शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 116, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६६ तवैक्ये दर्शनभेदाभावात् वादित्वं प्रतिवादित्वं च कुतः, यदुक्तं ‘विवादिहननाय’ इति, तदेतदपि तस्यैव तथा स्थितेः । लोकव्यवहाराय वा सर्वं शास्त्रवादिप्रतिवाद्यादि । लोकव्यवहारश्च तद्भेदाख्यातिमयो न वस्तुगतः । यत्पुनः स्वरूपेण प्रकाशते तच्छिवरूपवस्तुवात्मकमेव, व्यवहारस्तु न कदाचित् वास्तवोऽपि तु भ्रम एव, अवस्त्वपि ईश्वरात्मैवा- वस्त्वभासरूपेण तस्यावस्थानात् । अत एव ईश्वरप्रत्यभिज्ञोक्तनीत्या तदवस्त्वपि प्रकाशमानं चिद्रूपमेव, केवलं बाह्ये१ प्रकाशनाभावादवस्तु उच्यते ॥ ७७ ॥ तदाह— सर्वमेकेन रूपेण यद्विचायं तथाग्रतः ॥ ७८ ॥ सर्वं वस्तु अवस्तु च शिवरूपं यतस्तथाग्रे विचारणीयमेव ॥ ७८ ॥ धर्माधर्मैश्च२ संबन्धस्तथा तच्छिवसंस्थितेः । तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः३ ॥ ७९ ॥ तयोः फलेन न्यूनतया४ वा विपरीतेन फलेनाफलेन योगः । अथवा फलेनायोगोऽथवापि अधर्मस्याफलेनानिष्टेन फलेन योगः, तेन हेतुना युक्तता न्याय्या शिवस्य तथा स्थितेर्हेतोः, सर्वथा यद्यत्प्रतिभासते तच्चिद्रूपशिवात्मकमेव ॥ ७६ ॥ निमित्तसमवायादिवैचित्र्यात्तद्विचित्रता । कारणस्यैकरूपत्वे न दोषस्त्रितयात्मता ॥ ८० ॥ न राजाज्ञा समादिष्टा स्वयं वा स निमित्तकम् । समवायि तदिच्छैव तद्योगः सहकारणम् ॥ ८१ ॥ तस्यैव वा त्रिरूपत्वं व्यपदेशात्तथाविधम् । १ बाह्य इत्यनेन बाह्य एव तस्य भ्रमतवमवस्तुत्वं वास्तु स्वरूपे न भ्रमतवं नाप्यवस्तुत्वमित्यर्थः । २ यच्चोक्तं— ‘धर्माधर्मौ न संबद्वौ शिवस्य न तयोः कृतिः । ततश्च शिवमद्वैतं बाध्येताकृतार्थता ॥’ इति, तच्च परिहरति धर्मैत्यादिना । अत्रापि पूर्वोक्तं सर्वं व्यवहारादिक- मनुसर्तव्यम् । ४ ‘अभावे स्वल्पभावे’ इति नञर्थमाश्रित्य विवृणोति न्यूनतया वा विपरीतेति ।