भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 169, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 169

१५२ शिवदृष्टिः [ आ०-६ नेत्रादिव्यापृतेः पूर्वं घटं पश्यामि तादृशी । जायते प्रथमैवेच्छा नामाजातस्य यादृशी ॥ ४१ ॥ ज्ञानात्पूर्वमिच्छाजाते ज्ञातृकल्पनमुज्ज्वलम् । न घटो निर्विशेषोऽस्ति ग्रहे यज्ज्ञातृशुद्धता ॥ ४२ ॥ उत्पत्तिकाले स्वात्मानं किमादौ वेत्ति वा बहिः । प्रतिभासस्य वैचित्र्याद्युगपद्ग्रहणं कथम् ॥ ४३ ॥ क्रमेण वा परिच्छेदे क्षणान्तरमवस्थितिः । दृष्ट्वा तां संपरिच्छेदे क्षणद्वयमथोच्यते ॥ ४४ ॥ उत्पद्यमाने विज्ञाने नार्थनिष्पन्नता मता । न चार्थजातेऽवस्तुत्वं नावस्तुग्रहणादरः ॥ ४५ ॥ प्रकाशमप्रकाशं वा ज्ञानं तस्य प्रकाशते । विद्यारूपादनाशित्वं न हि तत्त्वं विनश्वरम् ॥ ४६ ॥ अथ दीपप्रकाशत्वे न नित्यत्वं न कर्तृता । कर्तृता तत्र दीपादेः करणत्वं तदीक्षणे ॥ ४७ ॥ प्रकाशतात्मन्यचले स च प्रोक्तोऽप्यनश्वरः । ज्ञानस्य करणत्वेन भवेच्चेदनवस्थितिः ॥ ४८ ॥ दीपचक्षुःक्रमफलदर्शनात्तदबाधकम् । भावे कथं विनाशित्वं स्याद्विना कारणान्तरम् ॥ ४९ ॥ अथ नश्वररूपत्वात्तद्रूपस्योद्भवः कथम् । उद्भवो नश्वरत्वं च द्वौ स्वभावौ कथं तथा ॥ ५० ॥ न च नश्यदवस्थायां स्वकार्यं तस्य युज्यते । कृत्वा कार्यं विनश्येच्चेत् क्षणान्तरमवस्थितिः ॥ ५१ ॥ कुर्वद्वा चार्थकार्यत्वं कुतो नश्वररूपता । कारणान्तरजन्यत्वे कारणान्तरसंगता ॥ ५२ ॥ भावस्य भावजनने युक्तत्वं न क्षणस्थितेः । न घटाद्घटसम्भूतिः समवायाद्यपेक्षया ॥ ५३ ॥ नष्टस्य समवायित्वमनष्टस्य घटस्य वा । नष्टस्य तदकर्तृत्वमनष्टस्य स्वरूपिता ॥ ५४ ॥