शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 118, कुल 188 में से
संदर्भ में पढ़ेंअ. ०–३ ] उत्पलदेवकृतवृत्त्योपेता १०१ तत्कल्पना कल्प्यमानं भवेत् । यावता १ साक्षाच्छिव एव सर्वमिति वस्तु- स्थित्या पृथिव्यादि शिव एव, शिवत्वेन किं२ कल्पितं भवति न भवत्ये- वेत्यर्थः । अथ सत्यतस्तस्मिन्नेव३ कल्पनेति कथ्यते तद्वस्तु, अतस्तत्र कल्पनेति नामकृतिः४ ॥ ८३ ॥ तदेवोदाहरति— कटकेऽस्ति५ सुवर्णत्वं कुण्डले कल्पनास्ति किम् । चित्रवह्नावशोकादौ कल्पना राजते क्वचित् ॥ ८४ ॥ क्लृप्तकल्पनयोर्भेदं ये न जानन्ति नौमि तान् । कटके किं सुवर्णत्वं सत्यं कुण्डले तु कल्पितं, नैवेत्यर्थः । चित्रगते वह्नौ, अशोकपुष्पादौ रक्ते वह्निकल्पना शोभते क्वचिदवसरे७ पृथिव्यादि- रूपेण६ शिवः क्लृप्तः संपन्नः स्वयं स्थित इत्यर्थः । कल्पितं पुनः स्वयं स तथा केवलमिष्यते तेन रूपेणेति क्लृप्तस्य स्वयंकॢप्तेस्तथा संपत्तेः, कल्पनायाश्च स्वयमतथाभूतस्य तथा संभावनामात्ररूपाया ये शब्दार्थत्वे न भेदरूढास्ते वन्द्या इत्युपहासः ॥ ८४ ॥ शिवतत्त्वे८ सानुभवे पश्यन्त्या९ न समानता ॥ ८५ ॥ तत्रापि यदि कल्पितत्वं नास्ति तथाप्येतादृङ्नये तत्र कल्पितत्वं वादि- वादसमर्थनार्थमुपगतम् । १ एकान्तनिश्चयेन । २ यदि हि पृथिव्यादि पूर्वं न समभविष्यत्तदतद्रूपत्वात्तद्रूपावभासे मनोराज्यादिवद्वस्तुशून्यतया कल्पित- मेवाभविष्यत्, न तु पूर्वं नास्तीति संभावनाप्यस्तीति पूर्वमपि तद्रूपत्वाद- धुनापि तद्रूपत्वं कल्पितं न भवेदित्यर्थः । ३ तस्मिन्नेव शिवतत्त्वे । ४ परमार्थतो नात्र भेद इत्यर्थः । ५ कटक इव सुवर्णत्वं तदन्तः स्थितं विश्वं, कुण्डल इव पृथ्व्यादिरूपतया स्थितम् । ६ अयं भावः,—असत्ये सत्यसंभावना क्वचिदवसरे शोभते, किं पुनर्वक्तव्यं तद्रूप एव सत्ये संभावनेति । ७ ननु किं यथाऽशोकादावसत्ये सत्यवह्निसंभावना, तथात्रापि यदि, सिद्धमस्मदिष्टमित्यत आह पृथिव्यादीति । ८ ननु चास्तु पृथिव्यादिकल्पनायामपि तस्याविकल्पता तद्रूपतावभासनाभावात्, पूर्वमपि तस्य तद्रूपत्वेनैव स्थितत्वात् । अथेदानों तदेव पूर्वभावि शिवतत्त्वं समर्थ- नीयं येनाधरमपि तस्य सिद्ध्यति तत्र चाहंपरामर्शो नाम वाग्रूपत्वाद्वि- कल्प एवेति कथं तत्राविकल्पत्वमित्याशङ्क्याह शिवतत्त्व इति । तथा यत्पुनः पूर्वपक्षे प्रत्यवस्थितं 'शिवतत्त्वे सानुभवे पश्यन्ती तुल्यता तदा ।' इति, तदपि समर्थयति शिवतत्त्व इत्यादिना । ९ अत्र पश्यन्त्येति कारणे कार्योपचार इति दृष्टा पश्यन्तीदूषणेरित्यर्थः ।