भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

१५० शिवदृष्टिः [ आ०-६ देहे देहे पृथक्त्वे तु तथा भेदो भवात्मकः। जलधारांशुमन्न्यायो येषां वा समवस्थितः ॥ १३ ॥ अविद्यां वेत्त्यविद्यैव बन्धात्यात्मानमेव वा। संवेति वादो येषां वा तेषां वेदान्तवादिनाम् ॥ १४ ॥ सर्वेषामप्यविद्यैव कल्प्या ब्रह्मणि संगता। तथा भावेष्वसत्यत्वमित्यवश्यमवस्थितम् ॥ १५ ॥ पाञ्चरात्रविदश्चान्ये वदन्ति परिनिष्ठितम्। ब्रह्मास्ति वासुदेवाख्यं स एव जगदीश्वरः ॥ १६ ॥ विद्याविद्ये द्वयं चास्य साधनं समवस्थितम्। अविद्यया जगत्कुर्याद्विद्यया मोक्षयेत्पशून् ॥ १७ ॥ ताभ्यां न चास्योपरागः प्रबुद्धत्वात्प्रभूतवतः। तथान्येषां स्वात्मनैव विद्यया जगदात्मता ॥ १८ ॥ न चाविद्या बाधिकास्य यतः साधनमस्य सा। प्रोक्तं भगवतो वीर्येणेत्याद्यैस्तत्त्वदर्शनैः ॥ १९ ॥ गीतासु विश्वरूपत्वमत एव प्रदर्शितम्। द्वयोरप्यनयोर्युक्तिः पक्षयोर्नोपपद्यते ॥ २० ॥ अविद्या वस्तुरूपा चेद्विद्यया साकमेकता। अवस्तु वा न ह्यसत्यं सत्यरूपस्य साधनम् ॥ २१ ॥ तथा जघन्यरूपायाः सम्बन्धोऽस्य विरुध्यते। तथा जगत्समुत्पत्तौ निमित्तान्तरकल्पना ॥ २२ ॥ अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम्। पक्षे द्वितीये ताद्रूप्यं जठत्त्वादिह तस्य कः ॥ २३ ॥ करोति विद्यासंयोगं तर्ह्यन्येश्वरकल्पना। आर्हतास्तु जिनो देवो जीवाः सन्ति पृथक् पृथक् ॥ २४ ॥ प्रतिदेहं न विभवः ते प्रबुद्धास्तु तन्मयाः। इत्येवमाहुस्तेषामप्यविद्यायोगकल्पनम् ॥ २५ ॥ स्वाविद्याप्रक्षयादर्हन्देवो भवति निश्चितम्। येषां देवो निराकारः शून्य एव किमुच्यते ॥ २६ ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५१ ये सांख्या आत्मस्वातन्त्र्यवादिनो येऽप्यनीश्वराः । तत्राप्यस्त्यविवेकाख्यो मलो बन्धविमोक्षता ॥ २७ ॥ पृथक्त्वमीश्वरस्यास्ति सर्वात्मभ्यः पृथक्कृतः । न्यायवैशेषिकाणां तु बन्धमोक्षौ पृथक्स्थिती ॥ २८ ॥ प्रकृत्यादीश्वरत्वेन सर्वदैव तदात्मता । संवित्तिशून्यब्रह्मत्ववादिनां जडतैव सा ॥ २९ ॥ वदन्ति ते हि सकलमेतन्नारदसंग्रहात् । कालकारणिकानां तु नामता जडताथ वा ॥ ३० ॥ अव्याप्तिरन्तः कृत्यादेर्भवेत्षड्धामवादिनाम् । तत्र चित्पक्षपातश्चेत् प्राप्नुयात् सततं ग्रहः ॥ ३१ ॥ स्वर्गमुक्तिवादिनां तु बन्धमोक्षौ व्यवस्थितौ । ये बाह्यवादिनो बौद्धास्ते भेदं समुपाश्रिताः ॥ ३२ ॥ विज्ञानवादिनां ज्ञानं सत्यं प्रत्येत्यसत्यताम् । बहिः कथं न ह्यसत्यं सत्याङ्गवितुमर्हति ॥ ३३ ॥ कामिनां कथमेतच्चेदुक्ता प्रागस्य सत्यता । ज्ञानस्य करणत्वेन कर्तृपेक्षा प्रसज्यते ॥ ३४ ॥ कर्तृत्वे ज्ञप्तिमात्रत्वे आकांक्षा करणे भवेत् । द्विरूपत्वे विरुद्धत्वसंक्रमत्वं प्रवर्तते ॥ ३५ ॥ अक्रमत्वेऽस्मन्मतत्वं तदैक्यं परिनिष्ठया । न चापि क्षणभंगित्वे युक्ता वैनाशिकी स्थितिः ॥ ३६ ॥ अहं वेद्मि स मां वेत्ति न कर्तृकरणादिता । ज्ञानस्यैकक्षणे युक्ता तदद्वित्वेन क्षणक्षयः ॥ ३७ ॥ विभागकालग्रहणकालयोर्भिन्नकालता । विनष्टत्वात् फलं कस्य क्रमात्कर्मफले यतः ॥ ३८ ॥ भेदवानिति लक्ष्यत्वे दृष्टान्तोऽस्ति न तादृशः । ग्राह्यग्राहकसंवित्तेर्भेदवानिव लक्ष्यते ॥ ३९ ॥ न च शुद्धस्य बाह्यार्थाभासता चेदविद्यया । वासनारूपया शुद्धे नाशुद्धा वासना भवेत् ॥ ४० ॥

