भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 156, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 156

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १३६ अज्ञातेऽमुत्र याहीति प्रेर्यते केन मानसम् । प्रेर्यप्रेरणतत्कर्तृ द्वयक्यिादुपपद्यते ॥ ११७ ॥ तस्माज्ज्ञेयं समग्रैक्यवस्तु शैवं व्यवस्थितम् । तथास्मरणयोगाच्च स्मर्यते किं तथाविधम् । ११८ । तादृग्दृष्टं दृष्टता स्यादथवा ज्ञानमेव तत् । दृष्टस्मरणयोरैक्ये स्थिते तदुपपद्यते ॥ ११९ ॥ तथा सा प्रत्यभिज्ञानात्स एवायमिति स्थितिः । युज्यते कथमत्रैव ज्ञानयोः कालभिन्नयोः ॥ १२० ॥ द्वयोरैक्यमनैक्यं वा तदैक्यं भिन्नयोः कथम् । अनैक्ये न स एवायमिति स्याद्घटदण्डयोः ॥ १२१ ॥ तस्मादैक्यमिह स्पष्टं संसारे समवस्थितम् । एषैव वार्ता संयोगे वस्तुरूपतया स्थिते ॥ १२२ ॥ परस्परेण चाप्यत्र तेषां रूपेण वान्यथा । तस्मात् समस्तभावानामैक्येनैवास्ति संगमः ॥ १२३ ॥ शिविकोद्वाहकानां च न्याय एषोऽनुवर्तताम् । परचित्तपरिज्ञानात्तस्माज्ज्ञैयैक्यया ततः ॥ १२४ ॥ सार्थसेना वनाद्यात्म जगत्यैक्यं स्फुटं स्थितम् ॥ इति श्रीशिवदृष्टौ अनुपपत्तिचोदनालक्षणं चतुर्थ- माह्निकं सम्पूर्णम् ॥

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 156, कुल 188 में से · BharatKosha