शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 140, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२३ क्रियते ह्यसती वाथ सत्याः १ किं नोपलब्धता । व्यक्त्य २ भावादानन्त्यमसत्या ३ हानिसंभवः ॥ ३६ ॥ स्वयमेवाश्रिते ४ पक्षे तद्वद्वा वस्त्वसद्भवेत् । अथ यदि सद्रूपं कार्यं नोपपन्नं सतः ५ करणं विफलं यस्मात् । अथ ६ सतः स्वरूपं न क्रियते अपि तु तस्याभिव्यक्तिस्तदपि न युक्तं, यतः सापि किं सती क्रियेत अथा सती ? तत्र सती चेदभिव्यक्तिस्तत् किं क्रियते किमिति कार्यस्य नोपलब्धता । अथ सत्त्वेऽपि अभिव्यक्तेरभिव्यक्त्यभावात् कार्यं नोपलब्धम्, तदभिव्यक्तेरपि अभिव्यक्तिः ७ क्रियते इति तत्रापि पूर्वोक्ता- त्पातादानन्त्यमनवस्था, ततश्च ८ प्रकृतकार्यदर्शनानिवृत्तिः । अथासती ३ क्रियतेऽभिव्यक्तिस्तदसत्याः करणे स्वयमाश्रितपक्षहानिप्रसङ्गः १० । अनवस्था- परिहारार्थं वा अभिव्यक्तावसत्करणाश्रयणेऽभिव्यक्तिवत् ११ वस्त्वपि अङ्कुरादिकमसदेव सत्कार्यमस्तु किमर्धजरतीयेन ॥ ३६ ॥ नैवं यस्मात्तां १२ विहाय सर्वत्रान्यत्र सत्क्रिया ॥ ३७ ॥
स्वमतं साधयति सत्कार्यमित्यादिना । १ अभिव्यक्त्याः । २ व्यक्तेः सत्या अपि अव्यक्तभावादसत्यत्वमिति । ३ अतोऽभिव्यक्तेः पूर्वं सद्वा अस्त्वसद्वा, तत्र न फुटमस्य कार्यत्वं, व्यक्तौ हि कार्यत्वं, तस्यां चासत्यां सत्कार्य- वादोऽनुपपन्न इत्यर्थः । ४ यदुक्तं तदभिव्यक्तेरप्यभिव्यक्तिरिति तु न स्वयं त्वभिव्यक्तिः सत्यैवेति । ५ अनुपपन्नतामेव दर्शयति । ६ यतो विफलतादोषप्रसङ्गः । ७ इत्यभिव्यक्तिरुपलब्धतां करोति । ८ ननु कार्य- सिद्ध्यर्थमस्त्वनवस्था, नेत्याह ततश्चेति । 'एवमप्यनवस्था स्याद्या मूलक्षतिकारिणी ।' इत्युक्तम् । ९ कार्यं तु सदेव । १० एकत्र सदन्यत्रासदिति हानिः, सा च न सर्वथा भाव एवेत्यर्थः । ११ ननु च-- 'वस्तुनिर्णयशून्याभिर्बोधिताभिः परस्परम् । अभिमानैकसाराभिर्जिह्री मस्तर्कबुद्धिभिः ॥' इति न्यायाश्रयेण स्वानुभवदृढप्रमाणरक्षिते सत्कार्यत्वे सिद्धे तर्कदोष- माश्रयतो न कदाचनापि दोधूयमानस्यावलम्बः स्यादिति प्रौढोक्त्याभि- व्यक्तावस्त्वसत्कार्यत्वमित्यत आहाभिव्यक्तिवदिति । १२ तामभिव्यक्तिम् ।