शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 183, कुल 188 में से
संदर्भ में पढ़ें१६६ शिवदृष्टिः [ आ०-७ शिव एवानया स्थित्या सत्यया याग उत्तमः । येन येन यत्र यत्र यैर्यैर्यन्दिह चेज्यते ॥ ९७ ॥ स मया क्रियते यागः शिवत्वाद्याग उत्तमः । शिवं यामि शिवो यामि शिवेन शिवसाधनः ॥ ९८ ॥ भिन्नोऽप्यभिन्न एवास्मि शिव इत्थं विचेष्टनम् । शिवो भोक्ता शिवो भोज्यं शिवेषु शिवसाधनः ॥ ९९ ॥ भुक्त्वोदेति शिवावस्था स्थितेत्थं भोक्तृरूपता । शिवः कर्ता शिवः कर्म शिवोऽस्मि करणात्मकः ॥ १०० ॥ शिव एव फलावस्था व्यापार इति साधुषु । भावनाकरणाभ्यां किं शिवस्य सततोदितेः ॥ १०१ ॥ यथा तथा प्रतिष्ठामः प्रबुद्धस्येति वर्तनम् । यद्दृश्यं यच्च संस्पृश्यं यद्घ्रेयं रस्यमेव यत् ॥ १०२ ॥ यच्छाव्यं तच्छिवव्यक्तैस्तच्छिवत्वेन संश्रितः । गम्ये ग्राह्ये तथा वाच्ये सुखादावपि सर्वदा ॥ १०३ ॥ स्थिते शिवत्वे बद्धास्थो भवेत् सर्वगतः शिवः । मन्तव्ये चाभिमान्तव्ये बोद्धव्ये धृतिसंगमात् ॥ १०४ ॥ सुखे दुःखे विमोहे च स्थितोऽहं परमः शिवः । प्रतिपादितमेतावत् सर्वमेव शिवात्मकम् ॥ १०५ ॥ न स्वबुद्ध्या शिवो दाता शिवो भोक्तेति शास्त्रतः । इति कथितमशेषं शैवरूपेण विश्वं जगदुदितमहेशांघ्रयाज्ञया स्वप्नभाजा । यदधिगमबलेन प्राप्य सम्यग्विकासं भवति शिवमयात्मा सर्वभावेन सर्वः ॥ १०६ ॥ शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ १०७ ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरे । कलापिग्रामप्रमुखे समुच्छिन्ने च शासने ॥ १०८ ॥ कैलासादौ भ्रमन् देवो मूर्त्या श्रीकंठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ १०९ ॥