भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 170, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 170

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५३ यत्तत्सत् क्षणिकत्वेऽपि सत्त्वमप्यक्षगोचरम् । सादृश्याद्भ्रान्तमक्षं चेददुष्टं प्राग्ग्रहे यथा ॥ ५५ ॥ दृष्टान्तेऽपि हि सादृश्ये प्रत्यक्षेण क्षणग्रहः । दीपज्वालासमूहेषु कम्पनं न विनाशिता ॥ ५६ ॥ नापि क्रमयौगपद्यविकल्पाः सहकारिणाम् । सन्निधौ कृतशक्तित्वादनेकेषां तथास्थितेः ॥ ५७ ॥ भावानां चित्रशक्तीनामभेदो हेमभेदवत् । वैलक्षण्यमपूर्वत्वं बाह्याभासक्रियोद्गमात् ॥ ५८ ॥ अर्थक्रियासमर्थत्वे वस्तुता शुक्तिकादिके । तत्र स्थितावस्तुता चेन्नोक्तत्वादेषु वस्तुता ॥ ५६ ॥ घटो नश्यत्यात्मनेति किंचित्कुर्वन् किमात्मना । नश्यत्यात्मन्यकुर्वन् वा तदेवं स्थित एव सः ॥ ६० ॥ कुर्वन् वा किं तदा कुर्वन् न भावं तद्घटादिकात् । अनन्यं व्यतिरिक्तं वा यद्यर्थनन्यस्तथाविधः ॥ ६१ ॥ अन्यत्वेऽन्यसमुत्पत्तौ घटस्यायातमत्र किम् । आत्मना परतो वापि विनाशेऽत्रापि तादृशाः ॥ ६२ ॥ विकल्पा अथवा नश्येदसावेतावदेव सत् । तत्रापि किंचित्कुर्वन्किं स नश्यति तथाविधाः ॥ ६३ ॥ विकल्पाः पुनरायान्ति न चाभावक्रियां प्रति । घट एव करणत्वे सामग्री जनिकेति ते ॥ ६४ ॥ दर्शनं यद्यभावस्य तुच्छस्य करणं कथम् । बहुभिस्तर्हि तुच्छं हि घटोऽपि जनयेत्कथम् ॥ ६५ ॥ नाशं घटस्य जनयेत्तत्सम्बन्धितया स्थितम् । मृत्पिण्डस्य घटोत्पत्तौ सति तज्जननात्मके ॥ ६६ ॥ रूपे हेत्वन्तरापेक्षा यत्र तत्र तथा कृता । घटस्य नश्वरात्मत्वे मुद्गरादेरपेक्षणम् ॥ ६७ ॥ किं वा नाश्यं न मृत्पिण्डं घटस्य जनकं भवेत् । तदनाशे न किंचित्स्याद्घट एव न जायते ॥ ६८ ॥

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 170, कुल 188 में से · BharatKosha