शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 181, कुल 188 में से
संदर्भ में पढ़ें१६४ शिवदृष्टिः [ आ०-७ नैतच्छात्रं विना प्रोक्तं कायाकारेण कायिकम्। जलेन जलरूपं स्यादित्याद्यैर्वचनैः स्मृतम्॥ ६६ ॥ सर्वव्याप्त्या स्नेहपूर्णं स्त्र्यादिकायात्मचिन्तनात्। जगद्विधेयतामेति किमुतैकशरीरकम्॥ ७० ॥ सर्वमस्मीति रुचिरं रूपमात्मनि चिन्तयन्। अहमेव मत्परो न भवेदाकर्षणक्रमः॥ ७१ ॥ सर्वस्मिन् मयि कस्यापि कायं ध्यायन् जुगुप्सितम्। ममैवासौ च विद्वेष्यो विद्विष्टो जायते ततः॥ ७२ ॥ व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत्। विद्रुतं करभारूढं विश्वमुच्चाटितं भवेत्॥ ७३ ॥ व्याप्तौ किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम्। जडरूपोऽभवामीति चिन्तया मरणं स्थितम्॥ ७४ ॥ व्याप्तिदार्ढ्यं नक्तमेकं चन्द्रं वात्मानमुत्थितम्। विचिन्त्य प्रस्रवन्तं के कस्याप्याप्यायनं भवेत्॥ ७५ ॥ चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु। अविनाश्येकपिण्डे वा स भवेदजरामरः॥ ७६ ॥ स्रवत्कृष्णामृतं मेघमात्मोपरि निजात्मकम्। ध्यायतो बालमात्मानं सा जरा संप्रलीयते॥ ७७ ॥ ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते। भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी॥ ७८ ॥ येन येनेन्द्रियेणार्थो गृह्यते तत्र तत्र सा। शिवता लक्षिता सत्या तद्ध्यानमपि वर्ण्यते॥ ७६ ॥ यस्यां यस्यां प्रतीतौ तु शिवोऽस्मीति मनोगमः। तस्यां तथैव चिन्तायां तद्ध्यानमपि जल्पितम्॥ ८० ॥ यस्मिन्नर्थे सदात्यागो गच्छतस्तिष्ठतोऽपि वा। धावतः खादतो वापि स योगः परयोगिनः॥ ८१ ॥ भावितेऽभाविते वापि शिवत्वे शिवतैव मे। सर्वदा पितृमात्रादितौल्यदार्ढ्येन योगिता॥ ८२ ॥