शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 134, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११७ अथ यदि रजतानुभवगता बाधा इष्यते । तन्न । न हि अनुभूतो विषयोऽननुभूतो युक्तः । अथ रजतद्विचन्द्रादिज्ञानकारणमिन्द्रियम१- निन्द्रियमिति बाध्यते । तन्न । न हि बाधकेनेन्द्रियस्यान्ध्यमभावः कर्तुं शक्यं, तद्रजतादिज्ञानकाले यादृगिन्द्रियं तस्य तदानीं घटादीनामुपलब्धेः । अथ कालान्तरे२ यदा बाधकोत्पत्तिः, तदा तस्यानवस्थानाद्बाधः । तत्का- लान्तरस्थितेर्बाधोपगमे तदानीन्तनसम्यग्ज्ञानैरपि मिथ्याज्ञानानां समत्वं नाम बाधः प्राप्नोति । न चैवं युक्तं, वर्तमानकालभाविनां घटादिज्ञानानां सम्यक्त्वेन संभवात् । अथेन्द्रियविषयादीनां संबन्धे बाधः । तन्न । संबन्ध- बाधे हि कथं ज्ञानजननम् । तस्माद्यावत्संभवं विकल्पने सर्वथा रजतादि- प्रतीतौ न किंचिन्निषेद्धुं शक्यते--इति न कश्चिद्बाधार्थः । शुक्तिका३ रजतं न भवतीति च न बाधः । न हि रजतत्वेन शुक्तिका प्रतिपन्ना इति वा प्रतीतेः, शुक्तिदेशावष्टम्भेन४ इत्यपि न किंचित् सर्वस्यैव प्रकाश- तत्त्वेन विषयस्य तस्य परिहर्तुमशक्यत्वादित्यर्थः । नहि बाधकं ज्ञानमित्थ- मुत्तिष्ठति यत्प्रतिभातं तन्न प्रतिभातमितीति भावः । १ न तावदिन्द्रिय- मेवंविधबोधविधायि भवितुमर्हति सर्वदा तदुत्पादप्रसङ्गादिति भावः । अत्राहुरन्ये दोषकलुषितमत्रेन्द्रियमिति । तदप्ययुक्तम् । दुष्टं कारणं स्वकार्य- करण एव कुण्ठितशक्ति जातमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्तते, न दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलमवलम्बेरन् तस्मात्कारणाभावादपि न बाधः । २ कालान्तरे बाधकोत्पत्तिः शुक्तिज्ञानं, शुक्तिज्ञाने सति रजतज्ञानस्यानवस्थितत्वं बाधः तदयुक्तमित्याह तत्कालेति । यदि हि तदानवस्थितत्वमेव बाधः, तर्हि तदानीन्तनानां सम्यग्ज्ञानानामपि शुक्तिकाज्ञानकालेऽनवस्थितत्वात्तेषामपि बाधप्रसङ्ग इत्यर्थः । ३ आचार्य- धर्मकीर्तिमतिमाह शुक्तिकेति, यथा शुद्धं भूतलं घटाभावः तन्निबन्धनत्वाद्- घटाभावव्यवहारस्य, ततः शुद्धभूतलज्ञानमेव यथा घटाभावज्ञानं तथैव शुक्तिकाज्ञानगतयथार्थप्रकाशनलक्षणप्रामाण्यसंवेदनमेव शुक्तिज्ञानस्वसंवे- दनानतिरिक्तं यत् प्रकाशेत तदेवोच्यते, शुक्तिविपरीतरजतज्ञानगता- यथार्थस्वभावाप्रामाण्यसंवेदनं स एव बाध इत्यर्थः । अत्रोत्तरमाह नहि रजतत्वेति । अयं भावः यदि शुक्तिका रजतत्वेन प्रतिपन्नेति तदा भवेत्प्र- तीतिरियं तदभावेऽतिप्रसङ्ग इत्यर्थः । ४ अथेदानीं सर्वथा शुक्तिरजतादौ प्रतीत्यनुदयात्तदाधारकल्पनया बाधमाह । अयं भावः--