शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 154, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता १.३७ यावन्न सर्वभावानामेकत्वेन व्यवस्थितिः । परेण क्षणभंगस्य परामर्शगमः कुतः ॥ ९५ ॥ ततोऽप्येतच्छिद्वात्मत्वं भावानामुपपद्यते । तथार्थावगतिर्वाक्यात्पदाद्वा नोपपद्यते ॥ ९६ ॥ क्षणिकत्वेन शब्दानामनभिव्यक्तितोऽपि वा । स्फोटाभिव्यंग्यपक्षे तु तत्रापि क्रमता कथम् ॥ ९७ ॥ निर्भागत्वात्स्फोटतत्त्वे स्फोटतत्त्वात्मकात्कथम् । आभासरूपवस्तूनां शाब्दिकान्नो भवेद्ग्रहः ॥ ९८ ॥ तस्मादेवंविधेऽर्थेऽपि युक्तता स्यादिहैक्यतः । तथात्मेच्छावशान्नाक्षग्रामे चेष्टोपपद्यते ॥ ९९ ॥ मूर्तंचोदकवैकल्यान्मनश्चेत्प्रेरितास्य नो । एकत्वे पुनरीदृक् स्यात्सर्वत्रैव हि युक्तता ॥ १०० ॥ न चापि भेदे भावानां ग्रहणं ज्ञानमेव वा । संयोगेनोपपद्येत यदि दृष्ट्यादिना भवेत् ॥ १०१ ॥ नैवमक्षार्थसंयोगमात्रात् किं बोद्धुरुद्यमः । संयोगेऽन्यस्य सञ्जाते कथमन्यस्य बोद्धृता ॥ १०२ ॥ मनसोऽभिन्नकालत्वात् स्मृतिज्ञानमथोच्यते । प्रारब्धश्चासमाप्तश्च वर्तमानः क्रियामनु ॥ १०३ ॥ प्रक्रियामात्रमेवैतद्यतः पूर्वापरात्मता । क्रियायाः कारकाणां हि क्रमोऽस्त्येव स्वकर्मणि ॥ १०४ ॥ यत्र पूर्वापरौ शब्दौ कालैक्यं तत्र युज्यते । मनसा नीयते तस्य किं पदार्थस्वरूपता ॥ १०५ ॥