शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 178, कुल 188 में से
संदर्भ में पढ़ेंआ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६१ ततः स्थूलैर्मन्त्रमयैरङ्गैः सर्वक्रियापरा । भवतीश्वररूपेण स्वकार्याखिलरूपिणी ॥ २७ ॥ तस्यापि शक्तिमृत्पिण्डघटवद्विश्वतां गतां । यावद्यावत्तरेद्विद्यामायादिघनपार्थिवम् ॥ २८ ॥ तत्त्वं देवस्तथा तावद्भावशक्त्या घटादिके । निजशक्तिसमाविष्टेरायान्ति शिवसम्पदः ॥ २९ ॥ क्रियाशक्तिपरात्मत्वे क्वचित्पिण्डशिवात्मता । क्वचिदन्तःकृतौ ज्ञानाद्भावेत्पदशिवात्मता ॥ ३० ॥ इच्छामात्रे रूपशिवस्तरंगे तदतीतता । कर्तृमात्रे सर्वभावव्यतीतशिवभावता ॥ ३१ ॥ दृढांगुलिनिवेशन दृढस्थूलनिरीक्षणात् । भ्रमतो भावचलनात् प्लवाच्च प्रेक्षणाक्षतेः ॥ ३२ ॥ पुरोऽणुपुञ्जभ्रान्त्याप्त्या चित्त्वलाभो जडेष्वपि । सर्वचित्क्षेपतः साम्यात्सर्वत्रेच्छात्र ईदृशी ॥ ३३ ॥ प्रतीत्युद्गमकाले तु सार्वभाव्यादसौ विभुः । सृष्टानुभवदो रूढेरमूर्तज्ञानचिल्लयात् ॥ ३४ ॥ ज्ञानयोगसमुद्युक्तिलीनत्वेन क्रियागमः । इच्छात्तः कान्तितोजोभिस्तत्कर्तृत्वमहेशता ॥ ३५ ॥ संविद्देहतद्गतत्वे संवित्स्वातन्र्यमापतेत् । तोषे निर्वृतियोगो वा दाढर्यात् स्वातन्त्र्यमेतयोः ॥ ३६ ॥ दुःखासक्त्याऽन्यथासक्त्या सुखे निर्वृतिभूमिता । जडकायांगनिचये मद्दाढर्चोचितचिन्तया ॥ ३७ ॥ जडाशेषपदार्थात्मरूढेस्तद्बोधपूर्णता । निजाभिमानसंसृष्टे स्वशरीरे महोदयात् ॥ ३८ ॥ अन्यदेहे तथावृत्तेस्तथा बुद्धिविशिष्टता । भावनातीतनिर्मूलसत्कार्यादिविसर्गवत् ॥ ३६ ॥ तत्तद्भावभरासक्तेस्तत्तन्निर्माणमानता । लसदग्रस्फुरत्तेजःकणसत्तोद्भवो महान् ॥ ४० ॥ ११