भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 158, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 158

आ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५ नैवं घटस्य चैतन्यमस्ति ज्ञानात् स्वकर्मणि । नाज्ञात्वा कर्तुमिष्येत तथाचिदवबोधनात् ॥ १२ ॥ प्रकाशज्ञानजननाज्जनः कर्ता जडे कथम् । जडेन व्यज्यते नापि चैतन्यमजडात्मकम् ॥ १३ ॥ चेतनेच्छावशाद्बाह्यसम्पत्तेरजडः कथम् । तिष्ठत्यादिक्रियायां हि कर्तृत्वं न जडे भवेत् ॥ १४ ॥ कर्तृत्वमुपचाराच्चेत् क्रियाया अप्यसत्यता । प्रयोज्यत्वमथोच्येत प्रवृत्तं हि प्रवर्तते ॥ १५ ॥ जानन् कर्तारमात्मानं घटः कुर्यात् स्वकां क्रियाम् । अज्ञाते स्वात्मकर्तृत्वे न घटः सम्प्रवर्तते ॥ १६ ॥ स्वकर्मणि ममैतत्तदित्यज्ञानान्न चेष्टनम् । कूलं पिपतिषति गोर्व्यवहारः प्रसिद्धयति ॥ १७ ॥ घटादेर्भवता ज्ञातमाचैतन्यं कथं यदि । चेष्टोन्मेषाद्यभावात्तन्मूर्छिते किं करिष्यसि ॥ १८ ॥ प्राणाद्युन्मेषविरहादभिव्यक्तं नु कस्य तत् । सर्वचैतन्यवादे तु चार्वाकोऽत्र न सिद्ध्यति ॥ १९ ॥ प्रत्येकं परमाणौ चेच्चैतन्येऽनेकचेतनाः । घटादयः प्रसज्यन्ते परमाणुकथा न हि ॥ २० ॥ तथा वा शिवतत्त्वस्य सम्भूतेरथवा तथा । एकैकशोऽस्ति चैतन्यमनभिव्यक्तरूपकम् ॥ २१ ॥ इतश्च तेऽपि चिद्वन्तः स्वात्मनि ज्ञानयोगतः । स्वयमेव न चेज्ज्ञानमात्मन्येषां प्रजायते ॥ २२ ॥ नान्यथा ग्रहणं तेषां देवदत्तेन चेद्द्भवेत् । देवदत्तोऽत्र किं कुर्याच्चक्षुश्चेत् प्रेरयेद्घटे ॥ २३ ॥ गोलकं न प्रयातीह शक्तेरव्यतिरेकतः । शक्तिमद्भोगतायां वा तत्रैव यदि वेदनम् ॥ २४ ॥

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 158, कुल 188 में से · BharatKosha