शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 164, कुल 188 में से
संदर्भ में पढ़ेंआ०-५ ] उत्पलदेवकृतवृत्त्योपेता १४७ अविद्यायोगतो वापि शाक्तरूपत्वतोऽपि वा । ज्ञानस्यापि बहिरूपे शब्दरूपेऽपि वा तथा ॥ ६२ ॥ एतदेव हि युक्तं तु घटादेर्बाह्यमेकतः । कुड्यादिनिर्गताच्चैव योगिनां क्वापि दर्शनात् ॥ ६३ ॥ अग्रकव्यवधानादेरथ चेत्कार्यनाशिता । पदार्थवित्प्रक्रियया प्रक्रिया प्रक्रियैव सा ॥ ६४ ॥ कार्यस्य नाशे तत्कार्यकार्ये तत्कार्यनाशिता । क्षणलक्षाणि जायन्ते क्रमात्तद्विनाशतः ॥ ६५ ॥ तथोत्पत्तौ क्षणानन्त्यमीश्वरेच्छावशादथ । क्षण एको न चैवं तच्चेश्वरेच्छाविरोधकृत् ॥ ६६ ॥ एकक्षणत्वं लक्ष्यस्य बहुकालस्य नार्हता । क्षणभङ्गान्तरं चैवं हि स निवार्य इहाग्रतः ॥ ६७ ॥ स्वशक्त्या घनरूपत्वे शिव आस्ते क्वचित्तथा । स्थितं सर्वममूर्तत्वे सर्वेषां समता स्फुटा ॥ ६८ ॥ सर्वज्ञत्वादशेषस्य तदहर्जातदारके । क्षीरादिके निगलनात्तदा कालेऽप्यशिक्षिते ॥ ६६ ॥ उदरस्थस्य च ग्रासग्रहणान्मातुरन्तरे । अशिक्षितानां तरणात् प्राणिनां निम्नगाजलात् ॥ १०० ॥ सर्वज्ञत्वे न किं सर्वे सर्वज्ञाः स्युः शरीरिणः । सर्व एव हि सर्वज्ञा मनःसंकल्पनावशात् ॥ १०१ ॥ संकल्पकेन चित्तेन तत्तज्ज्ञानमसंशयम् । संकल्पानां च सत्यत्वं पुरस्तात्प्रतिपादितम् ॥ १०२ ॥ सर्वभावग्रहणतायोग्यत्वाद्वा क्रमस्थितेः । प्रत्यक्षाद्यैरुपायैर्वा निरुपायतयापि वा ॥ १०३ ॥ तत्तद्रूढिवशाद्वापि सर्वज्ञत्वप्रवर्तनात् । सर्वे सर्वात्मभावेन सर्वज्ञा वा व्यवस्थिताः ॥ १०४ ॥ सर्वे भावाः स्वमात्मानं जानन्तः सर्वतः स्थिताः । मदात्मना घटो वेत्ति वेद्म्यहं वा घटात्मना ॥ १०५ ॥