शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 117, कुल 188 में से
संदर्भ में पढ़ेंशिवस्यैवैकस्य कारणत्वे निमित्तसमवाय्यसमवायित्ववैचित्र्येण तस्य विचित्रता त्रितयात्मताख्या न दोष उक्तन्यायेन, यतो राजाज्ञा न समा तुल्योपदिष्टा, अपि तु राजाज्ञारूपसाम्येऽप्यन्यथा भेदः। तद्वत् तन्तुरूपेण संयोगरूपेण च स निमित्तमप्यास्ते। अथ वा स्वयं स ताव- न्निमित्तकारणं, तदिच्छा समवायिकारणं, घटादिवस्तुनः सत्तेच्छान्वयात् स एव चावयवसंयोगः सहकार्यसमवायिकारणमित्यर्थः। अथवा तस्यै- कत्वेऽपि त्रित्वं यथोक्तप्रकारं व्यपदेशात् व्यवहारात् सर्वभेदव्यवहारस्या- भेदाख्यातिरूपत्वम् ।। ८१ ।। न¹ पृथिव्यादिके तस्मिन्² कल्पना संप्रवर्तते ।। ८२ । तथात्वेनैव³ क्लृप्तत्वात्तदेतत्कल्पना⁴ भवेत् । तदेव⁵ तत्कल्पितं किं सत्ये नामास्तु⁶ कल्पना ।। ८३ ।। न च पृथिव्यादिरूपतया प्रतीयमाने भावजाते शिवरूपिता कल्पिता भवति⁷, वस्तुस्थित्यैव⁸ पृथिव्यादिरूपेण९ वा शिवतत्त्वस्यैव क्लृप्तत्वात्१०। अतद्रूपं¹¹ तद्रूपं यदावसीयते यथा मनोराज्यादि, तदा १ यदुक्तं 'पृथिव्यादिकल्पनया कल्पनावान्' इति । यदि मायापरमाण्वादिकारणभावेन तत्तत्कर्तृत्वमस्याभ्युपेयते, तदा भिन्नवस्तुसद्भावात्केन विकल्पतास्य भण्यते। यदि तु तदभावेन कल्पना तर्हि भिन्नवस्तुशून्यत्वेन विकल्प एव, तच्च शून्यप्रायं तदात्मकत्वे शिवतत्त्वमपि शून्यप्रायमेव संबोभवीतीति पूर्वाशयः, तदेतत्समर्थयति नेत्यादिना। २ तस्मिन् शिवतत्त्वे । ३ तस्यैव तत्तद्वैचित्र्येणापि व्यवहारे स्थितत्वात् । ४ अप्रतीयमाने प्रतीयमानत्वम् । ५ शिवतत्त्वनेव पृथिव्यादि कल्पितम् । ६ नामेति परतोषार्थमनुमतिः । ७ यतः-- 'स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥' इति प्रत्यभिज्ञोक्तनीत्या यतस्तत्तद्विभिन्नाभासभावराश्यभावेऽपि सर्वमस्त्येव ततश्च कस्यातद्रूपस्य तद्रूपाभासनं नाम नवमाभासनं कल्पना कल्पितं भवेदिति भावः। ८ परमार्थनयेन । ९ व्यवहारदृशा । १० स्वयं संपन्नत्वात् । ११ पूर्वमनतद्रूपमधुना तद्रूपम् । ननु क्वान्यत्र कल्पितत्वं नामेत्यत आहात- द्रूपमिति, मनोराज्यादावपि संविद एव तत्तदाभासाभासनसामर्थ्यमिति,