भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-६ ] उत्पलदेवकृतवृत्त्योपेता १५७ अनुवृत्तिः किमाधिक्याद्रागाद् वा तर्हि दूषणम् । अनादिशिवतत्त्वस्य स्वामोदं किं न विद्यते ॥ १११ ॥ तदप्यस्ति कर्तृता चेत्तेषां तत्तादृशं न किम् । अथ राज्ञो यथा राज्यकर्म विदधतः सुखम् ॥ ११२ ॥ निजं तस्य न हीयेत तद्वत् परमकारणे । यदि तत्तर्हि मोक्षेऽपि विशेषः किं निवार्यते ॥ ११३ ॥ तथा तस्य यथान्येषां यथान्येषां तथास्य तु । तस्मादनेकात्मतया दोषा आयान्ति तादृशाः ॥ ११४ ॥ तस्मादेकशिवत्वेऽत्र स्थिते नैकस्य बन्धता । मोक्षता चोपपद्येत निर्मलं समलं तथा ॥ ११५ ॥ रूपद्वयं युक्तिमत्स्याज्जन्मादेर्युगपन्न च । सम्भवः स्यात्तथारूपशिवत्वादन्यदर्शने ॥ ११६ ॥ दूषणं संप्रसज्येत न तथेह कदाचन । एकत्वे बन्धताद्यस्ति द्विषः कादिषु ते यथा ? ॥ ११७ ॥ एकस्यैवात्मनो यद्वदङ्गभेदो विचित्रता । युगपद्बन्धपीडादिस्तद्वन्नानाशरीरता ॥ ११८ ॥ स्थितेऽपि वात्र नानात्वे कैवल्ये न विशेषता । एकोऽपि तत्र वैरूपो बहवोऽप्येकरूपिणः ॥ ११९ ॥ सर्वज्ञत्वादिरूपेण सर्व एव शिवाः स्थिताः । व्यापकाश्च तथा सर्वे सर्व एवात्मसंविदः ॥ १२० ॥ एतस्यामप्यवस्थायां नामभेदो न विद्यते । हतं केनैकरूपत्वं सामान्येऽपि व्यवस्थिते ॥ १२१ ॥ शिवत्वे न विशेषोऽस्ति शावलेयादिवद्यथा । तासु व्यक्तिषु रूपादि force? रूपादिसंनिवेशादिभेदतः ॥ १२२ ॥ वैलक्षण्यं गवादीनां न तथेहास्ति किंचन । मुक्तेषु निर्विशेषत्वात् केनैक्यं तत्र वार्यते ॥ १२३ ॥ युगपत्सर्वकार्याद्वा संमतत्वादमत्सरात् । तावता विश्वसम्पत्तेः सर्वज्ञत्वाद्विचित्रता ॥ १२४ ॥

१५८ शिवदृष्टिः आ०-६ नानात्मभावे शैवे वा शैवे वाभेदवादिनि। सर्वस्य सर्वरूपत्वं सर्वात्मत्वमवारितम् ॥ १२५ ॥ अनन्तशक्तियोगित्वादलुप्तत्वात् स्वशक्तिषु। स्थितं शिवत्वं सर्वत्र विशेषाच्छैववादिनाम् ॥ १२६ ॥ एकत्वेन ततो ज्ञेया शिवता सर्वगोचरा ॥ इति श्रीमद्दर्शनानतिरेकं नाम षष्ठमाह्निकम् ॥

अथ सप्तममाह्निकम् अथ स्थिते सर्वदिक्वे शिवतत्त्वेऽधुनोच्यते । तस्मिञ्ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् ॥ १ ॥ वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् । अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥ २ ॥ सत्यमेवं तथापीह सुवर्णं ज्ञातमात्रकम् । मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥ ३ ॥ चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् । तथापि कार्यभोगार्थं स ज्ञातः केन वार्यते ॥ ४ ॥ सकृज्ज्ञाते सुवर्णे हि भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ५ ॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनापि वा ॥ ६ ॥ ज्ञातेऽपि तरुभूम्यादिदाढर्यान्न करणादिकम् । भूतले प्रत्ययं याति न भावः करणं न च ॥ ७ ॥ तस्माच्छिवेऽप्यविज्ञाते ज्ञाते वा शिव एव ते । सर्व एवात एणैतद्भावनाकरणाच्च्युतम् ॥ ८ ॥ विज्ञातं जायते पुंसा यद्यप्येवमवस्थितम् । तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् ॥ ६ ॥ तज्ज्ञानस्फुटताहेतौ चिन्तारत्नसुवर्णवत् । वह्निर्यद्यपि विज्ञातः प्रकाशादि करोत्यसौ ॥ १० ॥ तथापि योजितो युक्त्या प्रकाशमधिकं गृहे । दीपेनान्यतमेनापि न तथा वह्निराशिना ॥ ११ ॥ तस्मादुपायो वक्तव्यो दृष्टकार्यप्रसिद्धये । ततः स्वात्मक्रियोन्मुख्यमिच्छाप्रथमकोद्गमः ॥ १२ ॥

१६० शिवदृष्टिः [ आ०-७ समस्तचित्रकार्यान्तर्गर्भिणी शिबिकाकृतिः । स्वरूपाह्लादनिर्मुक्तिरहितेच्छोदयोद्गमः ॥ १३ ॥ शवला चितिरुच्येत परस्य पररूपिणी । सा शक्तिः परमेशस्य संस्थिता द्रव्यकर्मवत् ॥ १४ ॥ न द्रव्यव्यतिरिक्तास्ति क्रिया न च न विद्यते । न तयापि विना कार्यं किंचनापि हि जायते ॥ १५ ॥ न चापि केवलाद्द्रव्यात् किंचनापि प्रवर्तते । तस्मादित्यमिह ज्ञेयं शाक्तं रूपमभेदवत् ॥ १६ ॥ प्रथमोदय इच्छायाः सर्वभावैक्यदेश्यता । स एव शाक्तबोधात्मस्वच्छावयवरूपवान् ॥ १७ ॥ स्वानन्दैकरसाह्लादी स्वकार्यार्थशरीरवान् । तथास्थितस्य ध्यानेन बोधाद्वा तत्स्वरूपभाक् ॥ १८ ॥ तस्येच्छास्पन्दनं पूर्वन्यग्भावो ह्लादसंगमः । भूपभूपतिशक्त्याभमग्न्यं तत्पूर्णचिल्लयात् ॥ १९ ॥ याति व्याप्तिं तथाभूतां शाम्भदामोदसत्क्रियाम् । शान्तानन्दवपुः स्वच्छ उररीकृतदृक्क्रियः ॥ २० ॥ मध्यव्योमशान्तबोधभरलब्धोदयः शिवः । तस्यापि विद्युदालोकवदभेदवती चला ॥ २१ ॥ भाविस्वभेदतत्कृत्यज्ञानप्रौन्मुख्यवर्तिनी । निजभावकृतसृष्टितदनुग्रहचेतना ॥ २२ ॥ भासतेऽवस्थिता शक्तिः शैवी शैवार्थदायिका । ततः सैव स्वयं बाह्यकार्यप्राक्कलनात्मिका ॥ २३ ॥ न्यग्भूतेच्छा ज्ञानमयी स्पन्दनाविततांगिनी । विद्यामन्त्रकलाकल्पदेहसंपिण्डतोद्गवा ॥ २४ ॥ तेजःकणप्रसरवदुपलभ्या वियत्यलम् । स्थितिः सादाशिवी चासावधिकाराभिमानता ॥ २५ ॥ समला तत्समाश्लेषात् सर्वेशित्वसमुद्गमः । तस्य शक्तिप्रदीपस्य किरणाभोद्यमप्रदा ॥ २६ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६१ ततः स्थूलैर्मन्त्रमयैरङ्गैः सर्वक्रियापरा । भवतीश्वररूपेण स्वकार्याखिलरूपिणी ॥ २७ ॥ तस्यापि शक्तिमृत्पिण्डघटवद्विश्वतां गतां । यावद्यावत्तरेद्विद्यामायादिघनपार्थिवम् ॥ २८ ॥ तत्त्वं देवस्तथा तावद्भावशक्त्या घटादिके । निजशक्तिसमाविष्टेरायान्ति शिवसम्पदः ॥ २९ ॥ क्रियाशक्तिपरात्मत्वे क्वचित्पिण्डशिवात्मता । क्वचिदन्तःकृतौ ज्ञानाद्भावेत्पदशिवात्मता ॥ ३० ॥ इच्छामात्रे रूपशिवस्तरंगे तदतीतता । कर्तृमात्रे सर्वभावव्यतीतशिवभावता ॥ ३१ ॥ दृढांगुलिनिवेशन दृढस्थूलनिरीक्षणात् । भ्रमतो भावचलनात् प्लवाच्च प्रेक्षणाक्षतेः ॥ ३२ ॥ पुरोऽणुपुञ्जभ्रान्त्याप्त्या चित्त्वलाभो जडेष्वपि । सर्वचित्क्षेपतः साम्यात्सर्वत्रेच्छात्र ईदृशी ॥ ३३ ॥ प्रतीत्युद्गमकाले तु सार्वभाव्यादसौ विभुः । सृष्टानुभवदो रूढेरमूर्तज्ञानचिल्लयात् ॥ ३४ ॥ ज्ञानयोगसमुद्युक्तिलीनत्वेन क्रियागमः । इच्छात्तः कान्तितोजोभिस्तत्कर्तृत्वमहेशता ॥ ३५ ॥ संविद्देहतद्गतत्वे संवित्स्वातन्र्यमापतेत् । तोषे निर्वृतियोगो वा दाढर्यात् स्वातन्त्र्यमेतयोः ॥ ३६ ॥ दुःखासक्त्याऽन्यथासक्त्या सुखे निर्वृतिभूमिता । जडकायांगनिचये मद्दाढर्चोचितचिन्तया ॥ ३७ ॥ जडाशेषपदार्थात्मरूढेस्तद्बोधपूर्णता । निजाभिमानसंसृष्टे स्वशरीरे महोदयात् ॥ ३८ ॥ अन्यदेहे तथावृत्तेस्तथा बुद्धिविशिष्टता । भावनातीतनिर्मूलसत्कार्यादिविसर्गवत् ॥ ३६ ॥ तत्तद्भावभरासक्तेस्तत्तन्निर्माणमानता । लसदग्रस्फुरत्तेजःकणसत्तोद्भवो महान् ॥ ४० ॥ ११

१६२ शिवदृष्टिः [ आ०-७ देवताहेमनिर्माणसन्निधानस्फुटार्थताः । साम्मुख्यवृत्तिर्देहान्तरतिरागमहागुणाः ॥ ४१ ॥ देहान्तरेषु संक्रान्तिः परित्यागोऽपरेष्वपि । अन्तर्मुखमुखाक्ष्यादिक्रमगोचरचिद्गतेः ॥ ४२ ॥ संस्पर्शात्तदुद्बोध अन्यत्रापि तथा स्थितिः । स्वदेहे देवदृढतां नागादिदमनाईता ॥ ४३ ॥ तथा सकलरूपाणां भावनेव तथा स्वयम् । निजान्तःसृष्टिबाह्यस्थस्थूलसन्निधियोगतः ॥ ४४ ॥ आत्मनो महिमा ज्ञेयस्ततः सृष्टेरनन्तता । स्थूलभावादविश्रान्तदृष्टिपातात्तदेकताम् ॥ ४५ ॥ प्रापितो जगदैक्यं च समन्तादवकल्पते । यत्र तत्रापि विश्रान्तिलीनं शक्तिचतुष्टये ॥ ४६ ॥ विश्वमेकस्वरूपेण रूपेण प्रतिपद्यते । शिवभावनयौषध्या बद्धे मनसि संसृतेः ॥ ४७ ॥ काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता । तत्तत्तत्त्वबलावेशात् सर्ववस्त्वेकरूपिणम् ॥ ४८ ॥ स्थैर्येणाभावभावानामात्मानं निर्मिणोति सः । स्वशरीरे दृढा शक्तिः प्राप्ताक्ष्यादिविधेयताम् ॥ ४९ ॥ तद्वदन्यत्र भावादौ स्वात्मशक्त्या किलाधिपः । सर्वभावेषु सद्योगात्सत्यत्वे शिवता स्थिता ॥ ५० ॥ सर्वकामदुघा साध्वी शिवता प्रसरेन्नृणाम् । पदस्यार्थः पदार्थत्वमित्यमर्थव्यवस्थितौ ॥ ५१ ॥ यस्मात्पदार्थता तुल्या चित्ताभावोद्भवो मुहुः । सर्वत्र चित्ताभावेन सत्याकारतया स्थितेः ॥ ५२ ॥ सर्वत्रानुभावावस्थाप्रसरः सारतो भवेत् । सर्वस्यैव स्थिरं रूपं सर्वाकारतदात्मना ॥ ५३ ॥ सर्वाकारे महाकाररचना रुचिराचिरात् । सर्वत्रैक्ये स्थिरा रूढिर्जन्या रागादिनाहता ॥ ५४ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६३ सर्वस्य श्रेयसो नूनं सत्यान्निर्गतता मता। मूले समर्थतावेशो मध्ये तुल्यत्वमेतयोः ॥ ५५ ॥ कार्यो मूलसमावेश इति ज्ञात्वा तथोदयः। सर्वामूर्तत्वतत्त्वास्थाबुद्धिदृष्टप्रसक्तितः ॥ ५६ ॥ सम्यगुत्पद्यतेऽन्तर्धिरूपणं भक्तिनिर्गतिः। मतिर्ममत्वनिर्माणमनसां महतां तराम् ॥ ५७ ॥ प्रसरत्यस्ति विज्ञानं सर्वदिक्कमबाधितम्। ममत्वमानसे साधु साधूनां सक्तिमागते ॥ ५८ ॥ संकल्पप्रभवं सर्वं जगदेतदनन्तकम्। सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥ ५९ ॥ अभिमानात्तथैवैषां भावसर्गः प्रवर्तते। प्रत्येकदेवग्रामस्य ममताभिनिवेशतः ॥ ६० ॥ दिव्यानि तान्ययत्नेन प्रसरन्ति समन्ततः। सामस्त्येन प्रसर्पन्तो निर्विशेषा हि केवलाः ॥ ६१ ॥ सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः। विशेषममतावेशप्रवेशवशतो महान् ॥ ६२ ॥ तनुस्वरूपनिर्माण/परिमाणभवोदयः । शिवतत्त्वे त्रिधाभूते स्वच्छकालकलाकले ॥ ६३ ॥ सकले च समासक्तस्तत्तद्रूपोपरूपणम्। सामर्थ्येऽखंडसामर्थ्यं सतते ज्ञानवीर्यता ॥ ६४ ॥ ईशे समग्रकर्तृत्वं सरस्वत्या मनूत्तमः। प्रमेये ममतावेशान्निर्मिणोति नवं जगत् ॥ ६५ ॥ कलने चिद्घनत्वं स्याद्भेदने सर्वचिद्गमः। स्नेहे तु सर्वकामत्वं कालात्सर्वर्तुवर्तनम् ॥ ६६ ॥ नियमे सर्वयमनं कैवल्यं प्रलयाकले। स्वात्मनो ह्यनिरुद्धार्था निरूपाधिविभूतिका ॥ ६७ ॥ सर्वाकाराभिमानेन ममेतिदृढसक्तिना। सर्वाकारसमापत्तिरनन्तैवोपजायते ॥ ६८ ॥

१६४ शिवदृष्टिः [ आ०-७ नैतच्छात्रं विना प्रोक्तं कायाकारेण कायिकम्। जलेन जलरूपं स्यादित्याद्यैर्वचनैः स्मृतम्॥ ६६ ॥ सर्वव्याप्त्या स्नेहपूर्णं स्त्र्यादिकायात्मचिन्तनात्। जगद्विधेयतामेति किमुतैकशरीरकम्॥ ७० ॥ सर्वमस्मीति रुचिरं रूपमात्मनि चिन्तयन्। अहमेव मत्परो न भवेदाकर्षणक्रमः॥ ७१ ॥ सर्वस्मिन् मयि कस्यापि कायं ध्यायन् जुगुप्सितम्। ममैवासौ च विद्वेष्यो विद्विष्टो जायते ततः॥ ७२ ॥ व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत्। विद्रुतं करभारूढं विश्वमुच्चाटितं भवेत्॥ ७३ ॥ व्याप्तौ किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम्। जडरूपोऽभवामीति चिन्तया मरणं स्थितम्॥ ७४ ॥ व्याप्तिदार्ढ्यं नक्तमेकं चन्द्रं वात्मानमुत्थितम्। विचिन्त्य प्रस्रवन्तं के कस्याप्याप्यायनं भवेत्॥ ७५ ॥ चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु। अविनाश्येकपिण्डे वा स भवेदजरामरः॥ ७६ ॥ स्रवत्कृष्णामृतं मेघमात्मोपरि निजात्मकम्। ध्यायतो बालमात्मानं सा जरा संप्रलीयते॥ ७७ ॥ ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते। भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी॥ ७८ ॥ येन येनेन्द्रियेणार्थो गृह्यते तत्र तत्र सा। शिवता लक्षिता सत्या तद्ध्यानमपि वर्ण्यते॥ ७६ ॥ यस्यां यस्यां प्रतीतौ तु शिवोऽस्मीति मनोगमः। तस्यां तथैव चिन्तायां तद्ध्यानमपि जल्पितम्॥ ८० ॥ यस्मिन्नर्थे सदात्यागो गच्छतस्तिष्ठतोऽपि वा। धावतः खादतो वापि स योगः परयोगिनः॥ ८१ ॥ भावितेऽभाविते वापि शिवत्वे शिवतैव मे। सर्वदा पितृमात्रादितौल्यदार्ढ्येन योगिता॥ ८२ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६५ तथाहि कोशहेमादिसादृश्यं योगसत्यता। शिवोऽस्मीति मदिच्छात् सर्वभावप्रवर्तनम् ॥ ८३ ॥ अत एव शिवः सर्वमिति योगोऽथ चेतसि। सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥ ८४ ॥ अनिरुद्धो जपोऽस्त्येव सर्वावस्थास्वसौ जपः। नानाकारैः सदा कुर्वन्नुदयं सर्ववस्तुगः ॥ ८५ ॥ अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते। संकल्पाज्जनयन्नस्मि स्थितः शब्दानथो मुखे ॥ ८६ ॥ सो हि नाम जपो ज्ञेयः सत्यादिस्त्रिविधो हि सः। न मे बन्धो ऽन मे मोक्षस्तौ मलत्वेन संस्थितौ ॥ ८७ ॥ प्रतिपत्त्यानया स्नानं निर्मलीकरणं मतम्। दुःखे वापि सुखे वापि सर्वासु प्रतिपत्तिषु ॥ ८८ ॥ शिवोऽस्मीतिम नोल्हादो जलस्नानं परं मतम्। चिन्निर्मला तन्मयं हि जगदस्मि तथाविधः ॥ ८६ ॥ इत्यास्थाजलशौचेन शुद्धिस्र्नानं तथोदितम्। सर्वभावाः शिवाकारा अन्तर्भूताः शिवानले ॥ ६० ॥ सोऽहं शिवः सुतृप्तोऽस्मि होम इत्युदितः परः। अत्राकारे न यन्मेऽस्ति तदाकारान्तरेऽस्ति मे ॥ ६१ ॥ तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः। पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥ ६२ ॥ पूजकैरविभेदेन सदा पूजेति पूजनम्। अत्राकारे च मे पूजा या स्यात् सादाशिवात्मनि ॥ ६३ ॥ लिंगादिके पूजितोऽस्मि सदा पूजेति वा स्थिता। पूजकः पूजनं पूज्यमिति सर्वं शिवः स्थितः ॥ ६४ ॥ किमेतेनात्मभावेन तृप्त्या वा ऽपरपूजनम्। सर्वाकारेषु भोग्येन यजनं मम वर्तते ॥ ६५ ॥ भुञ्जेऽहं यत्र तत्रापि भोगलग्नः प्रतीतितः। शिवोऽस्मि साधनाविष्टः शिवोऽहं याजकोऽप्यहम् ॥ ६६ ॥

१६६ शिवदृष्टिः [ आ०-७ शिव एवानया स्थित्या सत्यया याग उत्तमः । येन येन यत्र यत्र यैर्यैर्यन्दिह चेज्यते ॥ ९७ ॥ स मया क्रियते यागः शिवत्वाद्याग उत्तमः । शिवं यामि शिवो यामि शिवेन शिवसाधनः ॥ ९८ ॥ भिन्नोऽप्यभिन्न एवास्मि शिव इत्थं विचेष्टनम् । शिवो भोक्ता शिवो भोज्यं शिवेषु शिवसाधनः ॥ ९९ ॥ भुक्त्वोदेति शिवावस्था स्थितेत्थं भोक्तृरूपता । शिवः कर्ता शिवः कर्म शिवोऽस्मि करणात्मकः ॥ १०० ॥ शिव एव फलावस्था व्यापार इति साधुषु । भावनाकरणाभ्यां किं शिवस्य सततोदितेः ॥ १०१ ॥ यथा तथा प्रतिष्ठामः प्रबुद्धस्येति वर्तनम् । यद्दृश्यं यच्च संस्पृश्यं यद्घ्रेयं रस्यमेव यत् ॥ १०२ ॥ यच्छाव्यं तच्छिवव्यक्तैस्तच्छिवत्वेन संश्रितः । गम्ये ग्राह्ये तथा वाच्ये सुखादावपि सर्वदा ॥ १०३ ॥ स्थिते शिवत्वे बद्धास्थो भवेत् सर्वगतः शिवः । मन्तव्ये चाभिमान्तव्ये बोद्धव्ये धृतिसंगमात् ॥ १०४ ॥ सुखे दुःखे विमोहे च स्थितोऽहं परमः शिवः । प्रतिपादितमेतावत् सर्वमेव शिवात्मकम् ॥ १०५ ॥ न स्वबुद्ध्या शिवो दाता शिवो भोक्तेति शास्त्रतः । इति कथितमशेषं शैवरूपेण विश्वं जगदुदितमहेशांघ्रयाज्ञया स्वप्नभाजा । यदधिगमबलेन प्राप्य सम्यग्विकासं भवति शिवमयात्मा सर्वभावेन सर्वः ॥ १०६ ॥ शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ १०७ ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरे । कलापिग्रामप्रमुखे समुच्छिन्ने च शासने ॥ १०८ ॥ कैलासादौ भ्रमन् देवो मूर्त्या श्रीकंठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ १०९ ॥

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६७ र्नीन दुर्वाससं नाम भगवानूर्ध्वरेतसम्। नोच्छिद्येत यथा शास्त्रं रहस्यं कुरु तादृशम्॥ ११०॥ ततः स भगवान् देवादादेशं प्राप्य यत्नवान्। ससर्ज मानसं पुत्रं त्र्यम्बकावित्यनामकम्॥ १११॥ तस्मिन् संक्रमायामास रहस्यानि समन्ततः। सोऽपि गत्वा गुहां सम्यक् त्र्यम्बकाख्यां ततः परम्॥ ११२॥ तन्नाम्ना चिह्नितं तत्र ससर्ज मनसा सुतम्। खमुत्पपात संसिद्धस्तत्पुत्रोऽपि तथा तथा॥ ११३॥ सिद्धस्तत्सुतोत्पत्त्या सिद्धा एवं चतुर्दश। यावत्पञ्चदशः पुत्रः सर्वशास्त्रविशारदः॥ ११४॥ स कदाचिल्लोकयात्रामसीनः प्रेक्षते ततः। बहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि॥ ११५॥ रूपयौवनसौभाग्यबन्धुरा सा गता दृशम्। दृष्ट्वा तां लक्षणैर्युक्तां योग्यां कन्यामथात्मनः॥ ११६॥ सधर्मचारिणीं सम्यग्गत्वा तत्पितरं स्वयम्। अर्थयित्वा ब्राह्मणीं तामानयामास यत्नतः॥ ११७॥ ब्राह्मणेन विवाहेन ततो जातस्तथाविधः। तेन यः स च कालेन काश्मीरेष्वागतो भ्रमन्॥ ११८॥ नाम्ना स संगमादित्यो वर्षादित्योऽपि तत्सुतः। तस्याप्यभूत् स भगवानरुणादित्यसंज्ञकः॥ ११९॥ आनन्दसंज्ञकस्तस्मादुद्बभूव तथाविधः। तस्मादस्मि समुद्भूतः सोमानन्दाख्य ईदृशः॥ १२०॥ करोमि स्म प्रकरणं शिवदृष्ट्यभिधानकम्। एवमेषां त्र्यम्बकाख्या तेरम्बा देशभाषया॥ १२१॥ स्थिता शिष्यप्रशिष्याद्यैर्विस्तीर्णा मठिकोदिता। तदेवमेतद्विहितं मया प्रकरणं मनाक्॥ १२२॥ प्रार्थ्यन्तेऽस्मिन् प्रयुक्तेऽपि गुरवो ग्रहणं प्रति॥ इति समाप्तिसंज्ञकं नाम सप्तममाह्निकम्॥

(पृष्ठस्य पाठः अत्यन्तम् अस्पष्टः/छायारूपः अस्ति) (मुद्रा/Stamp:) परिग्रह सं. ...... 5333

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।

294 SC JACO