शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 143, कुल 188 में से
संदर्भ में पढ़ें३२६ शिवदृष्टिः [ आ०-४ अवस्थानमित्यभिव्यक्तिवादिना सत्कार्यवाद उक्तो भवति । यदि१ चासतः कार्यस्योत्पत्तिस्तदा कारकाणि किमाश्रित्य किमुद्दिश्य प्रवर्त्तन्ते व्याप्रीयन्ते, कार्यकारणभावस्य२ क्रियाकारक संबन्धमानत्वेन ईश्वरप्रत्यभिज्ञायां प्रवर्त्तनं पाकाद्यारम्भे रूपमिव चोदितम् । अथवा३ किमुद्दिश्य प्रवर्त्तन्ते कस्मिन्विषये तेषां सामर्थ्यं, विषयाभावे सामर्थ्यस्यानुपपत्तेर्विषयसापेक्ष रूपत्वात् तस्य४, विषयस्य च कार्यस्य तदानीमभावस्वरूपत्वात्५ ॥ ४३ ॥ घटान्तरं६ पूर्वदृष्टमाकलय्याथ चेष्टनम् ॥ ४४ ॥ अन्येनान्यस्य कलनासम्भवादतिचित्रता । अथ कारकाणां चेष्टनं व्यापारः सामर्थ्यं वा पूर्वोत्पन्नदृष्टाङ्कुर- कलनेन, तद्युक्तं७ बीजादीनामचेतनत्वेनाकलन भावात् । यत्रापि सचेतनं १ ननु चास्तु महासामान्यकल्पमनादिनिधनं शिवतत्त्वं नाम तथापि सत्यां मृदि घटो वह्न्याभासे धूमाभास इति यथा तथा बीजे सति अङ्कुरो जायते इत्येवं लोके कार्यकारणभावस्य दृष्टत्वात्कथं चिद्रूपस्य तत्र कारणता येन नासत उत्पत्तिरित्यत आह यदि चेति । २ अयं भावः--यदि च चिदनुसन्धानं विनापीदं पूर्वस्य सामर्थ्यं परस्य सत्तेत्यादि सिद्ध्यति, तदा भवेद्भवदुक्तेरवसरोऽसतः कार्योत्पादे । तत्तु न कथंचनापि स्वात्ममात्र- निष्ठानां परत्र विषयेऽनभिज्ञातमात्रालेशानामनुसंधानरहितानां जडाना- मुपपद्यते । एकानुसन्धानविषया हीयं सर्वापि कार्यकारणभावव्यवहार- सरणिरित्येतत्संक्षिप्याह कार्यकारणभावस्येत्यादि । ३ अर्थान्तरमाह अथेवेति । ४ तस्य सामर्थ्यस्य । ५ तदानीं व्यक्तेः प्राक् । ६ ननु किमिद- मुच्यते विषयस्य तदानीमसत्त्वात्कस्मिन्विषये तेषां सामर्थ्यमिति । यदि चेयन्मात्रमेवात्र साध्यं यत्पूर्वमपि सापेक्षत्वमिति, तदा सिद्धमेतत्, यतः पूर्वोत्पन्नमप्यङ्कुराद्यस्ति तत्सापेक्षत्वेन सर्वं सिद्ध्यतीत्याशङ्क्याह घटा- न्तरमित्यादि । ७ इदमत्र तात्पर्यम्--इदं हि वक्तव्यं किं कुम्भकारोऽपि घटकर्ता देहादिरूपः, उतस्वित्तद्व्यतिरिक्तः कश्चन चेतनोऽपि । यदि च देहादिर्जडरूपः, तदत्र वक्तव्यं बीजादिभ्योऽचेतनेभ्यः कोऽस्य विशेषः तेषामपि जडपक्षीकृतत्वादाकलनासंभवात् । अथ तद्व्यतिरिक्तश्चेतन- स्तथापि किमित्याह यत्रापि सचेतनमिति, किमायातमिति । नहि तस्य तत्कारणं संपन्नं येन सापेक्षत्वमपि तु अन्तः कुम्भकारसंविदि स्फुरन्नेव बहिर्निर्गच्छतीति ।