भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 163, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 163

१४६ शिवदृष्टिः [ आ०-५ जानन्नवस्थितो दूरे स्वर्गादौ निरयेऽथवा । प्रत्यक्षादिप्रक्रियायास्तथा शिवकृतस्थितेः ॥ ७८ ॥ नौतरभ्रान्तिनाशादौ सम्यग्दृष्टिसमुद्गमात् । यमर्सनिकसद्दृष्टिधरादेश्चलनोद्गमात् ॥ ७६ ॥ भूकम्पनाच्च शेषादिचलनाच्चेन्न सर्वतः । गमागमेन वाय्वादेः कान्त्या भवति चेतना ॥ ८० ॥ सर्वत्र देवतात्मत्वाज्जडेष्वप्युपवर्णिता । पोतादेश्चेदुपायेन दृष्टे दीपाद्युपायता ॥ ८१ ॥ तत्र चेत् सुप्रसिद्धत्वे तथा तत्र प्रसिद्धितः । तुल्यकालं द्वयोर्द्वैधं नैवं यत्तदलक्ष्यता ॥ ८२ ॥ तद्देशत्वं पुनः कस्मादिति चेत्तत्तथाग्रतः । भावा मूर्ताः सर्व एव सूक्ष्मसूक्ष्मतरादिता ॥ ८३ ॥ ज्ञेया अवयवेनैते यावद्यावददर्शनाः । अणूनामथ मूर्तत्वादेवं चेत् किं न दर्शनम् ॥ ८४ ॥ सूक्ष्मत्वात्तर्ह्यदृश्यत्वमस्पृश्यत्वममूर्तता । तैरदृश्यैर्यदारब्धं तत्तथैवाथ संहतेः ॥ ८५ ॥ दृश्यत्वं तेषु संघातात् किं तेषां रूपताक्षतिः । स्वरूपमिश्रीभावो वा नैवं चेत्तर्ह्यमूर्तता ॥ ८६ ॥ ये तत्र पृष्ठतो वृत्तास्ते प्रत्येकममूर्तकाः । अमूर्तत्वेन भावानां दर्शनं नान्यथा भवेत् ॥ ८७ ॥ ज्ञानस्वरूपग्रहाणां तद्ग्रहात्तद्ग्रहः किल । अतत्स्वरूपरूपत्वे नान्यस्यान्यग्रहाद्ग्रहः ॥ ८८ ॥ एवमिन्द्रियशक्तीनां ज्ञानमन्तःप्रवेशनात् । सामान्या मूर्तता व्याप्ता ह्यमूर्तत्वं तदग्रतः ॥ ८६ ॥ कथमाकारघटना व्योम्नि नित्येव नीलता । आत्मेच्छात्ः स्थिता भावाः स्थितैवासावमूर्तता ॥ ६० ॥ माययित्वे जगति वा प्राकृते वान्यथापि वा । अमूर्तकारणैर्योगात्तन्मूर्तत्वं निवार्यते ॥ ६१ ॥