भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

१६२ शिवदृष्टिः [ आ०-७ देवताहेमनिर्माणसन्निधानस्फुटार्थताः । साम्मुख्यवृत्तिर्देहान्तरतिरागमहागुणाः ॥ ४१ ॥ देहान्तरेषु संक्रान्तिः परित्यागोऽपरेष्वपि । अन्तर्मुखमुखाक्ष्यादिक्रमगोचरचिद्गतेः ॥ ४२ ॥ संस्पर्शात्तदुद्बोध अन्यत्रापि तथा स्थितिः । स्वदेहे देवदृढतां नागादिदमनाईता ॥ ४३ ॥ तथा सकलरूपाणां भावनेव तथा स्वयम् । निजान्तःसृष्टिबाह्यस्थस्थूलसन्निधियोगतः ॥ ४४ ॥ आत्मनो महिमा ज्ञेयस्ततः सृष्टेरनन्तता । स्थूलभावादविश्रान्तदृष्टिपातात्तदेकताम् ॥ ४५ ॥ प्रापितो जगदैक्यं च समन्तादवकल्पते । यत्र तत्रापि विश्रान्तिलीनं शक्तिचतुष्टये ॥ ४६ ॥ विश्वमेकस्वरूपेण रूपेण प्रतिपद्यते । शिवभावनयौषध्या बद्धे मनसि संसृतेः ॥ ४७ ॥ काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता । तत्तत्तत्त्वबलावेशात् सर्ववस्त्वेकरूपिणम् ॥ ४८ ॥ स्थैर्येणाभावभावानामात्मानं निर्मिणोति सः । स्वशरीरे दृढा शक्तिः प्राप्ताक्ष्यादिविधेयताम् ॥ ४९ ॥ तद्वदन्यत्र भावादौ स्वात्मशक्त्या किलाधिपः । सर्वभावेषु सद्योगात्सत्यत्वे शिवता स्थिता ॥ ५० ॥ सर्वकामदुघा साध्वी शिवता प्रसरेन्नृणाम् । पदस्यार्थः पदार्थत्वमित्यमर्थव्यवस्थितौ ॥ ५१ ॥ यस्मात्पदार्थता तुल्या चित्ताभावोद्भवो मुहुः । सर्वत्र चित्ताभावेन सत्याकारतया स्थितेः ॥ ५२ ॥ सर्वत्रानुभावावस्थाप्रसरः सारतो भवेत् । सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥ ५३ ॥ सर्वाकारे महाकाररचना रुचिराचिरात् । सर्वत्रैक्ये स्थिरा रूढिर्जन्या रागादिनाहता ॥ ५४ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६३ सर्वस्य श्रेयसो नूनं सत्यान्निर्गतता मता। मूले समर्थतावेशो मध्ये तुल्यत्वमेतयोः ॥ ५५ ॥ कार्यो मूलसमावेश इति ज्ञात्वा तथोदयः। सर्वामूर्तत्वतत्त्वास्थाबुद्धिदृष्टप्रसक्तितः ॥ ५६ ॥ सम्यगुत्पद्यतेऽन्तर्धिरूपणं भक्तिनिर्गतिः। मतिर्ममत्वनिर्माणमनसां महतां तराम् ॥ ५७ ॥ प्रसरत्यस्ति विज्ञानं सर्वदिक्कमबाधितम्। ममत्वमानसे साधु साधूनां सक्तिमागते ॥ ५८ ॥ संकल्पप्रभवं सर्वं जगदेतदनन्तकम्। सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥ ५९ ॥ अभिमानात्तथैवैषां भावसर्गः प्रवर्तते। प्रत्येकदेवग्रामस्य ममताभिनिवेशतः ॥ ६० ॥ दिव्यानि तान्ययत्नेन प्रसरन्ति समन्ततः। सामस्त्येन प्रसर्पन्तो निर्विशेषा हि केवलाः ॥ ६१ ॥ सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः। विशेषममतावेशप्रवेशवशतो महान् ॥ ६२ ॥ तनुस्वरूपनिर्माण/परिमाणभवोदयः । शिवतत्त्वे त्रिधाभूते स्वच्छकालकलाकले ॥ ६३ ॥ सकले च समासक्तस्तत्तद्रूपोपरूपणम्। सामर्थ्येऽखंडसामर्थ्यं सतते ज्ञानवीर्यता ॥ ६४ ॥ ईशे समग्रकर्तृत्वं सरस्वत्या मनूत्तमः। प्रमेये ममतावेशान्निर्मिणोति नवं जगत् ॥ ६५ ॥ कलने चिद्घनत्वं स्याद्भेदने सर्वचिद्गमः। स्नेहे तु सर्वकामत्वं कालात्सर्वर्तुवर्तनम् ॥ ६६ ॥ नियमे सर्वयमनं कैवल्यं प्रलयाकले। स्वात्मनो ह्यनिरुद्धार्था निरूपाधिविभूतिका ॥ ६७ ॥ सर्वाकाराभिमानेन ममेतिदृढसक्तिना। सर्वाकारसमापत्तिरनन्तैवोपजायते ॥ ६८ ॥

