शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 142, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२५ दीपेन १ क्रियते व्यक्तिर्घटादेः सत एव वा ॥ ४२ ॥ यथा सतः क्रिया व्यक्ति २ र्व्यक्तेः सत्त्वे तथा कृतिः । एकेनापरतुल्यत्वान्न च वाऽसत उद्भवः ॥ ४३ ॥ किमाश्रित्य प्रवर्तन्ते तदभावस्वरूपतः । नैवैतदपूर्वम् । प्रदीपेन हि घटादेः सत एवाभिव्यक्तिः क्रियते इति पदार्थ एव क्रियते । ततश्च यथा सतो घटादेर्व्यक्तिसंज्ञा क्रिया तथा व्यक्तेरपि पदार्थरूपायाः सत्या एव प्रदीपादिना कृतिः, बीजादिना वा अङ्कुररूपाया इति सर्वत्र तुल्यः सत्कार्यवादः । यतः पदार्थेन सता कार्येण व्यक्तेरपि तदभिन्नायास्तुल्यत्वम् । व्यक्तिश्च प्रकाशमानता प्रकाशात्मता, अङ्कुरादेरनादिनिधनस्य ४ सत एव चित्प्रकाशस्य तेन तेन आत्मना १ तदेवं-- ‘.........न च वा व्यतिरेकत । व्यक्तिः स्थिता पदार्थानां......... ॥’ इत्युक्तम् । अथेदानीमनयोः सामानाधिकरण्यमेव साधयति दीपेनेति । ननु च यदि सन्नैव, तर्हि तस्याभिव्यक्तिर्नाम किम् । अथाभिव्यक्त्या स्वरूप- लाभस्तर्ह्यभिव्यक्तिरेवास्तु, कृतं सत्कार्यवादेनेत्यत आह दीपेनेति । २ तेन नात्र सत्त्वव्यक्त्योर्भिन्नमधिकरणं समानस्वरूपत्वात् । ३ इत्थं युक्त्या सत्कार्यवादं प्रसाध्येदानीमनुभवेनापि स्वमतेन साधयति न च वेत्यादि । ४ ननु च यदि सदैव कारणे कार्यं, तर्हि केयं व्यक्तिर्नामेत्यत आह व्यक्तिश्चेति । यतोऽत्र सर्वतत्त्वभुवनकलापदार्थतत्तदवान्तरभेदानुगतं महासामान्यरूपं यत्तदेवानादिनिधनं शिवत्वं नाम चित्स्वरूपत्वं, तत्र कार्यरूपतयावस्थानं न किंचित् कारणरूपतयैवावस्थानात् । परंतु यदा तत्रैव विशेषानुगमेनापरसामान्यमिव कल्पितं रूपं तत्कार्यमित्युच्यते, ततश्च कथं कुत्रासत्कार्यत्वमिति सूक्ष्मोऽयं नय इत्याह अनादिनिधनस्येति, तेन तेनेत्यादि च । अनयोर्वास्तवभेदमेव कथयितुमीश्वरप्रत्यभिज्ञायामपि- ‘या चैषा प्रतिभा तत्तत्पदार्थक्रमरूपिता । अक्रमान्तश्चिद्रूपः प्रमाता स महेश्वरः ॥’ ( १।७।१ ) इत्युक्तम् ।