१५२ शिवदृष्टिः [ आ०-६ नेत्रादिव्यापृतेः पूर्वं घटं पश्यामि तादृशी । जायते प्रथमैवेच्छा नामाजातस्य यादृशी ॥ ४१ ॥ ज्ञानात्पूर्वमिच्छाजाते ज्ञातृकल्पनमुज्ज्वलम् । न घटो निर्विशेषोऽस्ति ग्रहे यज्ज्ञातृशुद्धता ॥ ४२ ॥ उत्पत्तिकाले स्वात्मानं किमादौ वेत्ति वा बहिः । प्रतिभासस्य वैचित्र्याद्युगपद्ग्रहणं कथम् ॥ ४३ ॥ क्रमेण वा परिच्छेदे क्षणान्तरमवस्थितिः । दृष्ट्वा तां संपरिच्छेदे क्षणद्वयमथोच्यते ॥ ४४ ॥ उत्पद्यमाने विज्ञाने नार्थनिष्पन्नता मता । न चार्थजातेऽवस्तुत्वं नावस्तुग्रहणादरः ॥ ४५ ॥ प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते । विद्यारूपादनाशित्वं न हि तत्त्वं विनश्वरम् ॥ ४६ ॥ अथ दीपप्रकाशत्वे न नित्यत्वं न कर्तृता । कर्तृता तत्र दीपादेः करणत्वं तदीक्षणे ॥ ४७ ॥ प्रकाशतात्मन्यचले स च प्रोक्तोऽप्यनश्वरः । ज्ञानस्य करणत्वेन भवेच्चेदनवस्थितिः ॥ ४८ ॥ दीपचक्षुःक्रमफलदर्शनात्तदबाधकम् । भावे कथं विनाशित्वं स्याद्विना कारणान्तरम् ॥ ४९ ॥ अथ नश्वररूपत्वात्तद्रूपस्योद्भवः कथम् । उद्भवो नश्वरत्वं च द्वौ स्वभावौ कथं तथा ॥ ५० ॥ न च नश्यदवस्थायां स्वकार्यं तस्य युज्यते । कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥ ५१ ॥ कुर्वद्वा चार्थकार्यत्वं कुतो नश्वररूपता । कारणान्तरजन्यत्वे कारणान्तरसंगता ॥ ५२ ॥ भावस्य भावजनने युक्तत्वं न क्षणस्थितेः । न घटाद्घटसम्भूतिः समवायाद्यपेक्षया ॥ ५३ ॥ नष्टस्य समवायित्वमनष्टस्य घटस्य वा । नष्टस्य तदकर्तृत्वमनष्टस्य स्वरूपिता ॥ ५४ ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५३ यत्तत्सत् क्षणिकत्वेऽपि सत्त्वमप्यक्षगोचरम् । सादृश्याद्भ्रान्तमक्षं चेददुष्टं प्राग्ग्रहे यथा ॥ ५५ ॥ दृष्टान्तेऽपि हि सादृश्ये प्रत्यक्षेण क्षणग्रहः । दीपज्वालासमूहेषु कम्पनं न विनाशिता ॥ ५६ ॥ नापि क्रमयौगपद्यविकल्पाः सहकारिणाम् । सन्निधौ कृतशक्तित्वादनेकेषां तथास्थितेः ॥ ५७ ॥ भावानां चित्रशक्तीनामभेदो हेमभेदवत् । वैलक्षण्यमपूर्वत्वं बाह्याभासक्रियोद्गमात् ॥ ५८ ॥ अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके । तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥ ५६ ॥ घटो नश्यत्यात्मनेति किंचित्कुर्वन् किमात्मना । नश्यत्यात्मन्यकुर्वन् वा तदेवं स्थित एव सः ॥ ६० ॥ कुर्वन् वा किं तदा कुर्वन् न भावं तद्घटादिकात् । अनन्यं व्यतिरिक्तं वा यद्यर्थनन्यस्तथाविधः ॥ ६१ ॥ अन्यत्वेऽन्यसमुत्पत्तौ घटस्यायातमत्र किम् । आत्मना परतो वापि विनाशेऽत्रापि तादृशाः ॥ ६२ ॥ विकल्पा अथवा नश्येदसावेतावदेव सत् । तत्रापि किंचित्कुर्वन्किं स नश्यति तथाविधाः ॥ ६३ ॥ विकल्पाः पुनरायान्ति न चाभावक्रियां प्रति । घट एव करणत्वे सामग्री जनिकेति ते ॥ ६४ ॥ दर्शनं यद्यभावस्य तुच्छस्य करणं कथम् । बहुभिस्तर्हि तुच्छं हि घटोऽपि जनयेत्कथम् ॥ ६५ ॥ नाशं घटस्य जनयेत्तत्सम्बन्धितया स्थितम् । मृत्पिण्डस्य घटोत्पत्तौ सति तज्जननात्मके ॥ ६६ ॥ रूपे हेत्वन्तरापेक्षा यत्र तत्र तथा कृता । घटस्य नश्वरात्मत्वे मुद्गरादेरपेक्षणम् ॥ ६७ ॥ किं वा नाश्यं न मृत्पिण्डं घटस्य जनकं भवेत् । तदनाशे न किंचित्स्याद्घट एव न जायते ॥ ६८ ॥

