॥ ६२ ॥ नानावादैर्नो विरोधः कथनीयमिहाग्रतः । उक्तं² वा कालपादादावागोपालाङ्गनादिना ॥ ६३ ॥ १ उदकाहरणशक्त एव । २ आदौ स्वशास्त्रत आह उक्तं वेति । ननु कथं नानावादैरविरोधः सर्वत्र भिन्नभिन्नार्थकल्पनात् ततश्चाह उक्तं वेति । अयं भावः--आप्तप्रणीतत्वं ह्यागमत्वं, तच्चादौ तन्त्रागमानां साक्षाद्भगवच्छिवभट्टारकोक्तत्वात्, श्रुतीनामप्यनादित्वकथनादस्त्येव, इतिहासपुराणादिषु तदर्थविधारणादस्त्येव प्रमाणत्वं, तस्मादेकस्यैवा- शेषजगत्प्रसूतिहेतोर्महाविभूतेरीश्वरस्य सृष्टिस्थितिप्रलयकार्यविभागयोगा- द्ब्रह्मेति विष्णुरिति रुद्र इति व्यपदेशः, अन्येषां पुनरनाप्तप्रणीतत्वान्न प्रामाण्यम् । तदेतत्त्रिधैवागमप्रामाण्यं संवादयति उक्तं वेत्यादिना ।