भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 157, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 157

अथ पञ्चममाह्निकम् अथ चेत् सर्वभावानां न विना तत्त्ववेककम् । समन्वयोऽस्ति तदिदं कथमैक्यं विभेदितम् ॥ १ ॥ तदपि सर्वदास्तीह तदर्थमिह वर्ण्यते । यथा सर्वेषु भावेषु समतास्त्येकरूपता ॥ २ ॥ न जातुचिद्विभेदित्वं तथा तदुपकर्णताम् । चित्त्वात् सर्वपदार्थानां विशेषः केन कथ्यताम् ॥ ३ ॥ विभेदेष्वपि तद्व्याप्त्याभेदेष्वप्येकता स्थिता । इच्छावन्तः सर्व एव व्यापकाश्च समस्तकाः ॥ ४ ॥ अमूर्ताश्च तथा सर्वे सर्वे ज्ञानक्रियात्मकाः । प्रभवश्च तथा सर्वे इच्छामर्शस्तथाखिलाः ॥ ५ ॥ सर्वे स्वात्मपरिच्छेदवन्तो नित्यमवस्थिताः । विकासाह्लादवन्तश्च सर्वे निर्वृतियोगिनः ॥ ६ ॥ घटादीनां समस्तानामिच्छादेरल्पतास्ति चेत् । अन्यत्र देहे सर्पादौ दीपादौ नाग्नितल्पके ॥ ७ ॥ स्वल्पतेजसि दाढ्र्चाद्वा सर्वत्र शिवतुल्यता । भवेदिच्छादिविषये सर्वत्र प्रविसारिणी ॥ ८ ॥ दुःखादिना विशेषश्चेत् तत्राप्यशिवता न च । दुःखेऽपि प्रविकासेन दुःखार्थे धृतिसंगमात् ॥ ६ ॥ दृश्यते बन्धनं तेषु धृतिः कीटादिके तथा । निर्वृत्या यत्र योगोऽस्ति तत्रैव शिवता स्फुटम् ॥ १० ॥ अथ चेच्चिद्वतामेतद्वक्तुं युक्तं कदाचन । पृथिव्यादेर्हि मूर्तस्य घटादेर्वा न युज्यते ॥ ११ ॥