शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 133, कुल 188 में से
संदर्भ में पढ़ें११६ शिवदृष्टिः [ आ०-४ अकाले जननं किंचिद्बाध्यते वा जनिक्रिया । कृत्वा कार्यं क्रिया याता गतायां किं प्रबाध्यते ॥ १६ । बाधके च प्रमाणे सति नेदं रजतं नेदं रजतं शुक्तिका,-इति निषेधनिष्ठतया प्रतीतौ¹ मिथ्यात्वं स्यात् । तेन² बाधकेन प्रमाणेन मिथ्यात्वं कार्यम् । तत्कस्य क्रियते, तत्र किं यस्मिन् काले तद्रजतता भवेत् । स काल एव न भवतीति मिथ्यात्वमित्यभ्युपगमः । तन्न । नैव हि अकाले कालाभावे कस्यचिज्जननं नाम किंचित्कालरहितायाः क्रियाया अयोगा- दित्यर्थः । जनिक्रिया वा यदि बाध्यते, तन्न । रजतादिकार्यं कृत्वा क्रिया समाप्ता । तस्या असत्याः को बाधार्थः स्वयमेव तस्या अभावात् । इदानीं³ च बाधविषयस्याभावात्को बाधः ॥ १६ ॥ अथानुभवगा⁴ बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥ १७ ॥ तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥ १८ ॥ निश्चयः, किंतु परमार्थसत्यत्वेनैव सर्वो व्यवहारः सम्यक्त्वमिथ्यात्वरूप ऽति साधयति मिथ्यात्वमित्यादिपूर्णवाक्यार्थसमन्वयः । अत्र वादिन आहुः विकल्पबलादेवैतत्सिद्ध्यतीति न 'तथैवास्तु शिवावस्था केनासौ विनि- वारिता' इति । तथाहि समस्तान्तर्बहिर्व्यवहारव्यापकसत्यासत्यप्रविभाग- निश्चयनिबन्धनभूतोऽस्ति ह्ययं बाधव्यवहार इति तदेतदनुपपन्नमित्याह मिथ्यात्वमिति । १ प्रतीतौ--रजतज्ञाने । २ तेनेति, अयं भावः--किमिद- मुवतं तथा तथा सम्यङ्मिथ्यात्वाभ्यां चिदभिव्यक्तेः शिवोदयात्सर्वोऽयं चित्रप्रसरमय इति । बाधकेन प्रमाणेन मिथ्यात्वस्य मिथ्याकल्पितत्वात्, ततश्च व्यवहारसत्यत्वमेव सत्यत्वमिति न सर्वत्र सर्वथा तथात्वमिति नैतत्सिद्धमित्याह तत्कस्येति । करयेति सामान्येन निर्दिष्टं विशेषेण विकल्प- यति तत्रेत्यादि । ३ शुक्तिकाज्ञाने । ४ तदेदं कार्याभावे बाधदूषणमुक्त्वा कारणत्वेऽपि बाधव्यवहारस्य दूषणमाह अथानुभवेति, तत्रादौ तावत् कार्यकारणयोर्मध्यमवलम्ब्य पृच्छति यदीति । तथाहि विषयापहारो हि बाध इति ते विदुः । सोऽपि न कथंचनाप्युपपन्न इत्याह तन्नेति प्रतिभा-