शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 182, कुल 188 में से
संदर्भ में पढ़ेंआ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६५ तथाहि कोशहेमादिसादृश्यं योगसत्यता। शिवोऽस्मीति मदिच्छात् सर्वभावप्रवर्तनम् ॥ ८३ ॥ अत एव शिवः सर्वमिति योगोऽथ चेतसि। सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥ ८४ ॥ अनिरुद्धो जपोऽस्त्येव सर्वावस्थास्वसौ जपः। नानाकारैः सदा कुर्वन्नुदयं सर्ववस्तुगः ॥ ८५ ॥ अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते। संकल्पाज्जनयन्नस्मि स्थितः शब्दानथो मुखे ॥ ८६ ॥ सो हि नाम जपो ज्ञेयः सत्यादिस्त्रिविधो हि सः। न मे बन्धो ऽन मे मोक्षस्तौ मलत्वेन संस्थितौ ॥ ८७ ॥ प्रतिपत्त्यानया स्नानं निर्मलीकरणं मतम्। दुःखे वापि सुखे वापि सर्वासु प्रतिपत्तिषु ॥ ८८ ॥ शिवोऽस्मीतिम नोल्हादो जलस्नानं परं मतम्। चिन्निर्मला तन्मयं हि जगदस्मि तथाविधः ॥ ८६ ॥ इत्यास्थाजलशौचेन शुद्धिस्र्नानं तथोदितम्। सर्वभावाः शिवाकारा अन्तर्भूताः शिवानले ॥ ६० ॥ सोऽहं शिवः सुतृप्तोऽस्मि होम इत्युदितः परः। अत्राकारे न यन्मेऽस्ति तदाकारान्तरेऽस्ति मे ॥ ६१ ॥ तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः। पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥ ६२ ॥ पूजकैरविभेदेन सदा पूजेति पूजनम्। अत्राकारे च मे पूजा या स्यात् सादाशिवात्मनि ॥ ६३ ॥ लिंगादिके पूजितोऽस्मि सदा पूजेति वा स्थिता। पूजकः पूजनं पूज्यमिति सर्वं शिवः स्थितः ॥ ६४ ॥ किमेतेनात्मभावेन तृप्त्या वा ऽपरपूजनम्। सर्वाकारेषु भोग्येन यजनं मम वर्तते ॥ ६५ ॥ भुञ्जेऽहं यत्र तत्रापि भोगलग्नः प्रतीतितः। शिवोऽस्मि साधनाविष्टः शिवोऽहं याजकोऽप्यहम् ॥ ६६ ॥