शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 180, कुल 188 में से
संदर्भ में पढ़ेंआ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६३ सर्वस्य श्रेयसो नूनं सत्यान्निर्गतता मता। मूले समर्थतावेशो मध्ये तुल्यत्वमेतयोः ॥ ५५ ॥ कार्यो मूलसमावेश इति ज्ञात्वा तथोदयः। सर्वामूर्तत्वतत्त्वास्थाबुद्धिदृष्टप्रसक्तितः ॥ ५६ ॥ सम्यगुत्पद्यतेऽन्तर्धिरूपणं भक्तिनिर्गतिः। मतिर्ममत्वनिर्माणमनसां महतां तराम् ॥ ५७ ॥ प्रसरत्यस्ति विज्ञानं सर्वदिक्कमबाधितम्। ममत्वमानसे साधु साधूनां सक्तिमागते ॥ ५८ ॥ संकल्पप्रभवं सर्वं जगदेतदनन्तकम्। सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥ ५९ ॥ अभिमानात्तथैवैषां भावसर्गः प्रवर्तते। प्रत्येकदेवग्रामस्य ममताभिनिवेशतः ॥ ६० ॥ दिव्यानि तान्ययत्नेन प्रसरन्ति समन्ततः। सामस्त्येन प्रसर्पन्तो निर्विशेषा हि केवलाः ॥ ६१ ॥ सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः। विशेषममतावेशप्रवेशवशतो महान् ॥ ६२ ॥ तनुस्वरूपनिर्माण/परिमाणभवोदयः । शिवतत्त्वे त्रिधाभूते स्वच्छकालकलाकले ॥ ६३ ॥ सकले च समासक्तस्तत्तद्रूपोपरूपणम्। सामर्थ्येऽखंडसामर्थ्यं सतते ज्ञानवीर्यता ॥ ६४ ॥ ईशे समग्रकर्तृत्वं सरस्वत्या मनूत्तमः। प्रमेये ममतावेशान्निर्मिणोति नवं जगत् ॥ ६५ ॥ कलने चिद्घनत्वं स्याद्भेदने सर्वचिद्गमः। स्नेहे तु सर्वकामत्वं कालात्सर्वर्तुवर्तनम् ॥ ६६ ॥ नियमे सर्वयमनं कैवल्यं प्रलयाकले। स्वात्मनो ह्यनिरुद्धार्था निरूपाधिविभूतिका ॥ ६७ ॥ सर्वाकाराभिमानेन ममेतिदृढसक्तिना। सर्वाकारसमापत्तिरनन्तैवोपजायते ॥ ६८ ॥