भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 155, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 155

•१३८ शिवदृष्टिः [ आ०-४ साशक्या मूर्तरूपत्वाद्रूपं चेन्न कथं गुणः । गुणिनो नीयतेऽन्यत्र तृषार्तश्चाकृतिं प्रति ? ॥ १०६ ॥ अथ ज्ञानं न मनसस्तज्ज्ञानमुपपद्यते । करणत्वाज्जडत्वाच्च तस्य चेदात्मनात्र किम् ॥ १०७ ॥ करणे ज्ञानसम्बन्धाद्वाह्यार्थे किं न कल्प्यते । बुद्धेर्गुणत्वं मनसि प्राप्नुयादथ चेतसा ॥ १०८ ॥ एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते । तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥ १०९ ॥ वर्णनेन च चैतन्यमेतावन्मनसो यदि । स्वात्मशक्तिसमावेशादमूर्तविशता कथम् ॥ ११० ॥ तेन वा सम्प्रतीतेऽर्थे क्रियते किं तदात्मना । तत्स्वरूपआत्मसंयोगः संयोगोऽभिन्नदेशयोः ॥ १११ ॥ मनसावेदितार्थस्य तद्देशित्वमथोच्यते । वर्णिते योगिता कस्य यदि वा तत्स्वरूपतः ॥ ११२ ॥ संस्करोति तदात्मानममूर्तेः संस्कृतिः कथम् । तद्रूपमात्मन्येतद्येनाश्लेषो यदि चोच्यते ॥ ११३ ॥ चैतन्येनाप्यमूर्तेन मिश्रतान्यस्य कीदृशी । किं स्वयं तत्प्रमेयत्वमस्य चेदतिरेकतः ॥ ११४ ॥ मनसा किं किमक्षेण तेन चेत्तत्परम्परा । एवं तदन्धपारम्पर्यत्वरूपमिदं स्फुटम् ॥ ११५ ॥ किमात्मप्रेरणेनात्र ज्ञातेऽज्ञातेऽथवा बहिः । ज्ञाते तु ज्ञानरूपत्वात् प्रेरणं केन हेतुना ॥ ११६ ॥