भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 167, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 167

१५० शिवदृष्टिः [ आ०-६ देहे देहे पृथक्त्वे तु तथा भेदो भवात्मकः। जलधारांशुमन्न्यायो येषां वा समवस्थितः ॥ १३ ॥ अविद्यां वेत्त्यविद्यैव बन्धात्यात्मानमेव वा। संवेति वादो येषां वा तेषां वेदान्तवादिनाम् ॥ १४ ॥ सर्वेषामप्यविद्यैव कल्प्या ब्रह्मणि संगता। तथा भावेष्वसत्यत्वमित्यवश्यमवस्थितम् ॥ १५ ॥ पाञ्चरात्रविदश्चान्ये वदन्ति परिनिष्ठितम्। ब्रह्मास्ति वासुदेवाख्यं स एव जगदीश्वरः ॥ १६ ॥ विद्याविद्ये द्वयं चास्य साधनं समवस्थितम्। अविद्यया जगत्कुर्याद्विद्यया मोक्षयेत्पशून् ॥ १७ ॥ ताभ्यां न चास्योपरागः प्रबुद्धत्वात्प्रभूतवतः। तथान्येषां स्वात्मनैव विद्यया जगदात्मता ॥ १८ ॥ न चाविद्या बाधिकास्य यतः साधनमस्य सा। प्रोक्तं भगवतो वीर्येणेत्याद्यैस्तत्त्वदर्शनैः ॥ १९ ॥ गीतासु विश्वरूपत्वमत एव प्रदर्शितम्। द्वयोरप्यनयोर्युक्तिः पक्षयोर्नोपपद्यते ॥ २० ॥ अविद्या वस्तुरूपा चेद्विद्यया साकमेकता। अवस्तु वा न ह्यसत्यं सत्यरूपस्य साधनम् ॥ २१ ॥ तथा जघन्यरूपायाः सम्बन्धोऽस्य विरुध्यते। तथा जगत्समुत्पत्तौ निमित्तान्तरकल्पना ॥ २२ ॥ अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम्। पक्षे द्वितीये ताद्रूप्यं जठत्त्वादिह तस्य कः ॥ २३ ॥ करोति विद्यासंयोगं तर्ह्यन्येश्वरकल्पना। आर्हतास्तु जिनो देवो जीवाः सन्ति पृथक् पृथक् ॥ २४ ॥ प्रतिदेहं न विभवः ते प्रबुद्धास्तु तन्मयाः। इत्येवमाहुस्तेषामप्यविद्यायोगकल्पनम् ॥ २५ ॥ स्वाविद्याप्रक्षयादर्हन्देवो भवति निश्चितम्। येषां देवो निराकारः शून्य एव किमुच्यते ॥ २६ ॥