शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 174, कुल 188 में से
संदर्भ में पढ़ेंआ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५७ अनुवृत्तिः किमाधिक्याद्रागाद् वा तर्हि दूषणम् । अनादिशिवतत्त्वस्य स्वामोदं किं न विद्यते ॥ १११ ॥ तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् । अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥ ११२ ॥ निजं तस्य न हीयेत तद्वत् परमकारणे । यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥ ११३ ॥ तथा तस्य यथान्येषां यथान्येषां तथास्य तु । तस्मादनेकात्मतया दोषा आयान्ति तादृशाः ॥ ११४ ॥ तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता । मोक्षता चोपपद्येत निर्मलं समलं तथा ॥ ११५ ॥ रूपद्वयं युक्तिमत्स्याज्जन्मादेर्युगपन्न च । सम्भवः स्यात्तथारूपशिवत्वादन्यदर्शने ॥ ११६ ॥ दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा ? ॥ ११७ ॥ एकस्यैवात्मनो यद्वदङ्गभेदो विचित्रता । युगपद्बन्धपीडादिस्तद्वन्नानाशरीरता ॥ ११८ ॥ स्थितेऽपि वात्र नानात्वे कैवल्ये न विशेषता । एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥ ११९ ॥ सर्वज्ञत्वादिरूपेण सर्व एव शिवाः स्थिताः । व्यापकाश्च तथा सर्वे सर्व एवात्मसंविदः ॥ १२० ॥ एतस्यामप्यवस्थायां नामभेदो न विद्यते । हतं केनैकरूपत्वं सामान्येऽपि व्यवस्थिते ॥ १२१ ॥ शिवत्वे न विशेषोऽस्ति शावलेयादिवद्यथा । तासु व्यक्तिषु रूपादि force? रूपादिसंनिवेशादिभेदतः ॥ १२२ ॥ वैलक्षण्यं गवादीनां न तथेहास्ति किंचन । मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥ १२३ ॥ युगपत्सर्वकार्याद्वा संमतत्वादमत्सरात् । तावता विश्वसम्पत्तेः सर्वज्ञत्वाद्विचित्रता ॥ १२४ ॥