शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 176, कुल 188 में से
संदर्भ में पढ़ेंअथ सप्तममाह्निकम् अथ स्थिते सर्वदिक्वे शिवतत्त्वेऽधुनोच्यते । तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥ १ ॥ वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् । अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥ २ ॥ सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् । मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥ ३ ॥ चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् । तथापि कार्यभोगार्थं स ज्ञातः केन वार्यते ॥ ४ ॥ सकृज्ज्ञाते सुवर्णे हि भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ५ ॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनापि वा ॥ ६ ॥ ज्ञातेऽपि तरुभूम्यादिदाढर्यान्न करणादिकम् । भूतले प्रत्ययं याति न भावः करणं न च ॥ ७ ॥ तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते । सर्व एवात एणैतद्भावनाकरणाच्च्युतम् ॥ ८ ॥ विज्ञातं जायते पुंसा यद्यप्येवमवस्थितम् । तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् ॥ ६ ॥ तज्ज्ञानस्फुटताहेतौ चिन्तारत्नसुवर्णवत् । वह्निर्यद्यपि विज्ञातः प्रकाशादि करोत्यसौ ॥ १० ॥ तथापि योजितो युक्त्या प्रकाशमधिकं गृहे । दीपेनान्यतमेनापि न तथा वह्निराशिना ॥ ११ ॥ तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये । ततः स्वात्मक्रियोन्मुख्यमिच्छाप्रथमकोद्गमः ॥ १२ ॥