१५४ शिवदृष्टिः [ आ०-६ विनाशो कारणानां हि विनाशः कारणात्मना । स्वयं विनश्येन्मृत्पिण्ड एवं चेत्स विनश्यति ॥ ६९ ॥ किं विधाय घटं नो वा स मृत्पिण्डोऽभिधीयताम् । अकृत्वा करणं कुम्भे कृत्वा तस्य स्वरूपता ॥ ७० ॥ कुतो घटस्य जननाकारनामावधारणम् । यावता प्राग्दशानष्टा न प्रवृत्तिरथान्यथा ॥ ७१ ॥ विरोधे दण्डघटयोर् दृष्टान्तोऽस्ति न ते क्वचित् । तेजसा तमसो यस्मान्न विनाशस्त्वयेष्यते ॥ ७२ ॥ अकार्यत्वाद्धिनाशस्य प्रतिबन्धो न चापि ते । स्थिरस्य प्रतिबन्ध्यत्वात् क्षणिकस्य न युज्यते ॥ ७३ ॥ कपालादिकजन्यत्वमभावस्तस्य संगता । सत्यस्य कारणापेक्षा घटादिजनने यथा ॥ ७४ ॥ नश्वरानश्वरत्वेऽपि स्वभावे प्रविकल्पनाः । अत्र नैव प्रवर्तन्ते हेतुसन्निधिनश्वराः ॥ ७५ ॥ स्वभावत्वात्स्थितं तस्मादेकं तत्त्वं तथास्थितेः । भेदेन वाप्यभेदेन यदि वा नैकरूपता ॥ ७६ ॥ सामान्याभावतस्तर्हि भवतो नानुमानता । सा भविष्यत्यपोहेन सोऽपि केनोपपद्यते ॥ ७७ ॥ घटमानय शब्दस्य प्रतिषेधेन वाच्यता । अघटादेरपोहेन किं घटं प्रतिपद्यसे ॥ ७८ ॥ शून्यतां वा शून्यतायां व्यर्थता शब्दगोचरे । युगपद्वा घटाद्यर्था जगत्यानन्त्यमागताः ॥ ७९ ॥ निवृत्ते वाच्यसम्बन्धे प्रद्वेषो विधिगः परम् । अघटत्वं न सामान्यं किं न वा ह्यविशेषकम् ॥ ८० ॥ तस्याप्यवस्तुरूपत्वे न किंचित्कथितं भवेत् । एतावान् वाच्यसम्बन्धो यदन्तःस्फुरणात्मता ॥ ८१ ॥ उपलब्धिः पुनर्ज्ञेया प्रमाणान्तरगोचरा । धूमात्सम्बन्धतो वह्नेः परोक्षे स्फुरणं न किम् ॥ ८२ ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५५ अप्रत्यक्षोऽक्षसम्बन्धो दूरस्थः शक्तिरूह्यते । तस्मान्न ज्ञानशून्यत्वं न शून्यं चोपपद्यते ॥ ८३ ॥ शून्यस्य बोधाभावत्वात् कः केनात्र विबोध्यते । न हि शून्यस्य शून्येन बोधनं न च बाधनम् ॥ ८४ ॥ शून्यत्वे सति युज्येत प्रमाणं वोपपद्यते । संवृत्यैव संवृत्तिर्हि निवार्या चेदसङ्गमः ॥ ८५ ॥ शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् । अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥ ८६ ॥ सर्वस्य सर्वभावत्वादिहासौ नोपपद्यते । चर्मोपमश्छेदित्यादि यद्बौद्धैः समुदाहृतम् ॥ ८७ ॥ सर्वत्र सर्वसंवित्तेस्तत्सर्वं विनिवारितम् । विकल्पा येऽपि चार्वाकैरुक्तास्तेऽपि न बाधकाः ॥ ८८ ॥ सर्वत्र सारभूतत्वात्सर्वत्रैवाजडत्वतः । सर्वभावस्वभावत्वादभावस्यापि भावतः ॥ ८९ ॥ घटात्मककटात्मादेः पदार्थपदयोगतः । अभावस्य कपालादिरूपत्वाद्वस्तुता स्थिता ॥ ९० ॥ अभावस्यापि वस्तुत्वे न विनाशोऽस्ति कस्यचित् । अभावस्यापि करणे सम्पत्तिर्नोपपद्यते ॥ ९१ ॥ कुण्डलादिषु भावेषु सर्वथैव सुवर्णता । व्याप्तेरखण्डितैवास्ते शिवता सर्वगामिनी ॥ ९२ ॥ सर्वज्ञानातिरेकत्वे स्थिते वक्ष्यसि किं स्वके । दर्शने यत्र नानात्वं बन्धमोक्षावुदाहृतौ ॥ ९३ ॥ मलित्वमात्मनां प्रोक्तं सर्वभावेषु भेदिता । सत्यमुक्तमारुरुक्षोस्तत्क्रमप्रतिपत्तये ॥ ९४ ॥ अन्यथा ह्येकरूपत्वे विचिकित्सा प्रवर्त्तते । विना बोधं प्राथमिके निर्यत्नश्च भवेदसौ ॥ ९५ ॥ बन्धमोक्षाद्यभावेन निर्मलोऽत्र करोति किम् । न च वा प्रत्ययं गच्छेत् झटित्येकोक्तिमात्रतः ॥ ९६ ॥

१५६ शिवदृष्टिः [ आ०-६ तदर्थमुक्तमीशेन न परार्थविवक्षया । अनेकेषामणूनां च कथमेकत्र संस्थितिः ॥ ९७ ॥ अमूर्तत्वाद्यदि भवेदमूर्तत्वेऽपि वस्तुता । वस्तुत्वे संस्करोत्येव नानासत्तानयोगतः ॥ ९८ ॥ व्याप्यः स देश एकेन व्याप्यतेऽप्यपरैः कथम् । परस्परेण व्याप्यत्वाद्व्याप्यव्यापकता भवेत् ॥ ९९ ॥ वर्तते यदि तत्रान्यो न व्याप्तोऽसौ पुरापरैः । आकाशबुद्धिचित्तादेः कथमेकत्र चेत् स्थितिः ॥ १०० ॥ दोषोऽयं भवतामेव नैवमस्मासु तादृशः । सर्वस्य सर्वदेहेषु व्यापकत्वव्यवस्थितेः ॥ १०१ ॥ सर्वेषां सर्वदेहस्था संवित्केन निवार्यते । कर्मणामानुरूप्याच्चेत् संविद्बाधा न कर्मभिः ॥ १०२ ॥ अकर्महेतुकेऽप्यस्ति योगिनोऽन्यशरीरके । न शवत्वं शरीरे स्यादन्यात्मस्फुरणस्थितेः ॥ १०३ ॥ तत्र कर्म निमित्तं चेद्योगेनाप्यत्र संक्रमः । एकबोधो बोधशतैरभिभूतो भवेत्तदा ॥ १०४ ॥ तद्बाधे न परव्याप्तिर्न वा व्याप्तेस्तदात्मता । मोक्षेऽपि शिवबाहुल्यान्नानानायकता भवेत् ॥ १०५ ॥ तस्याधिकमहेशित्वे मोक्षे न्यूनाधिके स्थितिः । बहूनां नायकत्वेऽपि नायकत्वं विहन्यते ॥ १०६ ॥ तथा पञ्चविधे कृत्य नानात्वादक्रिया भवेत् । यानन्यसदृशी भूमिः सा परा प्रान्तभूमिका ॥ १०७ ॥ या पुनः सर्वसदृशी सानुकार्या किमुच्यते । सर्वज्ञत्वेन सर्वेषामेककार्यानुवर्तनात् ॥ १०८ ॥ संसारस्यानुपाल्यत्वादद्वेषादिमलहानितः । अथवा स्वात्मविभवपरमानन्दतृप्तितः ॥ १०९ ॥ तन्निष्ठत्वात् पञ्चविधकृत्यस्योन्मुखतैव नो । भवेन्मुक्तात्मभेदेऽपि सा त्वनादौ शिवे स्थिता ॥ ११० ॥

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५७ अनुवृत्तिः किमाधिक्याद्रागाद् वा तर्हि दूषणम् । अनादिशिवतत्त्वस्य स्वामोदं किं न विद्यते ॥ १११ ॥ तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् । अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥ ११२ ॥ निजं तस्य न हीयेत तद्वत् परमकारणे । यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥ ११३ ॥ तथा तस्य यथान्येषां यथान्येषां तथास्य तु । तस्मादनेकात्मतया दोषा आयान्ति तादृशाः ॥ ११४ ॥ तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता । मोक्षता चोपपद्येत निर्मलं समलं तथा ॥ ११५ ॥ रूपद्वयं युक्तिमत्स्याज्जन्मादेर्युगपन्न च । सम्भवः स्यात्तथारूपशिवत्वादन्यदर्शने ॥ ११६ ॥ दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा ? ॥ ११७ ॥ एकस्यैवात्मनो यद्वदङ्गभेदो विचित्रता । युगपद्बन्धपीडादिस्तद्वन्नानाशरीरता ॥ ११८ ॥ स्थितेऽपि वात्र नानात्वे कैवल्ये न विशेषता । एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥ ११९ ॥ सर्वज्ञत्वादिरूपेण सर्व एव शिवाः स्थिताः । व्यापकाश्च तथा सर्वे सर्व एवात्मसंविदः ॥ १२० ॥ एतस्यामप्यवस्थायां नामभेदो न विद्यते । हतं केनैकरूपत्वं सामान्येऽपि व्यवस्थिते ॥ १२१ ॥ शिवत्वे न विशेषोऽस्ति शावलेयादिवद्यथा । तासु व्यक्तिषु रूपादि force? रूपादिसंनिवेशादिभेदतः ॥ १२२ ॥ वैलक्षण्यं गवादीनां न तथेहास्ति किंचन । मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥ १२३ ॥ युगपत्सर्वकार्याद्वा संमतत्वादमत्सरात् । तावता विश्वसम्पत्तेः सर्वज्ञत्वाद्विचित्रता ॥ १२४ ॥

१५८ शिवदृष्टिः आ०-६ नानात्मभावे शैवे वा शैवे वाभेदवादिनि। सर्वस्य सर्वरूपत्वं सर्वात्मत्वमवारितम् ॥ १२५ ॥ अनन्तशक्तियोगित्वादलुप्तत्वात् स्वशक्तिषु। स्थितं शिवत्वं सर्वत्र विशेषाच्छैववादिनाम् ॥ १२६ ॥ एकत्वेन ततो ज्ञेया शिवता सर्वगोचरा ॥ इति श्रीमद्दर्शनानतिरेकं नाम षष्ठमाह्निकम् ॥

