भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 136, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 136

आ०-४] उत्पलदेवकृतवृत्त्योपेता ११६ अथ१ चेद्देशबाधो वा तद्देशे रजतं नहि ॥ २१ ॥ यत्र काले सरजतो देशोऽभूतस गतस्तदा । कालान्तरेण देशोऽसौ का बाधा भिन्नकालयोः ॥ २२ ॥ अथान्यदेशं रजतमन्यदेशमुपलब्धमिति यदि वा देशबाधः। तन्न । यस्मिन्२ काले स रजताश्रयो देशोऽभूत्, स कालो बाध्यरजतज्ञानकाले नास्तीति बाधकज्ञानेन बाधः क्रियते। न चैवं रजतदेशयोर्द्वयोर्भिन्नकालत्वात् । तथाहि शुक्तिकारजतकालेऽन्यदेशरजतकालो गतः। ततश्च कालभेदेन देशभेदस्याविरोधात् का बाधा ॥ २२ ॥ ज्ञानान्तरेण ज्ञानं तद्विरोधादथ बाध्यते । न बाधो भिन्नकालत्वात्प्राक्तनस्याप्यभावतः ॥ २३ ॥ अथ तस्मिन्नेव वस्तुनि रजतज्ञानं शुक्तिकाज्ञानं चेति विरोधात् शुक्तिकाज्ञानेन रजतज्ञानस्य बाधो निवृत्तिः क्रियते। तन्न। एकवस्तुनि युगपदन्यथात्वमयुक्तम्३। क्रमेण तु क्षीरदध्नोर्न विरोधः प्राक्तनस्य दृष्टस्य स्वरसतो दर्शननिवृत्त्या निवृत्तेः, नाभावतः ॥ २३ ॥ सहानवस्थितिर्नास्ति विरोधः प्राग्विनाशतः । अन्योन्यपरिहारो वा ज्ञानाज्ञानात्मकः स्थितः ॥ २४ ॥ सहानवस्थितिरपि विरोधो नास्ति। न हि ज्ञानं क्षणिकत्वेन प्राग्विनष्टमन्येन निवर्तनीयमुष्णेन शीतमिव विरुद्धं भवति रजत- १ अथेदानों यतः कार्येण कारणेन च न कथंचन बाधः सिद्ध्यति, ततोऽबाध एव। अयं भावः—तदन्यदेशकालं यद्यप्यस्ति तथापीहासन्निहि- तस्य सतापि तेन किं विशिष्यते। २ इदमत्र तात्पर्यं—तौ तत्र देशकालौ किं सन्तौ प्रतिभासेते किमुतासन्तौ? यदि च सन्तावित्यभिमन्यसे तदा तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात्, असन्तौ तुभावपि रजतवन्नालम्बनं भवितुमर्हत इति। ३ युगपदन्यथात्वमयुक्तं, नहि शुक्तिज्ञानेन रजतज्ञानं बाध्यते स्वस्मिन्विषये आत्मनि च स्वरूपे द्वयोर्ज्ञानयोर्निष्ठितयोर्विश्रान्तयोरन्योन्यं विरोधस्याभावात्। अथ परस्परपरिहार एव विरुद्धयोर्युगपद्द्वयोः, तर्हि सर्वेषां ज्ञानानां विरोधाद्वाध्यबाधकभावस्य निष्ठाैव न लभ्येति सुतरां सत्येतरविभागस्य विलोप आयातः।