शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 152, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३५ अप्रत्यक्षस्यात्मादेः शशशृङ्गादेश्चासततः कथमात्मादिशब्देन शश- शृङ्गादिशब्देन च खपुष्पस्यापि खपुष्पशब्देन योजनम् । नैवं दोषः, असता- मेव हि शब्देन व्यवहार्यता शब्दानामसद्विषयत्वात् यदि, तदेवं हि सर्वस्य संसारस्य नाशः प्राप्नोति । तद्व्यनक्ति असत्येन शब्दव्यवहारेण तादृशम- सत्यमेव जगद्द्भवेत् जगतश्च प्रतिभासमानशब्द ॥ ❀ तथाभिनवजातस्य तन्नाम्ना संगमः कथम् । तत्संगमस्यासत्यत्वे यन्त्रवश्यादिकं कथम् ॥ ७५ ॥ तस्मादैक्येन तत्त्वस्य सर्वं तदपि युज्यते । व्यतिरिक्तेन शब्देन मन्त्रेणानतिरेकिणा ॥ ७६ ॥ कथं न देवदत्तस्य यज्ञदत्तवदाख्यया । अत्र संकेतितत्वाच्चेत् संकेतेनात्र किं कृतम् ॥ ७७ ॥ संयोगश्चेन्न दूरेषु मूर्तामूर्तेषु युज्यते । शब्दस्योच्चारितध्वंसान्नष्टानष्टद्वये न च ॥ ७८ ॥ वाच्यवाचकरूपश्चेत्तस एष नियमः कुतः । यत्तस्य वाचकत्वं हि वाच्यत्वमपरस्य तु ॥ ७९ ॥ वाच्यवाचकरूपत्वे वाच्यवाचकतान्वयः । इतश्चास्ति जगत्यैक्यं प्रत्यक्षाग्रहणादपि ॥ ८० ॥ स्वलक्षणेन योगित्वाद्व्यवहारस्य सर्वतः । लोके चानुपपत्तेश्च प्रमा च व्यवहारगा ॥ ८१ ॥ बालमूकादिविज्ञानसदृशी कीदृशी क्रिया । सविकल्पस्य योगित्वाद्यथावस्तु ग्रहः कथम् ॥ ८२ ॥ तेन ज्ञेयमेकमेव वस्तु भिन्ने ग्रहः कुतः । तथानुमानं न भवेद्धूमाग्न्योरन्वये क्वचित् ॥ ८३ ॥ ❀ अतः परं व्याख्या न लभ्यते ।