शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 162, कुल 188 में से
संदर्भ में पढ़ेंआ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४५ न चापि स्थिरभावानां क्वाप्यस्ति व्यभिचारिता । सूर्यः प्रकाशकः क्वापि काले देशेऽन्यथा भवेत् ॥ ६४ ॥ शब्दैरर्थाः प्रतीयन्ते सर्वत्रैवं क्व निश्चयतः । स्फोटादर्थप्रतीतिश्चेद् व्यज्यते तैः क्व निर्णयः ॥ ६५ ॥ तस्यापि सर्वदेश्यत्वान्निश्चयः केन लभ्यते । भोजनादेरचेष्टत्वे व्यवहारविलोपिता ॥ ६६ ॥ अनुमानं न चास्तीति पक्षादिर्नोपयुज्यते । गोपालघटिकान्यैश्च घटिता न ह्यसम्भवात् ॥ ६७ ॥ न भांडे शक्यते धूमः प्रवेष्टुं वह्निवर्जिते । तस्माद्वर्णनिकैवेयं परस्यान्धाय कल्पिता ॥ ६८ ॥ यैरुक्तं सिद्धसाध्यत्वं सामान्ये तन्न दूषणम् । अत्रेति तत्प्रयोगत्वाद्विग्देशाद्यैर्विशेषिता ॥ ६६ ॥ न सर्वेषां विशेषाणां प्रत्यक्षेऽपि भवेद् ग्रहः । विशेषपूर्वताध्यक्षेऽविशेषोऽस्त्यनुमानतः ॥ ७० ॥ अतो नास्त्यनुमानस्य दूषणाद्यैः प्रतिभाषितैः । तेन पूर्वोक्तया नीत्या भावानां स्वग्रहः स्थितः ॥ ७१ ॥ नाप्याप्तवचनग्राह्यः सामान्याद्वा विशेषतः । सामान्यादनुमानोक्तदूषणं तद्विशेषतः ॥ ७२ ॥ प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् । स्वातन्त्र्यं न च शब्दस्य रचनात्वेन युज्यते ॥ ७३ ॥ तत्रापि व्यञ्जकापेक्षा स्यात् परायत्ततैव हि । अर्थापत्त्यादिना नापि तदनर्होपयोगतः ॥ ७४ ॥ प्रतिभा च प्रमाणत्वे वर्ण्यमाना न शोभते । काकतालीयरूपत्वादश्वादेस्तरणादथ ॥ ७५ ॥ तदहर्जातकस्यापि वासना सान्यजन्मजा । तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥ ७६ ॥ व्यापकत्वाच्छिवत्वस्य [सर्वज्ञत्वाद्भेदथ । तस्मादेतच्च संज्ञेयं सर्वः स्वात्मानमात्मना ॥ ७७ ॥ १०