शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 153, कुल 188 में से
संदर्भ में पढ़ें१३६ शिवदृष्टिः [ आ०-४ अपूर्वयोगंगृहीतेऽपि तत्कालं गतयोर्द्वयोः । अगृहीते न गृहीतः सम्बन्धोऽग्निः प्रतीयते ॥ ८४ ॥ सामान्यमविशेषं चेदविशेषात्कुतः प्रमा । विशेषस्याप्यपूर्वत्वे कथं चास्ति समन्वयः ॥ ८५ ॥ सादृश्यादथ चेन्नास्ति याथात्म्येन समागमः । न च वात्रानुमानत्वं धूमतः केवलाद्भवेत् ॥ ८६ ॥ तत्सम्बन्धादथोच्येत सम्बन्धे द्विष्ठता न च । द्विनिष्ठत्वादेकतरग्रहणान्नापि तद्ग्रहः ॥ ८७ ॥ धूमदृष्ट्याथ कल्प्येत वह्निस्तद्योगितापि च । इतरेतरदोषोऽत्र दुर्নিবারः प्रसज्यते ॥ ८८ ॥ यावन्न वह्निकल्पना न योगकल्पना भवेत् । यावद्वा योगकल्पना न वह्निकल्पनाक्षमा ॥ ८९ ॥ आप्तवाक्यादथास्तोह तत्सत्यत्वेऽदृढा मतिः । न राजते ह्ययोवक्ता सत्यभाषी कदाचन ॥ ९० ॥ सोऽप्यन्यथा प्रदर्शयेताक्षयतो रागद्वेषयोः । पित्रादेरप्यसत्यत्वं तत्रान्यत्र न निश्चयः ॥ ९१ ॥ तस्मान्न भेदे भावानां तद्ग्रहाद्यपि युज्यते । क्षणभंगपरामर्शादप्येतदुपपद्यते ॥ ९२ ॥ शक्ताशक्तविकल्पैर्हि दीपज्वालाद्युदाहृतैः । स्थिरता नोपपन्ना ते प्रत्यक्षेणापि च स्थिता ॥ ९३ ॥ स्थिरत्वं क्षणिकत्वं च प्रमाणां चिन्तया स्थितम् । अप्यसंवादरूपं च विरुद्धं तत्कथं भवेत् ॥ ९४ ॥