शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 111, कुल 188 में से
संदर्भ में पढ़ें६४ शिवदृष्टिः [ आ०-३ इत्युक्तं भवति । यदिदं "इदं स एको१ रुद्रः" इति च रुद्रैक्यम् । तथा 'परः पुरुष२ एवेदं सर्वं' इति चोक्तं वेदे । पुराणेतिहासादिषु३ चाष्टमूर्तित्वमुक्तं महेश्वरस्य यत्रात्यन्ततामसपार्थिवतत्त्वरूपेण मूढतापि स्वरूपमेव ॥ "सोऽरोदीत्४" इति च रुद्रशक्तिनिर्वचनेऽपि वेदेनोक्तं तदैक्यम् । अर्थवादोऽयमसत्यार्थो५ विध्यनुष्ठानतात्पर्यादित्येतदपि न युक्तम् । अर्थ६- १ 'एको रुद्रोऽवतस्थे न वै द्वितीयो कश्चन ।' इति । तथा— 'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु । यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः ॥' २ 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।' इति । ३ यथा सिद्धस्तुतौ— त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेव त्वयि परिणतां बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥' इति । अत्रापि भगवतो महेश्वरस्यैकात्म्यमेव सर्वत्र दर्शितम् । तथाहि पञ्चभूतान्येव सर्वं विकारावस्थापन्नं जगदिति स्थितम् । तत्र यत्सूक्ष्मं प्रमाणप्रमेयात्मकमवस्थायुगलं तदर्कसोमशब्दाभ्यामुक्तं, यतोऽत्रैवाहन्ते- दन्तायुगलकमपि सदाशिवादिव्यपदेशेन विश्राम्यति किं पुनरन्यत्र कथनीयं यत्र संहृतं पार्थिवं घनं तत्त्वमपि शिव एव अत एव तस्यान्तेऽत्र व्यपदेशः । अभेदमेवैषामाहात्मेति, एषां सर्वेषां स्पन्दविशेषाणां यदभेदात्मकं प्रत्यग्रूपं तदेव भवानस्तीति किमन्यद्यत्र भवत्स्वरूपापह्नवः । ४ 'सोऽरोदीद्यदस्य रुद्रस्य रुद्रत्वम्' इति । अयमर्थः—यत्तस रुद्रोऽरोदीत् सुस्राव शक्तिद्वारेण विश्वरूपतयास्थात् तदस्य रुद्रस्य रुद्रत्वं रुद्राभेदमयत्वम् । ५ अप्रवृत्त- प्रवर्तनं विधिः, तथा साक्षादुपदेशकत्वं विधिः । प्रवृत्तस्यान्वाख्यानमर्थवादः, तथा परम्परोपदेशकत्वमर्थवादः । अत्रार्थवादे साक्षादुपदेशाभावमा- शङ्क्यार्थवादोऽयमिति । विध्यनुष्ठितस्यैव ह्यर्थस्यार्थवादः समर्थकस्ततश्च साक्षादनुष्ठानाभावान्नार्थवादस्य सत्यत्वम् । ६ यद्यर्थवादस्य विध्यङ्गतया सत्या तर्हि कथं स्वयमसत्यार्थपरत्वमित्यर्थः । यथाहि 'वायव्यं श्वेतमज-