शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 161, कुल 188 में से
संदर्भ में पढ़ें१४४ शिवदृष्टिः [ आ०-५ न चापि वह्निर्जनकः काष्ठेष्वेव हि दर्शनात् । अत एव यत्र वह्निर्भास्वान्नो धूमिताऽत्र तु ॥ ५१ ॥ सन्निधानादथाग्नेश्च चुल्लयादेः सन्निधिर्न किम् । धूमेन जन्यते ज्ञानं वह्निरत्रेति ते यदि ॥ ५२ ॥ कुत्र तेऽन्यत्र दृष्टत्वात्तद्दृष्टेरग्निदृष्टता । अत्रेति धर्मिता कस्य पर्वतादौ समस्तके ॥ ५३ ॥ तत्सामस्त्यस्याग्रहणाददृष्टे धर्मिता कुतः । दृष्टश्चेत् सर्वघटवत्तदङ्गस्याग्निदर्शनम् ॥ ५४ ॥ स्वार्थानुमानं नैवं चेन्न शब्दैरन्तरे स्थितम् । अग्निरेषोऽत्र धूमो वा दर्शयेन्न ह्यदर्शने ॥ ५५ ॥ एष इत्यपदिश्येत तज्ज्ञानं जनयेत् कथम् । करणत्वे कर्त्रपेक्षा कर्तृत्वे तदपेक्षता ॥ ५६ ॥ वह्नेस्तु तत्रापेक्ष्यत्वे जनकत्वं व्यवस्थितम् । यच्च यद्विषयं ज्ञानं तज्जन्यं तस्य दृष्टवत् ॥ ५७ ॥ धूमादग्निप्रतीतिश्च न चायं नियमः स्थितः । कक्षभूर्जादिजो वह्निर्गुहाकारे ज्वलन् गृहे ॥ ५८ ॥ महान्तं धूममुत्पाद्य तत्कालं वारिणा हतः । तत्र केवलधूमास्था न वह्निप्राप्तिरस्ति ते ॥ ५६ ॥ तस्मात्तद्व्यपदेशो न वह्निः स्वं विनिवेदयेत् । वीक्ष्यात्मना तथात्मानं विनीतवदवस्थितम् ॥ ६० ।, एतयैव दिशा दूष्यं स्वभावाद्यमसंशयम् । परानुमाने पक्षादौ धर्मादेर्भेद्यभेदिता ॥ ६१ ॥ अनुमानस्यान्यथान्यैर्दूषणा प्रविधीयते । अवस्थादेशकालानामियादिभिरुदाहृतैः ॥ ६२ ॥ यत्र देशे च काले च प्रवृत्तिस्तत्र संगमः । तत्रैव व्यवहारित्वसम्बन्धान्तरतायतः ॥ ६३ ॥