शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 21, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] उत्पलदेवकृतवृत्त्योपेता ७ न केवलं परापराद्यनाविर्भाव एवैवं नियमो¹, यावदपरावस्था- यामपि । सर्वविकल्पादिज्ञानानामग्रत उत्पित्सावस्थायां² ज्ञानज्ञेयानाबिल- ज्ञातृस्वरूपसंस्पर्शोऽवश्यंभावीति तदवस्थास्वपि परव्यवस्था । यद्यपि³ तदा पुर्यष्टकलक्षणज्ञातृवस्थानात् सौषुप्तवत् न परावस्था, तथापि यदा ज्ञानाग्र- भागेषु विश्राम्यति क्वचित्, तदा परता । न च प्रमाणभूमौ विश्रान्तिस्तत्रापि प्राणस्पन्दनात्मकज्ञेयव्याकुलितत्वात् । ततः प्राणादिज्ञेयज्ञानस्यापि अग्रतो विश्रान्तिः । वस्तुतः सौषुप्ताग्रभागिनी परता स्थितैव, लक्ष्यते च प्रकाश- स्यालक्ष्यमाणत्वाभावात्, तथा फलेऽपि मयैतज्ज्ञातमिति प्रमाणफलभूत- ज्ञानान्तरोदये तदा ज्ञानमात्रे निर्वृत्तिमति विश्रान्तया । अथवा यथा समग्र- ज्ञानानामारम्भे, तथा फले परिसमाप्तौ तत्रैव विश्रान्तया । तद्विश्रान्तिं⁴ विना अर्थो ज्ञात एव न भवति । समग्रत्वमनेकप्रकारकत्वेन⁵ ज्ञानानां मध्य- दशायामेव प्रत्यगात्मत्वेन । पूर्वापरकोट्योस्तु एकविशुद्धशिवतैव सर्वेषाम् । एतच्चेश्वरप्रत्यभिज्ञायां परीक्ष्यम् ॥ ५ ॥ सर्वत्र शक्तिपञ्चकस्वभावमुपसंहरन्नाह-- एवं⁶ न जातुचित्तस्य वियोगस्त्रितयात्मना ॥ ६ ॥ शक्त्या निर्वृत्तचित्तस्य तदभागविभागयोः । एवमुक्तप्रकारेण त्रितयात्मना इच्छाज्ञानक्रियारूपया शक्त्या न वियोगः कदाचिदपि निर्वृत्तं चित्तं चिद्रूपत्वं निर्विवादं यस्य तथा चिदा- नन्दशक्त्योः परापराद्यवस्थास्वपि समर्थनात्⁷ । केवलं परावस्थायामेषित- व्याद्यभावादिच्छाद्यभावशङ्कायां तत्संभवो निगमितश्चिदानन्दानुवादेन⁸ । तासां शक्तीनामविभागविभागयोः परत्वापरत्वावस्थाभेदेषु ज्ञेयादिसद्भावे शक्तीनां विभागव्यवहारात् तस्य प्रमातुरिच्छादिशक्तिभिर्न विरहः ॥ ६ ॥ १ सर्वशक्तिसामरस्यस्वरूपशक्तिमदवश्यंभावः । २ उत्पतितुमिच्छा उत्पित्सा । ३ ननु चास्तु तत्र ज्ञानज्ञेयानाबिलज्ञातृरूपस्पर्शस्तथापि कथं परव्यवस्था, नहि तेनैवं तद्भावः, अस्ति च तादृक्स्वरूपं सौषुप्तं, यतो मलेन न्यक्कृतः कलया तु प्रबुद्ध इवात्र तन्न्यक्कारेण सुष्ठु सुप्त इति तत्रापि ज्ञातृवस्थानेऽपि सुषुप्त इति कथ्यत इत्याशयेनाह यद्यपीति । ४ यथोक्तं वृत्तिकृतैव । ५ का पुनरपरावस्था इत्याह । ६ एवमिति अपूर्वप्रक्रियया सिद्धेऽर्थे सति । ७ तथाहीत्यादिना । ८ निगमावयवेन निश्चायितः । ९ परावस्थायां पुनरित्यादिना ।