१६४ शिवदृष्टिः [ आ०-७ नैतच्छात्रं विना प्रोक्तं कायाकारेण कायिकम्। जलेन जलरूपं स्यादित्याद्यैर्वचनैः स्मृतम्॥ ६६ ॥ सर्वव्याप्त्या स्नेहपूर्णं स्त्र्यादिकायात्मचिन्तनात्। जगद्विधेयतामेति किमुतैकशरीरकम्॥ ७० ॥ सर्वमस्मीति रुचिरं रूपमात्मनि चिन्तयन्। अहमेव मत्परो न भवेदाकर्षणक्रमः॥ ७१ ॥ सर्वस्मिन् मयि कस्यापि कायं ध्यायन् जुगुप्सितम्। ममैवासौ च विद्वेष्यो विद्विष्टो जायते ततः॥ ७२ ॥ व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत्। विद्रुतं करभारूढं विश्वमुच्चाटितं भवेत्॥ ७३ ॥ व्याप्तौ किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम्। जडरूपोऽभवामीति चिन्तया मरणं स्थितम्॥ ७४ ॥ व्याप्तिदार्ढ्यं नक्तमेकं चन्द्रं वात्मानमुत्थितम्। विचिन्त्य प्रस्रवन्तं के कस्याप्याप्यायनं भवेत्॥ ७५ ॥ चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु। अविनाश्येकपिण्डे वा स भवेदजरामरः॥ ७६ ॥ स्रवत्कृष्णामृतं मेघमात्मोपरि निजात्मकम्। ध्यायतो बालमात्मानं सा जरा संप्रलीयते॥ ७७ ॥ ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते। भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी॥ ७८ ॥ येन येनेन्द्रियेणार्थो गृह्यते तत्र तत्र सा। शिवता लक्षिता सत्या तद्ध्यानमपि वर्ण्यते॥ ७६ ॥ यस्यां यस्यां प्रतीतौ तु शिवोऽस्मीति मनोगमः। तस्यां तथैव चिन्तायां तद्ध्यानमपि जल्पितम्॥ ८० ॥ यस्मिन्नर्थे सदात्यागो गच्छतस्तिष्ठतोऽपि वा। धावतः खादतो वापि स योगः परयोगिनः॥ ८१ ॥ भावितेऽभाविते वापि शिवत्वे शिवतैव मे। सर्वदा पितृमात्रादितौल्यदार्ढ्येन योगिता॥ ८२ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६५ तथाहि कोशहेमादिसादृश्यं योगसत्यता। शिवोऽस्मीति मदिच्छात् सर्वभावप्रवर्तनम् ॥ ८३ ॥ अत एव शिवः सर्वमिति योगोऽथ चेतसि। सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥ ८४ ॥ अनिरुद्धो जपोऽस्त्येव सर्वावस्थास्वसौ जपः। नानाकारैः सदा कुर्वन्नुदयं सर्ववस्तुगः ॥ ८५ ॥ अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते। संकल्पाज्जनयन्नस्मि स्थितः शब्दानथो मुखे ॥ ८६ ॥ सो हि नाम जपो ज्ञेयः सत्यादिस्त्रिविधो हि सः। न मे बन्धो ऽन मे मोक्षस्तौ मलत्वेन संस्थितौ ॥ ८७ ॥ प्रतिपत्त्यानया स्नानं निर्मलीकरणं मतम्। दुःखे वापि सुखे वापि सर्वासु प्रतिपत्तिषु ॥ ८८ ॥ शिवोऽस्मीतिम नोल्हादो जलस्नानं परं मतम्। चिन्निर्मला तन्मयं हि जगदस्मि तथाविधः ॥ ८६ ॥ इत्यास्थाजलशौचेन शुद्धिस्र्नानं तथोदितम्। सर्वभावाः शिवाकारा अन्तर्भूताः शिवानले ॥ ६० ॥ सोऽहं शिवः सुतृप्तोऽस्मि होम इत्युदितः परः। अत्राकारे न यन्मेऽस्ति तदाकारान्तरेऽस्ति मे ॥ ६१ ॥ तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः। पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥ ६२ ॥ पूजकैरविभेदेन सदा पूजेति पूजनम्। अत्राकारे च मे पूजा या स्यात् सादाशिवात्मनि ॥ ६३ ॥ लिंगादिके पूजितोऽस्मि सदा पूजेति वा स्थिता। पूजकः पूजनं पूज्यमिति सर्वं शिवः स्थितः ॥ ६४ ॥ किमेतेनात्मभावेन तृप्त्या वा ऽपरपूजनम्। सर्वाकारेषु भोग्येन यजनं मम वर्तते ॥ ६५ ॥ भुञ्जेऽहं यत्र तत्रापि भोगलग्नः प्रतीतितः। शिवोऽस्मि साधनाविष्टः शिवोऽहं याजकोऽप्यहम् ॥ ६६ ॥