अथ सप्तममाह्निकम् अथ स्थिते सर्वदिक्वे शिवतत्त्वेऽधुनोच्यते । तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥ १ ॥ वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् । अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥ २ ॥ सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् । मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥ ३ ॥ चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् । तथापि कार्यभोगार्थं स ज्ञातः केन वार्यते ॥ ४ ॥ सकृज्ज्ञाते सुवर्णे हि भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ५ ॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनापि वा ॥ ६ ॥ ज्ञातेऽपि तरुभूम्यादिदाढर्यान्न करणादिकम् । भूतले प्रत्ययं याति न भावः करणं न च ॥ ७ ॥ तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते । सर्व एवात एणैतद्भावनाकरणाच्च्युतम् ॥ ८ ॥ विज्ञातं जायते पुंसा यद्यप्येवमवस्थितम् । तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् ॥ ६ ॥ तज्ज्ञानस्फुटताहेतौ चिन्तारत्नसुवर्णवत् । वह्निर्यद्यपि विज्ञातः प्रकाशादि करोत्यसौ ॥ १० ॥ तथापि योजितो युक्त्या प्रकाशमधिकं गृहे । दीपेनान्यतमेनापि न तथा वह्निराशिना ॥ ११ ॥ तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये । ततः स्वात्मक्रियोन्मुख्यमिच्छाप्रथमकोद्गमः ॥ १२ ॥

१६० शिवदृष्टिः [ आ०-७ समस्तचित्रकार्यान्तर्गर्भिणी शिबिकाकृतिः । स्वरूपाह्लादनिर्मुक्तिरहितेच्छोदयोद्गमः ॥ १३ ॥ शवला चितिरुच्येत परस्य पररूपिणी । सा शक्तिः परमेशस्य संस्थिता द्रव्यकर्मवत् ॥ १४ ॥ न द्रव्यव्यतिरिक्तास्ति क्रिया न च न विद्यते । न तयापि विना कार्यं किंचनापि हि जायते ॥ १५ ॥ न चापि केवलाद्द्रव्यात् किंचनापि प्रवर्तते । तस्मादित्यमिह ज्ञेयं शाक्तं रूपमभेदवत् ॥ १६ ॥ प्रथमोदय इच्छायाः सर्वभावैक्यदेश्यता । स एव शाक्तबोधात्मस्वच्छावयवरूपवान् ॥ १७ ॥ स्वानन्दैकरसाह्लादी स्वकार्यार्थशरीरवान् । तथास्थितस्य ध्यानेन बोधाद्वा तत्स्वरूपभाक् ॥ १८ ॥ तस्येच्छास्पन्दनं पूर्वन्यग्भावो ह्लादसंगमः । भूपभूपतिशक्त्याभमग्न्यं तत्पूर्णचिल्लयात् ॥ १९ ॥ याति व्याप्तिं तथाभूतां शाम्भदामोदसत्क्रियाम् । शान्तानन्दवपुः स्वच्छ उररीकृतदृक्क्रियः ॥ २० ॥ मध्यव्योमशान्तबोधभरलब्धोदयः शिवः । तस्यापि विद्युदालोकवदभेदवती चला ॥ २१ ॥ भाविस्वभेदतत्कृत्यज्ञानप्रौन्मुख्यवर्तिनी । निजभावकृतसृष्टितदनुग्रहचेतना ॥ २२ ॥ भासतेऽवस्थिता शक्तिः शैवी शैवार्थदायिका । ततः सैव स्वयं बाह्यकार्यप्राक्कलनात्मिका ॥ २३ ॥ न्यग्भूतेच्छा ज्ञानमयी स्पन्दनाविततांगिनी । विद्यामन्त्रकलाकल्पदेहसंपिण्डतोद्गवा ॥ २४ ॥ तेजःकणप्रसरवदुपलभ्या वियत्यलम् । स्थितिः सादाशिवी चासावधिकाराभिमानता ॥ २५ ॥ समला तत्समाश्लेषात् सर्वेशित्वसमुद्गमः । तस्य शक्तिप्रदीपस्य किरणाभोद्यमप्रदा ॥ २६ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६१ ततः स्थूलैर्मन्त्रमयैरङ्गैः सर्वक्रियापरा । भवतीश्वररूपेण स्वकार्याखिलरूपिणी ॥ २७ ॥ तस्यापि शक्तिमृत्पिण्डघटवद्विश्वतां गतां । यावद्यावत्तरेद्विद्यामायादिघनपार्थिवम् ॥ २८ ॥ तत्त्वं देवस्तथा तावद्भावशक्त्या घटादिके । निजशक्तिसमाविष्टेरायान्ति शिवसम्पदः ॥ २९ ॥ क्रियाशक्तिपरात्मत्वे क्वचित्पिण्डशिवात्मता । क्वचिदन्तःकृतौ ज्ञानाद्भावेत्पदशिवात्मता ॥ ३० ॥ इच्छामात्रे रूपशिवस्तरंगे तदतीतता । कर्तृमात्रे सर्वभावव्यतीतशिवभावता ॥ ३१ ॥ दृढांगुलिनिवेशन दृढस्थूलनिरीक्षणात् । भ्रमतो भावचलनात् प्लवाच्च प्रेक्षणाक्षतेः ॥ ३२ ॥ पुरोऽणुपुञ्जभ्रान्त्याप्त्या चित्त्वलाभो जडेष्वपि । सर्वचित्क्षेपतः साम्यात्सर्वत्रेच्छात्र ईदृशी ॥ ३३ ॥ प्रतीत्युद्गमकाले तु सार्वभाव्यादसौ विभुः । सृष्टानुभवदो रूढेरमूर्तज्ञानचिल्लयात् ॥ ३४ ॥ ज्ञानयोगसमुद्युक्तिलीनत्वेन क्रियागमः । इच्छात्तः कान्तितोजोभिस्तत्कर्तृत्वमहेशता ॥ ३५ ॥ संविद्देहतद्गतत्वे संवित्स्वातन्र्यमापतेत् । तोषे निर्वृतियोगो वा दाढर्यात् स्वातन्त्र्यमेतयोः ॥ ३६ ॥ दुःखासक्त्याऽन्यथासक्त्या सुखे निर्वृतिभूमिता । जडकायांगनिचये मद्दाढर्चोचितचिन्तया ॥ ३७ ॥ जडाशेषपदार्थात्मरूढेस्तद्बोधपूर्णता । निजाभिमानसंसृष्टे स्वशरीरे महोदयात् ॥ ३८ ॥ अन्यदेहे तथावृत्तेस्तथा बुद्धिविशिष्टता । भावनातीतनिर्मूलसत्कार्यादिविसर्गवत् ॥ ३६ ॥ तत्तद्भावभरासक्तेस्तत्तन्निर्माणमानता । लसदग्रस्फुरत्तेजःकणसत्तोद्भवो महान् ॥ ४० ॥ ११

१६२ शिवदृष्टिः [ आ०-७ देवताहेमनिर्माणसन्निधानस्फुटार्थताः । साम्मुख्यवृत्तिर्देहान्तरतिरागमहागुणाः ॥ ४१ ॥ देहान्तरेषु संक्रान्तिः परित्यागोऽपरेष्वपि । अन्तर्मुखमुखाक्ष्यादिक्रमगोचरचिद्गतेः ॥ ४२ ॥ संस्पर्शात्तदुद्बोध अन्यत्रापि तथा स्थितिः । स्वदेहे देवदृढतां नागादिदमनाईता ॥ ४३ ॥ तथा सकलरूपाणां भावनेव तथा स्वयम् । निजान्तःसृष्टिबाह्यस्थस्थूलसन्निधियोगतः ॥ ४४ ॥ आत्मनो महिमा ज्ञेयस्ततः सृष्टेरनन्तता । स्थूलभावादविश्रान्तदृष्टिपातात्तदेकताम् ॥ ४५ ॥ प्रापितो जगदैक्यं च समन्तादवकल्पते । यत्र तत्रापि विश्रान्तिलीनं शक्तिचतुष्टये ॥ ४६ ॥ विश्वमेकस्वरूपेण रूपेण प्रतिपद्यते । शिवभावनयौषध्या बद्धे मनसि संसृतेः ॥ ४७ ॥ काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता । तत्तत्तत्त्वबलावेशात् सर्ववस्त्वेकरूपिणम् ॥ ४८ ॥ स्थैर्येणाभावभावानामात्मानं निर्मिणोति सः । स्वशरीरे दृढा शक्तिः प्राप्ताक्ष्यादिविधेयताम् ॥ ४९ ॥ तद्वदन्यत्र भावादौ स्वात्मशक्त्या किलाधिपः । सर्वभावेषु सद्योगात्सत्यत्वे शिवता स्थिता ॥ ५० ॥ सर्वकामदुघा साध्वी शिवता प्रसरेन्नृणाम् । पदस्यार्थः पदार्थत्वमित्यमर्थव्यवस्थितौ ॥ ५१ ॥ यस्मात्पदार्थता तुल्या चित्ताभावोद्भवो मुहुः । सर्वत्र चित्ताभावेन सत्याकारतया स्थितेः ॥ ५२ ॥ सर्वत्रानुभावावस्थाप्रसरः सारतो भवेत् । सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥ ५३ ॥ सर्वाकारे महाकाररचना रुचिराचिरात् । सर्वत्रैक्ये स्थिरा रूढिर्जन्या रागादिनाहता ॥ ५४ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६३ सर्वस्य श्रेयसो नूनं सत्यान्निर्गतता मता। मूले समर्थतावेशो मध्ये तुल्यत्वमेतयोः ॥ ५५ ॥ कार्यो मूलसमावेश इति ज्ञात्वा तथोदयः। सर्वामूर्तत्वतत्त्वास्थाबुद्धिदृष्टप्रसक्तितः ॥ ५६ ॥ सम्यगुत्पद्यतेऽन्तर्धिरूपणं भक्तिनिर्गतिः। मतिर्ममत्वनिर्माणमनसां महतां तराम् ॥ ५७ ॥ प्रसरत्यस्ति विज्ञानं सर्वदिक्कमबाधितम्। ममत्वमानसे साधु साधूनां सक्तिमागते ॥ ५८ ॥ संकल्पप्रभवं सर्वं जगदेतदनन्तकम्। सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥ ५९ ॥ अभिमानात्तथैवैषां भावसर्गः प्रवर्तते। प्रत्येकदेवग्रामस्य ममताभिनिवेशतः ॥ ६० ॥ दिव्यानि तान्ययत्नेन प्रसरन्ति समन्ततः। सामस्त्येन प्रसर्पन्तो निर्विशेषा हि केवलाः ॥ ६१ ॥ सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः। विशेषममतावेशप्रवेशवशतो महान् ॥ ६२ ॥ तनुस्वरूपनिर्माण/परिमाणभवोदयः । शिवतत्त्वे त्रिधाभूते स्वच्छकालकलाकले ॥ ६३ ॥ सकले च समासक्तस्तत्तद्रूपोपरूपणम्। सामर्थ्येऽखंडसामर्थ्यं सतते ज्ञानवीर्यता ॥ ६४ ॥ ईशे समग्रकर्तृत्वं सरस्वत्या मनूत्तमः। प्रमेये ममतावेशान्निर्मिणोति नवं जगत् ॥ ६५ ॥ कलने चिद्घनत्वं स्याद्भेदने सर्वचिद्गमः। स्नेहे तु सर्वकामत्वं कालात्सर्वर्तुवर्तनम् ॥ ६६ ॥ नियमे सर्वयमनं कैवल्यं प्रलयाकले। स्वात्मनो ह्यनिरुद्धार्था निरूपाधिविभूतिका ॥ ६७ ॥ सर्वाकाराभिमानेन ममेतिदृढसक्तिना। सर्वाकारसमापत्तिरनन्तैवोपजायते ॥ ६८ ॥

