शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 179, कुल 188 में से
संदर्भ में पढ़ें१६२ शिवदृष्टिः [ आ०-७ देवताहेमनिर्माणसन्निधानस्फुटार्थताः । साम्मुख्यवृत्तिर्देहान्तरतिरागमहागुणाः ॥ ४१ ॥ देहान्तरेषु संक्रान्तिः परित्यागोऽपरेष्वपि । अन्तर्मुखमुखाक्ष्यादिक्रमगोचरचिद्गतेः ॥ ४२ ॥ संस्पर्शात्तदुद्बोध अन्यत्रापि तथा स्थितिः । स्वदेहे देवदृढतां नागादिदमनाईता ॥ ४३ ॥ तथा सकलरूपाणां भावनेव तथा स्वयम् । निजान्तःसृष्टिबाह्यस्थस्थूलसन्निधियोगतः ॥ ४४ ॥ आत्मनो महिमा ज्ञेयस्ततः सृष्टेरनन्तता । स्थूलभावादविश्रान्तदृष्टिपातात्तदेकताम् ॥ ४५ ॥ प्रापितो जगदैक्यं च समन्तादवकल्पते । यत्र तत्रापि विश्रान्तिलीनं शक्तिचतुष्टये ॥ ४६ ॥ विश्वमेकस्वरूपेण रूपेण प्रतिपद्यते । शिवभावनयौषध्या बद्धे मनसि संसृतेः ॥ ४७ ॥ काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता । तत्तत्तत्त्वबलावेशात् सर्ववस्त्वेकरूपिणम् ॥ ४८ ॥ स्थैर्येणाभावभावानामात्मानं निर्मिणोति सः । स्वशरीरे दृढा शक्तिः प्राप्ताक्ष्यादिविधेयताम् ॥ ४९ ॥ तद्वदन्यत्र भावादौ स्वात्मशक्त्या किलाधिपः । सर्वभावेषु सद्योगात्सत्यत्वे शिवता स्थिता ॥ ५० ॥ सर्वकामदुघा साध्वी शिवता प्रसरेन्नृणाम् । पदस्यार्थः पदार्थत्वमित्यमर्थव्यवस्थितौ ॥ ५१ ॥ यस्मात्पदार्थता तुल्या चित्ताभावोद्भवो मुहुः । सर्वत्र चित्ताभावेन सत्याकारतया स्थितेः ॥ ५२ ॥ सर्वत्रानुभावावस्थाप्रसरः सारतो भवेत् । सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥ ५३ ॥ सर्वाकारे महाकाररचना रुचिराचिरात् । सर्वत्रैक्ये स्थिरा रूढिर्जन्या रागादिनाहता ॥ ५४ ॥