शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 135, कुल 188 में से
संदर्भ में पढ़ें११८ शिवदृष्टिः [ आ०-४ मानस्य स्वरूपदेशत्वात् । सर्वथा यथा यत् प्रतिभातं, तथैव तत्, नान्यथा कर्तुं शक्यते इति सत्यमेव न किञ्चिन्मिथ्यात्वम् । एतच्च ईश्वरप्रत्य१- भिज्ञानोऽवसेयम् ॥ १८ ॥ व्यवहारस्य बाधा चेद्व्यवहारे यथेष्टता । क्वचित्सत्यसुवर्णस्य प्रत्यन्ते व्यवहारिता ॥ १९ ॥ कूटकार्षापणादौ वा व्यवहारोऽपि दृश्यते । तावता व्यवहारो वा यदाह्लादमात्रकम् ॥ २० ॥ अर्थक्रियासमर्थत्वमेतदेवास्य वास्तवम् । व्यवहारोऽपि यदि बाध्यते रजतव्यवहारो न कर्तव्य इति । तदपि न व्यवहारस्येष्टस्य प्रवृत्तेः । न तद्वशेन सत्यासत्यविभागः । तथाहि प्रत्यन्तदेशे क्वचित् सत्यसुवर्णस्य तथा व्यवहारो, यादृगयसः । कूटकार्षा- पणादिना च राज्ञ इष्टत्वात् दृश्यते व्यवहारः । अथवा यदाह्लादमात्रकं, तावतैव व्यवहारः । एतदेव चाह्लादकारित्वमर्थस्य अर्थक्रियाकारित्वे स्वसंवेदनसिद्धत्वेन, भ्रान्तत्वाद्वास्तवस्वप्नजलस्य पानाद्यर्थक्रिया भ्रान्तापि स्यात्, तृणिनवृत्त्या तु तृप्तिः स्वसंवेदनसिद्धा न विसंवदति । सापि चाह्लादिका अर्थक्रिया कूटादेः स्वप्नजलादेर्वा स्यात्, तदपि सत्यं व्यवहार्यं चेति व्यवहारेऽपि न बाधस्थितिः ॥ नह्यालम्बनता युक्ता संनिधाननिबन्धना । तदेवालम्बनं बुद्धेर्यदस्यामवभासते ॥ अन्यदालम्बनमन्यद्भातीति भणितिर्न वा ॥ इति । १ तदत्रैत्थं संक्षेपः-- 'स्वरूपमेव खल्वेतद्गृह्णात्यात्मानमात्मना । बहिर्निरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ स्वरूपं सतताभासं तेन तेनात्मना बहिः । तद्वहत्यर्थशून्यं वै लोकयात्रामिहेदृशीम् ॥' इति ।