१६४ शिवदृष्टिः [ आ०-७ नैतच्छात्रं विना प्रोक्तं कायाकारेण कायिकम्। जलेन जलरूपं स्यादित्याद्यैर्वचनैः स्मृतम्॥ ६६ ॥ सर्वव्याप्त्या स्नेहपूर्णं स्त्र्यादिकायात्मचिन्तनात्। जगद्विधेयतामेति किमुतैकशरीरकम्॥ ७० ॥ सर्वमस्मीति रुचिरं रूपमात्मनि चिन्तयन्। अहमेव मत्परो न भवेदाकर्षणक्रमः॥ ७१ ॥ सर्वस्मिन् मयि कस्यापि कायं ध्यायन् जुगुप्सितम्। ममैवासौ च विद्वेष्यो विद्विष्टो जायते ततः॥ ७२ ॥ व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत्। विद्रुतं करभारूढं विश्वमुच्चाटितं भवेत्॥ ७३ ॥ व्याप्तौ किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम्। जडरूपोऽभवामीति चिन्तया मरणं स्थितम्॥ ७४ ॥ व्याप्तिदार्ढ्यं नक्तमेकं चन्द्रं वात्मानमुत्थितम्। विचिन्त्य प्रस्रवन्तं के कस्याप्याप्यायनं भवेत्॥ ७५ ॥ चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु। अविनाश्येकपिण्डे वा स भवेदजरामरः॥ ७६ ॥ स्रवत्कृष्णामृतं मेघमात्मोपरि निजात्मकम्। ध्यायतो बालमात्मानं सा जरा संप्रलीयते॥ ७७ ॥ ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते। भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी॥ ७८ ॥ येन येनेन्द्रियेणार्थो गृह्यते तत्र तत्र सा। शिवता लक्षिता सत्या तद्ध्यानमपि वर्ण्यते॥ ७६ ॥ यस्यां यस्यां प्रतीतौ तु शिवोऽस्मीति मनोगमः। तस्यां तथैव चिन्तायां तद्ध्यानमपि जल्पितम्॥ ८० ॥ यस्मिन्नर्थे सदात्यागो गच्छतस्तिष्ठतोऽपि वा। धावतः खादतो वापि स योगः परयोगिनः॥ ८१ ॥ भावितेऽभाविते वापि शिवत्वे शिवतैव मे। सर्वदा पितृमात्रादितौल्यदार्ढ्येन योगिता॥ ८२ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६५ तथाहि कोशहेमादिसादृश्यं योगसत्यता। शिवोऽस्मीति मदिच्छात् सर्वभावप्रवर्तनम् ॥ ८३ ॥ अत एव शिवः सर्वमिति योगोऽथ चेतसि। सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥ ८४ ॥ अनिरुद्धो जपोऽस्त्येव सर्वावस्थास्वसौ जपः। नानाकारैः सदा कुर्वन्नुदयं सर्ववस्तुगः ॥ ८५ ॥ अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते। संकल्पाज्जनयन्नस्मि स्थितः शब्दानथो मुखे ॥ ८६ ॥ सो हि नाम जपो ज्ञेयः सत्यादिस्त्रिविधो हि सः। न मे बन्धो ऽन मे मोक्षस्तौ मलत्वेन संस्थितौ ॥ ८७ ॥ प्रतिपत्त्यानया स्नानं निर्मलीकरणं मतम्। दुःखे वापि सुखे वापि सर्वासु प्रतिपत्तिषु ॥ ८८ ॥ शिवोऽस्मीतिम नोल्हादो जलस्नानं परं मतम्। चिन्निर्मला तन्मयं हि जगदस्मि तथाविधः ॥ ८६ ॥ इत्यास्थाजलशौचेन शुद्धिस्र्नानं तथोदितम्। सर्वभावाः शिवाकारा अन्तर्भूताः शिवानले ॥ ६० ॥ सोऽहं शिवः सुतृप्तोऽस्मि होम इत्युदितः परः। अत्राकारे न यन्मेऽस्ति तदाकारान्तरेऽस्ति मे ॥ ६१ ॥ तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः। पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥ ६२ ॥ पूजकैरविभेदेन सदा पूजेति पूजनम्। अत्राकारे च मे पूजा या स्यात् सादाशिवात्मनि ॥ ६३ ॥ लिंगादिके पूजितोऽस्मि सदा पूजेति वा स्थिता। पूजकः पूजनं पूज्यमिति सर्वं शिवः स्थितः ॥ ६४ ॥ किमेतेनात्मभावेन तृप्त्या वा ऽपरपूजनम्। सर्वाकारेषु भोग्येन यजनं मम वर्तते ॥ ६५ ॥ भुञ्जेऽहं यत्र तत्रापि भोगलग्नः प्रतीतितः। शिवोऽस्मि साधनाविष्टः शिवोऽहं याजकोऽप्यहम् ॥ ६६ ॥

