शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 166, कुल 188 में से
संदर्भ में पढ़ेंअथ षष्ठमाह्निकम् अथ शक्तेः शक्तिमतो न भेदो द्रव्यकर्मवत् । स्थापितो द्रव्यतो भिन्ना क्रिया नो न च नास्ति सा ॥ १ ॥ एवं तथा शक्तिमतः शक्तस्य समवस्थिता । जगद्विचित्रता शैवे न पुनर्दर्शनान्तरे ॥ २ ॥ यथा प्रकल्पिता चित्रा चित्रब्रह्मादिवादिता । नानात्मवादितां यावत्तत्सर्वं प्रविचार्यंतम् ॥ ३ ॥ यत्र ब्रह्मोच्यते चित्रं कैश्चिद्वेदान्तवादिभिः । एकस्य चित्रता केन हेतुना ब्रह्मणो भवेत् ॥ ४ ॥ तथाविधा विभिन्नास्ते सर्वदा निजभावतः । विभिन्ना एव ते नैक्यं मृत्पिण्डात् प्रागवस्थितेः ॥ ५ ॥ घटादीनां द्विरूपत्वं न घटादेः सदास्थितेः । निमित्तकल्पना कल्प्या तर्ह्यविद्या तदुद्गमात् ॥ ६ ॥ भावा भवेयुस्तत्प्राप्ता ह्यस्माकं सर्वसत्यता । अविद्यादेरयोगश्चेत्तेनैतदतिरिक्कता ॥ ७ ॥ येऽन्ये वेदान्तविद्वांस आत्मब्रह्मैव विश्वताम् । यात्युपादानरूपत्वात्तथान्ये भ्रान्तिरूपताम् ॥ ८ ॥ विश्वं न सत्यरूपत्वं तथान्ये त्वात्मवादिनः । भूतजीवपरात्मत्वं ये चान्ये नेतिवादिनः ॥ ९ ॥ यस्यां प्रतीतौ नेत्यस्य प्रसरो न प्रवर्तते । तद्ब्रह्मेति वदन्त्येके ये स्फुलिङ्गात्मवादिनः ॥ १० ॥ प्रतिबिम्बतया चान्ये ये वा सर्गमुखे स्वयं । ब्रह्मैव गृह्णात्यात्मानं ततो भेदोपपादनम् ॥ ११ ॥ इत्याहुर्येऽपि क्रीडार्थमेवमात्मा व्यवस्थितः । इत्यूचुर्येऽप्रबुद्धत्वं पश्चाद्ब्रह्म प्रबुध्यते ॥ १२ ॥