१६६ शिवदृष्टिः [ आ०-७ शिव एवानया स्थित्या सत्यया याग उत्तमः । येन येन यत्र यत्र यैर्यैर्यन्दिह चेज्यते ॥ ९७ ॥ स मया क्रियते यागः शिवत्वाद्याग उत्तमः । शिवं यामि शिवो यामि शिवेन शिवसाधनः ॥ ९८ ॥ भिन्नोऽप्यभिन्न एवास्मि शिव इत्थं विचेष्टनम् । शिवो भोक्ता शिवो भोज्यं शिवेषु शिवसाधनः ॥ ९९ ॥ भुक्त्वोदेति शिवावस्था स्थितेत्थं भोक्तृरूपता । शिवः कर्ता शिवः कर्म शिवोऽस्मि करणात्मकः ॥ १०० ॥ शिव एव फलावस्था व्यापार इति साधुषु । भावनाकरणाभ्यां किं शिवस्य सततोदितेः ॥ १०१ ॥ यथा तथा प्रतिष्ठामः प्रबुद्धस्येति वर्तनम् । यद्दृश्यं यच्च संस्पृश्यं यद्घ्रेयं रस्यमेव यत् ॥ १०२ ॥ यच्छाव्यं तच्छिवव्यक्तैस्तच्छिवत्वेन संश्रितः । गम्ये ग्राह्ये तथा वाच्ये सुखादावपि सर्वदा ॥ १०३ ॥ स्थिते शिवत्वे बद्धास्थो भवेत् सर्वगतः शिवः । मन्तव्ये चाभिमान्तव्ये बोद्धव्ये धृतिसंगमात् ॥ १०४ ॥ सुखे दुःखे विमोहे च स्थितोऽहं परमः शिवः । प्रतिपादितमेतावत् सर्वमेव शिवात्मकम् ॥ १०५ ॥ न स्वबुद्ध्या शिवो दाता शिवो भोक्तेति शास्त्रतः । इति कथितमशेषं शैवरूपेण विश्वं जगदुदितमहेशांघ्रयाज्ञया स्वप्नभाजा । यदधिगमबलेन प्राप्य सम्यग्विकासं भवति शिवमयात्मा सर्वभावेन सर्वः ॥ १०६ ॥ शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ १०७ ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरे । कलापिग्रामप्रमुखे समुच्छिन्ने च शासने ॥ १०८ ॥ कैलासादौ भ्रमन् देवो मूर्त्या श्रीकंठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ १०९ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६७ र्नीन दुर्वाससं नाम भगवानूर्ध्वरेतसम्। नोच्छिद्येत यथा शास्त्रं रहस्यं कुरु तादृशम्॥ ११०॥ ततः स भगवान् देवादादेशं प्राप्य यत्नवान्। ससर्ज मानसं पुत्रं त्र्यम्बकावित्यनामकम्॥ १११॥ तस्मिन् संक्रमायामास रहस्यानि समन्ततः। सोऽपि गत्वा गुहां सम्यक् त्र्यम्बकाख्यां ततः परम्॥ ११२॥ तन्नाम्ना चिह्नितं तत्र ससर्ज मनसा सुतम्। खमुत्पपात संसिद्धस्तत्पुत्रोऽपि तथा तथा॥ ११३॥ सिद्धस्तत्सुतोत्पत्त्या सिद्धा एवं चतुर्दश। यावत्पञ्चदशः पुत्रः सर्वशास्त्रविशारदः॥ ११४॥ स कदाचिल्लोकयात्रामसीनः प्रेक्षते ततः। बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि॥ ११५॥ रूपयौवनसौभाग्यबन्धुरा सा गता दृशम्। दृष्ट्वा तां लक्षणैर्युक्तां योग्यां कन्यामथात्मनः॥ ११६॥ सधर्मचारिणीं सम्यग्गत्वा तत्पितरं स्वयम्। अर्थयित्वा ब्राह्मणीं तामानयामास यत्नतः॥ ११७॥ ब्राह्मणेन विवाहेन ततो जातस्तथाविधः। तेन यः स च कालेन काश्मीरेष्वागतो भ्रमन्॥ ११८॥ नाम्ना स संगमादित्यो वर्षादित्योऽपि तत्सुतः। तस्याप्यभूत् स भगवानरुणादित्यसंज्ञकः॥ ११९॥ आनन्दसंज्ञकस्तस्मादुद्बभूव तथाविधः। तस्मादस्मि समुद्भूतः सोमानन्दाख्य ईदृशः॥ १२०॥ करोमि स्म प्रकरणं शिवदृष्ट्यभिधानकम्। एवमेषां त्र्यम्बकाख्या तेरम्बा देशभाषया॥ १२१॥ स्थिता शिष्यप्रशिष्याद्यैर्विस्तीर्णा मठिकोदिता। तदेवमेतद्विहितं मया प्रकरणं मनाक्॥ १२२॥ प्रार्थ्यन्तेऽस्मिन् प्रयुक्तेऽपि गुरवो ग्रहणं प्रति॥ इति समाप्तिसंज्ञकं नाम सप्तममाह्निकम्॥

(पृष्ठस्य पाठः अत्यन्तम् अस्पष्टः/छायारूपः अस्ति) (मुद्रा/Stamp:) परिग्रह सं. ...... 5333

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।

294 SC JACO