शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 172, कुल 188 में से
संदर्भ में पढ़ेंआ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५५ अप्रत्यक्षोऽक्षसम्बन्धो दूरस्थः शक्तिरूह्यते । तस्मान्न ज्ञानशून्यत्वं न शून्यं चोपपद्यते ॥ ८३ ॥ शून्यस्य बोधाभावत्वात् कः केनात्र विबोध्यते । न हि शून्यस्य शून्येन बोधनं न च बाधनम् ॥ ८४ ॥ शून्यत्वे सति युज्येत प्रमाणं वोपपद्यते । संवृत्यैव संवृत्तिर्हि निवार्या चेदसङ्गमः ॥ ८५ ॥ शून्यत्वे सति तस्याः स्यात्तस्माद्बौद्धमयुक्तिमत् । अन्यत्र युज्यतेऽपोहः शब्दार्थानामसंगमात् ॥ ८६ ॥ सर्वस्य सर्वभावत्वादिहासौ नोपपद्यते । चर्मोपमश्छेदित्यादि यद्बौद्धैः समुदाहृतम् ॥ ८७ ॥ सर्वत्र सर्वसंवित्तेस्तत्सर्वं विनिवारितम् । विकल्पा येऽपि चार्वाकैरुक्तास्तेऽपि न बाधकाः ॥ ८८ ॥ सर्वत्र सारभूतत्वात्सर्वत्रैवाजडत्वतः । सर्वभावस्वभावत्वादभावस्यापि भावतः ॥ ८९ ॥ घटात्मककटात्मादेः पदार्थपदयोगतः । अभावस्य कपालादिरूपत्वाद्वस्तुता स्थिता ॥ ९० ॥ अभावस्यापि वस्तुत्वे न विनाशोऽस्ति कस्यचित् । अभावस्यापि करणे सम्पत्तिर्नोपपद्यते ॥ ९१ ॥ कुण्डलादिषु भावेषु सर्वथैव सुवर्णता । व्याप्तेरखण्डितैवास्ते शिवता सर्वगामिनी ॥ ९२ ॥ सर्वज्ञानातिरेकत्वे स्थिते वक्ष्यसि किं स्वके । दर्शने यत्र नानात्वं बन्धमोक्षावुदाहृतौ ॥ ९३ ॥ मलित्वमात्मनां प्रोक्तं सर्वभावेषु भेदिता । सत्यमुक्तमारुरुक्षोस्तत्क्रमप्रतिपत्तये ॥ ९४ ॥ अन्यथा ह्येकरूपत्वे विचिकित्सा प्रवर्त्तते । विना बोधं प्राथमिके निर्यत्नश्च भवेदसौ ॥ ९५ ॥ बन्धमोक्षाद्यभावेन निर्मलोऽत्र करोति किम् । न च वा प्रत्ययं गच्छेत् झटित्येकोक्तिमात्रतः ॥ ९६ ॥