१६६ शिवदृष्टिः [ आ०-७ शिव एवानया स्थित्या सत्यया याग उत्तमः । येन येन यत्र यत्र यैर्यैर्यन्दिह चेज्यते ॥ ९७ ॥ स मया क्रियते यागः शिवत्वाद्याग उत्तमः । शिवं यामि शिवो यामि शिवेन शिवसाधनः ॥ ९८ ॥ भिन्नोऽप्यभिन्न एवास्मि शिव इत्थं विचेष्टनम् । शिवो भोक्ता शिवो भोज्यं शिवेषु शिवसाधनः ॥ ९९ ॥ भुक्त्वोदेति शिवावस्था स्थितेत्थं भोक्तृरूपता । शिवः कर्ता शिवः कर्म शिवोऽस्मि करणात्मकः ॥ १०० ॥ शिव एव फलावस्था व्यापार इति साधुषु । भावनाकरणाभ्यां किं शिवस्य सततोदितेः ॥ १०१ ॥ यथा तथा प्रतिष्ठामः प्रबुद्धस्येति वर्तनम् । यद्दृश्यं यच्च संस्पृश्यं यद्घ्रेयं रस्यमेव यत् ॥ १०२ ॥ यच्छाव्यं तच्छिवव्यक्तैस्तच्छिवत्वेन संश्रितः । गम्ये ग्राह्ये तथा वाच्ये सुखादावपि सर्वदा ॥ १०३ ॥ स्थिते शिवत्वे बद्धास्थो भवेत् सर्वगतः शिवः । मन्तव्ये चाभिमान्तव्ये बोद्धव्ये धृतिसंगमात् ॥ १०४ ॥ सुखे दुःखे विमोहे च स्थितोऽहं परमः शिवः । प्रतिपादितमेतावत् सर्वमेव शिवात्मकम् ॥ १०५ ॥ न स्वबुद्ध्या शिवो दाता शिवो भोक्तेति शास्त्रतः । इति कथितमशेषं शैवरूपेण विश्वं जगदुदितमहेशांघ्रयाज्ञया स्वप्नभाजा । यदधिगमबलेन प्राप्य सम्यग्विकासं भवति शिवमयात्मा सर्वभावेन सर्वः ॥ १०६ ॥ शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ १०७ ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरे । कलापिग्रामप्रमुखे समुच्छिन्ने च शासने ॥ १०८ ॥ कैलासादौ भ्रमन् देवो मूर्त्या श्रीकंठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ १०९ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६७ र्नीन दुर्वाससं नाम भगवानूर्ध्वरेतसम्। नोच्छिद्येत यथा शास्त्रं रहस्यं कुरु तादृशम्॥ ११०॥ ततः स भगवान् देवादादेशं प्राप्य यत्नवान्। ससर्ज मानसं पुत्रं त्र्यम्बकावित्यनामकम्॥ १११॥ तस्मिन् संक्रमायामास रहस्यानि समन्ततः। सोऽपि गत्वा गुहां सम्यक् त्र्यम्बकाख्यां ततः परम्॥ ११२॥ तन्नाम्ना चिह्नितं तत्र ससर्ज मनसा सुतम्। खमुत्पपात संसिद्धस्तत्पुत्रोऽपि तथा तथा॥ ११३॥ सिद्धस्तत्सुतोत्पत्त्या सिद्धा एवं चतुर्दश। यावत्पञ्चदशः पुत्रः सर्वशास्त्रविशारदः॥ ११४॥ स कदाचिल्लोकयात्रामसीनः प्रेक्षते ततः। बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि॥ ११५॥ रूपयौवनसौभाग्यबन्धुरा सा गता दृशम्। दृष्ट्वा तां लक्षणैर्युक्तां योग्यां कन्यामथात्मनः॥ ११६॥ सधर्मचारिणीं सम्यग्गत्वा तत्पितरं स्वयम्। अर्थयित्वा ब्राह्मणीं तामानयामास यत्नतः॥ ११७॥ ब्राह्मणेन विवाहेन ततो जातस्तथाविधः। तेन यः स च कालेन काश्मीरेष्वागतो भ्रमन्॥ ११८॥ नाम्ना स संगमादित्यो वर्षादित्योऽपि तत्सुतः। तस्याप्यभूत् स भगवानरुणादित्यसंज्ञकः॥ ११९॥ आनन्दसंज्ञकस्तस्मादुद्बभूव तथाविधः। तस्मादस्मि समुद्भूतः सोमानन्दाख्य ईदृशः॥ १२०॥ करोमि स्म प्रकरणं शिवदृष्ट्यभिधानकम्। एवमेषां त्र्यम्बकाख्या तेरम्बा देशभाषया॥ १२१॥ स्थिता शिष्यप्रशिष्याद्यैर्विस्तीर्णा मठिकोदिता। तदेवमेतद्विहितं मया प्रकरणं मनाक्॥ १२२॥ प्रार्थ्यन्तेऽस्मिन् प्रयुक्तेऽपि गुरवो ग्रहणं प्रति॥ इति समाप्तिसंज्ञकं नाम सप्तममाह्निकम्॥

(पृष्ठस्य पाठः अत्यन्तम् अस्पष्टः/छायारूपः अस्ति) (मुद्रा/Stamp:) परिग्रह सं. ...... 5333

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।